भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 529, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 529

[Header] 510 बृहत्संहितायाम् [Adh. LVIII. Sl. 29.

द्व्यङ्गुलौ पृथुलौ कर्णौ स्रोतस्तत्सममेव तु ॥ कर्णनेत्रान्तरं कुर्यात्तत्प्रमाणं चतुरङ्गुलम् । अधरोऽङ्गुलमानं तु तदर्धेनोत्तरः स्मृतः ॥ चतुरङ्गुलकं वक्त्रं नासाग्रं तद्वपुःसमम् । नेत्रे द्व्यङ्गुले दीर्घे तत्रिभागेऽथ तारका ॥ दृक्तारापञ्चमांशेन दृष्टिकाङ्गुष्ठमार्गगा । द्व्यङ्गुलं चाक्षिपूटकं तथा नासापुटौ स्मृतौ ॥ कर्णश्रोतोऽङ्गुलमितं सुकुमारावधिश्च यः । गोच्छा चाङ्गुलिका कार्या तत्समा केशरेखिका ॥ द्व्यङ्गुलौ तु स्मृतौ शङ्खावाननी चतुरङ्गुलो । चतुर्दशाङ्गुलः शीर्षो द्वात्रिंशत् परिणाहतः ॥ एकाविंशत् स्मृता ग्रीवा विस्तारतश्चाष्टाङ्गुला । कण्ठाच्चाहृदयं नाभी मेढ्रं यावद्द्वादशाङ्गुलम् ॥ ऊरू जङ्घे चतुर्विंशा जानू च चतुरङ्गुलो । द्वादशाङ्गुलिको पादौ विस्तारस्तु षडङ्गुलाः ॥ गुल्फादधोभागगतं चतुरङ्गुलमुच्यते । अङ्गुष्ठं द्व्यङ्गुलं दीर्घं प्रदेशिन्या समं तथा ॥ शेषाः पादानुसारेण परिहीणा यथाक्रमम् । जङ्घाग्रे परिधिर्ज्ञेयो ह्यङ्गुलानां चतुर्दश ॥ ऊरु तद्द्विगुणो प्रोक्तः कटिस्त्रिगुणतः स्मृता । अङ्गुलं तु भवेन्नाभी वेधगाम्भीर्यतोऽपि वा ॥ नाभीमध्यं परीणाहश्चत्वारिंशत्प्रकीर्तितः । षोडश स्तनयोर्मध्यं कक्ष्ये ऊर्ध्वं षडङ्गुले ॥ अष्टाङ्गुलौ स्मृतौ स्कन्धौ बाहू त्रिंशच्चतुर्युतौ । बाहू मूले षोडश स्याद्धस्ताग्रे द्वादश स्मृताः ॥ षडङ्गुलं हस्ततलं सप्त दैर्घ्येण च स्मृतम् । पञ्चाङ्गुला भवेन्मध्या तर्जन्यर्धाङ्गुलोनिता ॥ अनामिका च तत्सुल्या कनिष्ठा चाङ्गुलोनिता । सुरूपाक्षाश्च कर्तव्या द्विपर्वाङ्गुष्ठिकासमृता ॥ त्रिपर्वाङ्गुलयः शेषा नखाः पर्वाधविस्तृताः । देशवेषयुतान् हस्तान् सौम्यरूपांश्च कारयेत् ॥ स्वरूपा लक्षणोपेता प्रतिमा वृद्धिदा भवेत् ।