बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 272, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XXVIII. Sl. 19.] अष्टाविंशोऽध्यायः 253 Sloka 18.—If the Sun-beams called अमोघ-unerring- are stretched upwards like the out-stretched arms of the "setting Mountain" and if the clouds thunder close to the earth, they are to be understood to be important signs of rain. For अमोघ vide Adhyaya XXX-11 infra. तथा च समाससंहितायाम् पृच्छाकाले शान्ता वारुणदिक्स्था विहङ्गो वा । दर्पणलोहकलङ्कोलवणक्लेदोऽतितीक्ष्णकिरणोऽर्कः ॥ पोप्लूयन्ते मत्स्या दिश्यैशान्यं तडिच्च दिवा । उत्कर्णपुच्छवदना गावस्तापोऽम्भसां पवननाशः ॥ अञ्जनपुञ्जश्यामा गिरयो बाष्पावृता यदि वा । यदि जलपांसुस्नानं विहगानां मैथुनं द्विजिह्वानाम् ॥ वृक्षारोहणमथवा पिपीलिकाण्डोपसङ्क्रान्तिः । कृकवाकुशुककपोतकलविङ्कविलोचनोऽर्केन्द्रोः ॥ स्निग्धः परिवेषो वा वियदमलं बालकनिमित्तम् । मधुसदृशः शीतांशूः प्रतिचन्द्रः शीतमारुतः पूर्वः ॥ ऊर्ध्वाङ्कुराश्च वह्नयस्सद्योवर्षाय कीर्त्यन्ते । स्निग्धाः समसितरेखा यथाभ्रवृन्दानि कल्पितान्येव ॥ यच्छन्त्यपो मयूखा यदि चेन्दोर्वा रवेर्दीप्ताः ॥ तथा च पराशरः बलवत्सु महद्वर्षमल्पेष्वल्पाम्बुशीकरम् । मध्येषु मध्यमं ब्रूयान्निमित्तेषु निमित्तवत् ॥ उल्कानिर्घातभूकम्पपांसुवर्षाणि केतवः । अपसव्या ग्रहाश्चैव नित्यं वर्षासु वर्षदाः ॥ इति- प्रावृषि शीतकरो भृगुपुत्रात्सप्तमराशिगतः शुभदृष्टः । सूर्यसुतान्नवपञ्चमगो वा सप्तमगश्च जलाऽऽगमनाय ॥१९॥ Sloka 19.—If in the monsoon the Moon being placed in the 7th house from Venus or in the 5th, 7th, or 9th house from Saturn, is aspected by benefics, there will be rain soon.