बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 230, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XXI. Sl. 13-18. ] एकविंशोऽध्यायः 211 तथा च गर्गः । माघेन श्रावणं विन्द्यान्नभस्थं फाल्गुनेन तु । चैत्रेणाश्वयुजं प्राहुर्वैशाखेन तु कार्तिकम् ॥ शुक्लपक्षेण कृष्णं तु कृष्णपक्षेण चेतरम् । रात्र्यह्लोश्च विपर्यासं कार्य काले विनिश्चयम् ॥ इति पराशरस्याप्येवं मतम् । पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः । शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ॥१३॥ Sloka 13.—The clouds formed in the east will give water in the west and vice versa. The same rule holds good in the case of the other pairs of directions. In like manner, the winds too are reverse at the two periods. तथा च पराशरः । अथ माघेन श्रावणं फाल्गुनेन भाद्रपदं चैत्रेणाश्वयुजं वैशाखेन तु कार्तिकं शुक्लेन कृष्णं कृष्णेन शुक्लं दिवसेन रात्रिं रात्र्या दिवसं गर्भाः प्रवर्षन्ति ॥ ह्लादिमृदूदक्शिवशक्रादिग्भवो मारुतो वियद्विमलम् । स्निग्धसितबहुलपरिवेषपरिवृतौ हिममयूखार्कौ ॥१४॥ पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् । काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥१५॥ सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका शुभा सन्ध्या । शशिशिवशक्राशास्थाः शान्तरवाः पक्षिम्गसंघाः ॥१६॥ विपुलाः प्रदक्षिणचराः स्निग्धंमयूखा ग्रहा निरुपसर्गाः । तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥१७॥ गर्भाणां पुष्टिकराः सर्वेषामेष योऽत्र तु विशेषः । ऋर्तुस्वभावजनितो गर्भविबृद्ध्यै तमभिधास्ये ॥१८॥ Slokas 14-18—The good symptoms at the time of the conception of clouds are the following : a delightful