बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 97, कुल 1105 में से
संदर्भ में पढ़ें78 बृहत्संहितायाम् [Adh. VI. Sl. 6-7
तथा च गर्गः सप्तदशेऽष्टादशे वा लोहिताङ्गे निवर्तिते। निर्त्रिंशमुशलं नाम तद्वक्त्रं परिकीर्तितम्॥ पशुपुत्रधनं धान्यमाहरन्ते तु दस्यवः। प्राणिनां जीवनं हन्ति जायते शस्त्रसम्भ्रमः॥ तथा च पराशरः सप्तदशेऽष्टादशे वा दस्युगणैः प्रजानामुपद्रवमवृष्टिं शस्त्रभयं च॥ भाग्यार्यमोदितो यदि निवर्तते वैश्वदैवते भौमः। प्राजापत्येऽस्तमितस्त्रीनपि लोकानभिपीडयति ॥६॥ Sloka 6.—If Mars should emerge from the Sun in Purvaphalguni or Uttaraphalguni, begin his retrograde motion in Uttarashadha and disappear in Rohini, he will afflict the three worlds with miseries. तथा च पराशरः फल्गुन्यामुदयं कृत्वा वक्रं स्याद्वैश्वदैवते। प्राजापत्ये प्रवासश्च त्रैलोक्यं तत्र पीड्यते॥ श्रवणोदितस्य वक्रं पुष्ये मूर्द्धाभिषिक्तपीडाकृत्। यस्मिंस्तृक्षेऽभ्युदितस्तद्दिग्व्यूहान् जनान् हन्ति ॥७॥ Sloka 7.—If the emergence of Mars from the Sun's conjunction be in the asterism Sravana and he begins his retrograde motion in Pushya, kings will suffer. People belonging to the countries denoted by the asterism through which Mars reappears will meet with destruction. For the asterisms denoting countries vide ch. XIV, infra. तथा च पराशरः उदितः श्रवणे भौमः पुष्ये वक्रं चरेद्यदि। मूर्द्धाभिषिक्ता राजानो विनश्येयुः परस्परम्॥ यथा जनपदव्यूहे दिग्विभागः प्रदर्शितः। तस्य वै मोहितं कुर्याल्लोहिताङ्गरुथा सुखम्॥