बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 298, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XXXII. Sl. 30-31.] द्वात्रिंशोऽध्यायः 279 वाय्वग्निमिश्रितो यश्च वेलामण्डलसम्भवः । दुर्भिक्षव्याधिरोगैस्तु पीड्यन्ते तत्र जन्तवः ॥ माहेन्द्रवारुणे यत्र वेलामण्डलसम्भवः । सुभिक्षक्षेमधर्माणां तत्र वृष्टिः प्रतिष्ठिता ॥ एवमुक्तपरिशेषाणां विशेषफलं नास्ति पाराशरे तन्त्रे विशेषतरं पठ्यते- तथा च योऽन्यस्मिन्नक्षत्रे भागे चान्यत्र भूचलो भवति । स भवेद्व्यामिश्रफलस्तन्मे गदितो निबोध त्वम् ॥ कुरुशाल्वमत्स्यनैषधपुण्ड्रान्ध्रकलिङ्गविन्ध्यपादस्थान् । वाय्वाग्नेयः कम्पः सानलजीवान् भवति भैक्ष्यान् ॥ प्राच्यशकचीनपह्नवयौधेयकपर्दिकश्ववक्रोमान् । शरदण्डमगधबन्धकिविनाशनः शक्रवायव्यः ॥ आवन्तिकाः पुलिन्दा विदेहकाश्मीरदरदवासान्ताः । बाह्याश्रिताश्च वायव्यवारुणे प्राप्नुयुः पीडाम् ॥ ऐक्ष्वाकवाडऽमरध्यान् पटच्चराभीरचनिमर्कुत्सान् । ऐन्द्राग्नेयः कम्पो हिनस्ति राज्ञश्च समुदीर्णान् ॥ सरितः सरः समुद्राश्रितांश्च गोनर्दमञ्जनाराज्यम् । क्षत्रियगणांश्च हन्यात्कम्पो वरुणाग्निदैवत्यः ॥ काश्याभिसारकाच्युतकच्छद्वीपार्यदेशजाः पुरुषाः । गणपूजिताः कुलाग्र्या नृपाश्च वरुणेन्द्रवध्याः स्युः ॥—इति- पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात् । सद्यः फलति च वरुणो येषु न कालोऽद्रुतेषूक्तः ॥३०॥ Sloka 30.—Where the time-limits for the happen- ings of the effects arising from certain omens have not been specified, they will be felt in the course of two months, if the omens arise in the 'wind' circle; in three fort-nights, in the 'Fire' circle; in a week, in 'Indra's' circle; and those of the 'Varuna' circle on the same day. चलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम् । सलिलपतिरशीतिसंयुक्तं कुलिशधरोऽभ्यधिकं च षष्टितः ॥३१॥