भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 341, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 341

रुचिरपताकातोरणवनमालामलङ्कृतं प्रहृष्टजनम् । संमार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम् ॥२५॥ अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम् । नटनर्तकगेयज्ञैराकीर्णचतुष्पथं नगरम् ॥२६॥ तत्र पताकाः श्वेता भवन्ति विजयाय रोगदाः पीताः । जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय ॥२७॥ यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः । बालानां तलशब्दे सङ्ग्रामः सत्त्वयुद्धे वा ॥२८॥ सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्रे । जागरमेकादश्यां नरेश्वरः कारयेच्चास्याम् ॥२९॥ सितवस्त्रोष्णीषधरः पुरोहितः शाक्रवैष्णवैर्मन्त्रैः । जुहुयादग्निं सांवत्सरो निमित्तानि गृह्णीयात् ॥३०॥