बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 96, कुल 1105 में से
संदर्भ में पढ़ेंAdh. VI. Sl. 4-5] षष्ठोऽध्यायः 77 तथा च गर्गः । त्रयोदशे च नक्षत्रे यदि वापि चतुर्दशे । निवृत्तं कुरुते भौमस्तद्वक्त्रं व्यालमुच्यते ॥ भवन्ति प्रचुरा व्यालास्तेभ्यो लोकभयं वदेत् । नृपाणामशुभं विन्ध्यात्सस्यसम्पत्तिमादिशेत् ॥ तथा च पराशरः त्रयोदशचतुर्दशयोः सस्यदंष्ट्रिव्यालप्राबल्यं हिरण्यसंचयं च- रुधिराननमिति वक्त्रं पञ्चदशात् षोडशाच्च विनिवृत्ते । तत्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥४॥ Sloka 4.—When Mars emerges from his last conjunc- tion with the Sun and begins his retrograde motion at the 15th or the 16th asterism reckoned from the one occupied by him at the time of his eclipse, it is known as रुधिरानन- Rudhiranana. During this period, people will suffer from facial diseases and there will be general panic. There will however be prosperity. तथा च गर्गः यदि पञ्चदशर्क्षे तु भूसुतः षोडशेऽपि वा । निवृत्तिं कुरुते वक्त्रंस्तद्विदुर्लोहिताननम् ॥ दीप्तिमन्तः पार्थिवाश्च भवन्ति प्रथिता भुवि । क्षत्रकोपश्च सुमहान् मुखरोगा भवन्ति च ॥ तथा च पराशरः पञ्चदशषोडशयोर्मुखरोगो नृपक्षोभः शस्त्रकोपश्च ॥ असिमुसलं सप्तदशादष्टादशतोऽपि वा तदनुवक्रे । दस्युगणेभ्यः पीडां करोत्यवृष्टिं सशस्त्रभयाम् ॥५॥ Sloka 5.—When the retrograde motion begins at the 17th or the 18th star counted from the one occupied by Mars at his conjunction with the Sun, it is known as असिमुसल-Asimusala. When Mars begins his direct motion after this, there will be trouble from bands of robbers, drought and risk from weapons.