बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 296, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XXXII. Sl. 24-26.] द्वात्रिंशोऽध्यायः 277 तथा च समाससंहितायामाचार्येणैवोक्तम् आर्यम्णपुत्रं भचतुष्टयं च शशाङ्कमादित्यमथाश्विनी च । वायव्यमेतत्पवनोऽत्र चण्डो मासद्वयेनाशुभदः प्रजानाम् ॥ अजैकपादं बहुलाभरण्यो भाग्यं विशाखा गुरुभं मघा च । क्षुदग्निशस्त्रामयकोपकारि पक्षैस्त्रिभिर्मण्डलमाग्निसञ्ज्ञम् ॥ प्राजापत्यं वैष्णवं मैत्रमैन्द्रं विश्वेशं स्याद्वासवं चाभिजित्च । ऐन्द्रं ह्येतन्मण्डलं सप्तरात्रात् कुर्यात्तोयं हृष्टलोकं प्रशान्तम् ॥ आहिर्बुध्न्यं वारुणं मूलमाप्यं पौष्णं सार्पं मन्मथारीश्वरं च । सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम् ॥ The following three slokas are from समाससंहिता- उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुब्प्रदाहाः । वातोऽतिचण्डो ग्रहणं रवीन्द्रोर्नक्षत्रतारागणवैकृतानि ॥ २४॥ व्यभ्रे वृष्टिर्वैकृतं वातवृष्टिर्धूमोऽनग्निर्विरस्फुलिङ्गार्चिषो वा । वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा ॥ २५॥ सन्ध्याविकारः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादः । अन्यच्च यत्स्यात्प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगाद्यम् ॥ २६॥ Slokas 24-26.—The other portents referred to above are enumerated here—meteors, aerial city, (Harischandra pura), dust, portentous thunder, earthquake, fires in the quarters, violent winds, solar and lunar eclipses, unnatu- ral phenomena in the case of any star or groups of stars, rain without clouds, any thing unnatural in the firmament, excessive rain, smoke without fire, flames without sparks, (?) entry of wild creatures into a village, sight of a rainbow at nights—unnatural phenomena during twilights, fragmentary circles (halos) round the Sun or the Moon, contrary flows in rivers, sounds of musical instruments in the heavens. Any other phenomenon which is con- trary to nature and its effects should be included in the above circles.