भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 67, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 67

48 बृहत्संहितायाम् [Adh. V. Sl. 12-13 तथा च सूर्यसिद्धान्ते इन्दुना च्छादितं सूर्यमधोऽविक्षिप्तगामिना । न पश्यति यदा लोकस्तदा स्याद्भास्करग्रहः ॥ तमोमयस्य तमसो रविरश्मिपलायिनः । भूच्छाया चन्द्रबिम्बं च स्थाने द्वे परिकल्पिते ॥ तथा च ब्रह्मसिद्धान्ते भूच्छायेंदुं चन्द्रः सूर्यं छादयति मानयोगाद्वात् । विक्षेपो यद्यूनः शुक्लेतरपञ्चदश्यन्ते ॥ आवरणं महदिन्दोः कुण्ठविषाणस्ततोऽर्द्धसञ्छन्नः । स्वल्पं रवेर्यतोऽतस्तीक्ष्णविषाणो रविर्भवति ॥१२॥ Sloka 12.—In the case of a lunar eclipse, the con- cealing agency is very big, while in that of the solar, it is small. Hence in semi-lunar and semi-solar eclipses, the luminous horns are respectively blunt and sharp. तथा च ब्रह्मसिद्धान्ते महदिन्दोरावरणं कुण्ठविषाणो यतोऽर्द्धसञ्छन्नः । अर्द्धच्छन्नो भानुस्तीक्ष्णविषाणस्ततोऽस्त्वाल्पम् ॥ एवमुपरागकारणमुक्तमिदं दिव्यदृग्भिराचार्यैः । राहुरकारणमस्मिन्नित्युक्तः शास्त्रसद्भावः ॥१३॥ Sloka 13.—Thus the cause for the eclipses has been given by our ancient masters possessed of divine sight. Hence, the scientific truth is that Rahu is not at all the cause of that. तथा च ब्रह्मसिद्धान्ते यदि राहुः प्राग्भागादिन्दुं छादयति किं तथा नार्कम् । स्थित्यर्द्धं महदिन्दोर्यथा तथा किं न सूर्यस्य ॥ किं प्रतिविषयं सूर्यो राहुश्छान्यो यतो रविग्रहणे । ग्रासाम्यत्वं न सतो राहुकृतं ग्रहणमर्केन्द्वोः ॥