भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 315, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 315

296 बृहत्संहितायाम् [Adh. XXXV. Sl. 4. तथा च ऋषिपुत्र आह द्विरुत्तरमविच्छिन्नं स्निग्धमिन्द्रायुधं महत् । पृष्ठतो विजयाय स्याद्विच्छिन्नं परुषं न तु ॥ तथा च नन्दी आह बहुवर्णमविच्छिन्नं द्विरुन्नतं स्निग्धममरपतिचापम् । पश्चात्पार्श्वे वापि प्रयाणकाले रिपुवधाय ॥ तथा च बृहस्पतिः नीलताम्रमविच्छिन्नं द्विगुणं सिद्धमायतम् । पृष्ठतः पार्श्वयोर्वापि जयायेन्द्रधनुर्भवेत् ॥ तथा च गर्गोक्तमयूरचित्रके पठ्यते । पूर्वस्यां दिशि सङ्ग्रामे भवतीन्द्रधनुर्यदि । पश्चिमे च प्रयातानां जयस्तत्र न संशयः ॥ येषां प्रवृत्ते सङ्ग्रामे पश्चादिन्द्रधनुर्भवेत् । पूर्वेण तु प्रयातानां जयस्तत्र न संशयः ॥ येषां प्रवृत्ते संग्रामे वामपार्श्वे च पृष्ठतः । धनुः प्रादुर्भवेदैन्द्रं जयस्तेषां न संशयः ॥ येषां प्रवृत्ते संग्रामे पुरस्ताद्दक्षिणेन वा । धनुः प्रादुर्भवेदैन्द्रं वधं तेषां विनिर्दिशेत् ॥ पश्चिमे तु दिशो भागे भवतीन्द्रधनुर्यदि । समेघगगनं स्निग्धं वैदूर्यविमलद्युति ॥ विद्युच्च निर्मला भाति पूर्वे वायुर्यदा भवेत् । सप्तरात्रं महावर्षं निर्दिशेद्दैवचिन्तकः ॥ विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मरककारि । पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ॥४॥ Sloka 4.—A rainbow that appears in an intermediate direction destroys the lord of that particular region ; one seen in a cloudless sky causes pestilence and one that is pink, yellow and blue produces evils from war, fire and famine respectively. For the lords of the several quarters, see Chapter LXXXVI—