भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 290, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 290

Adh. XXXII. Sl. 2-7] द्वात्रिंशोऽध्यायः 271 ते श्वसन्ति यदा श्रान्ताः स वायुः श्वसितो महान् ॥ वेगान्महीं चालयन्ति भावाभावाय देहिनाम् । इति. अनिलोऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्यन्ये । केचिच्चादृष्टकारितमिदमन्ये प्राहुराचार्याः ॥२॥ Sloka 2.—Yet, others there are who hold that it is caused by the atmospheric wind colliding with another and falling to the earth with a booming sound. There are still others who maintain that it is occasioned by some unseen power. Some more there are who declare as follows : तथा च वसिष्ठः । यदा तु बलवान्वायुरन्तरिक्षानिलाहतः । पतत्याशु स निर्घातो भवेदनिलसम्भवः ॥ तस्य योगान्निपततश्चलत्यन्याहता क्षितिः । सोऽभिघातसमुत्थः स्यात्सनिर्घातमहीचलः ॥ इति. तथा च वृद्धगर्गः । प्रजा धर्मरता यत्र तत्र कम्पं शुभं वदेत् । जनानां श्रेयसे नित्यं विसृजन्ति सुरोत्तमाः ॥ विपरीतस्थिता यत्र जनास्तत्राशुभं तथा । विसृजन्ति प्रजानां तु दुःखशोकाभिवृद्धये ॥ इति. गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च । आकम्पिता पितामहमाहामरसदसि सव्रीडम् ॥३॥ भगवन्नाम ममैतत्त्वया कृतं यदचलेति तन्न तथा । क्रियतेऽचलैश्चलद्भिः शक्ताहं नास्य खेदस्य ॥४॥ तस्याः सगद्गदगिरं किञ्चित्स्फुरिताधरं विनतमीषत् । साश्रुविलोचनमाननमालोक्य पितामहः प्राह ॥५॥ मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय । शक्रः कृतमित्युक्त्वा मा भैरिति वसुमतीमाह ॥६॥ किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् । प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति ॥७॥