भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 403, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 403

बृहत्संहितायाम् आवाहितेषु कृत्वा पूजां तां शर्वरीं वसेयुस्ते । सदसत्स्वप्ननिमित्तं यात्रायां स्वप्नविधिरुक्तः ॥२२॥ तथा च यात्रायाम् । दुकूलमुक्तामणिभृन्नरेन्द्रः समन्त्रिदैवज्ञपुरोहितोऽतः । स्वदेवतागारमनुप्रविश्य निवेशयेत्तत्र दिगीश्वराचाम् ॥ अभ्यर्च्य मन्त्रैस्तु पुरोहितस्ता मघश्च तस्यां भुवि संस्कृतायाम् । दर्भैश्च कृत्वास्तरमक्षतैस्तां लिखेत्समन्तात्सितसर्षपैश्च ॥ ब्राह्मीं सदूर्वामथ नागपुष्पीं कृत्वोपधानं शिरसि क्षितीशः । पूजार्घजान् पुष्यफलाभिधानानाशासु दध्याच्चतुरःक्रमेण ॥ यज्जाग्रतो दूरमुदैति देवमावर्त्य मन्त्रं प्रयतस्त्रिरेतम् । लब्ध्वेकमृग्दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम् ॥ नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च । वामनाय विरूपाय स्वप्नाधिपतये नमः ॥ भगवन् देवदेवेश शूलभृद्वृषवाहन । इष्टानिष्टं समाचक्ष्व स्वप्ने स्वप्नस्य शाश्वतम् ॥ इष्टमन्त्रान् ततः स्मृत्वा शिवशक्तिपुरोगमान् । अभ्यर्थनां ततस्तस्य कृत्वा सुप्रयतो नृपः ॥ एकवस्त्रे कुशास्तीर्णे सुप्तः प्रयतमानसः । निशान्ते पश्यति स्वप्नं शुभं वा यदि वाऽशुभम् ॥ अपरेऽहनि प्रभाते सम्भारानुपहरेद्यथोक्तगुणान् । गत्वावनिप्रदेशे श्लोकाश्चाप्यत्र मुनिगीताः ॥२३॥

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान) · पृष्ठ 403, कुल 1105 में से · BharatKosha