बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
DevanagariHindipublished1,105 पृष्ठ
पृष्ठ 540, कुल 1105 में से
संदर्भ में पढ़ेंपृष्ठ 540
षष्टितमोऽध्यायः
पूर्वेण पूर्वोत्तरतोऽथवोदक्पतद्यदा वृद्धिकरस्तदा स्यात् । आग्नेयकोणात्क्रमशोऽग्निदाहरुग्रोगरोगास्तुरगक्षयश्च ॥१३॥
यन्नोक्तमस्मिन् वनसम्प्रवेशे निपातविच्छेदनवृक्षगर्भाः । इन्द्रध्वजे वास्तुनि च प्रदिष्टाः पूर्वं मया तेऽत्र तथैव योज्याः ॥१४॥
प्रतिमाप्रतिष्ठापनाध्यायः ॥६०॥
दिशि याम्यायां कुर्यादधिवासनमण्डपं बुधः प्राग्वा । तोरणचतुष्टययुतं शस्तद्रुमपल्लवच्छन्नम् ॥१॥ पूर्वे भागे चित्राः स्रजः पताकाश्च मण्डपस्योक्ताः । आग्नेयां दिशि रक्ताः कृष्णाः स्युर्याम्यनैर्ऋत्योः ॥२॥ श्वेता दिश्यपरस्यां वायव्यायां तु पाण्डुरा एव । चित्राश्चोत्तरपार्श्वे पीताः पूर्वोत्तरे कार्याः ॥३॥
बृ सं 66