बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
DevanagariHindipublished1,105 पृष्ठ
पृष्ठ 203, कुल 1105 में से
संदर्भ में पढ़ेंपृष्ठ 203
बृहत्संहितायाम् [XVI. 41-42.-XVII 1. अभिहितविपरीतलक्षणे क्षयमुपगच्छति तत्परिग्रहः । डमरभयगदातुराजना नरपतयश्च भवन्ति दुःखिताः ॥४१॥ यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा । भवति जनपदस्य चाप्यवृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु ॥४२॥ तथा च गर्गः । स्निग्धरश्मिविशालश्च प्रकृतिस्थश्च यो ग्रहः । ग्रहयुद्धरजोधूमनिर्घातोल्काद्यनाहतः ॥ स यदा स्वोच्चराशिस्यो मित्रभे स्वगृहेऽपि वा । स्थितः शुभग्रहैर्दृष्टः स पुष्णाति परिग्रहम् ॥ स्वमन्यथा हन्ति वर्गं जननाशं करोति च । नृपाणां भयदः प्रोक्तस्त्ववृष्टिभयकारकः ॥ ग्रहयुद्धाध्यायः ॥१७॥ युद्धं यथा यदा वा भविष्यमादिश्यते त्रिकालज्ञैः । तद्विज्ञानं करणे मया कृतं सूर्यसिद्धान्तात् ॥१॥