बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 294, कुल 1105 में से
संदर्भ में पढ़ेंद्वात्रिंशोऽध्यायः ऐन्द्रं स्तुतकुलजाति ख्यातावनिपालगणपविध्वंसि । अतिसारगलग्रहवदनरोगकृच्छ्रर्दिकोपाय ॥१८॥ काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः । अर्बुदसुराष्ट्रमालवपीडाकरमिष्टवृष्टिकारम् ॥१९॥ तथा च गर्गः निशार्द्धे तु यदा पूर्वे उल्कानिर्घातभूचलाः । मैत्रेन्द्ववैश्वश्रवणाभिजिद्रोहिणिवासवैः ॥ स्यादिन्द्रसम्भवः कम्पो लक्षणानि च मे शृणु । वर्षन्ति बहवो मेघा वराहमहिषोपमाः ॥ मुञ्चन्तो मधुरान् रवान् विद्युद्भासितभूतलाः । सप्तमेऽहनि सम्प्राप्ते कम्पः स्यादिन्द्रसम्भवः ॥ पौष्णाप्यार्द्राश्लेषामूलाहिर्बुध्न्यवरुणदेवानि । मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि ॥२०॥ नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः । तडिदुल्लासितदेहा धाराङ्कुरवर्षिणो जलदाः ॥२१॥