बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 242, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XXIII. Sl. 6-10] त्रयोविंशोऽध्यायः 223 हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः । शतभिषगैन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥६॥ श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः । फल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिर्द्रोणाः ॥७॥ ऐन्द्राग्न्याख्ये वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः । आहिर्बुध्नार्यम्णप्राजापत्येषु पञ्चकृतिः ॥८॥ पञ्चदशाजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च । रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रवेष्वेते ॥९॥
तथा च समाससंहितायाम् दश युक्ता द्विकृतखतिथिरसष्टिग्दिग्वषयरामजलतिथिभिः । तिथिरसरसैश्च विरसाः सदशकृताः षड्विहीनाश्च ॥ जलषट्केशकसहिता जलरसयुक्ताः षडूनेाश्च । विषयतिथिषट्कसहिताश्चाश्विन्यादिषु जलद्रोणाः ॥-इति. रविरविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद्भुताहते च भवति च न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवे शिवं च ॥