चक्रदत्त (चक्रपाणिदत्त - पदार्थचन्द्रिका व हिन्दी व्याख्या सहित)
Chakradatta Hindi
महामहोपाध्याय चक्रपाणिदत्त द्वारा
स्रोत: Chakradatta Chikitsa Sangraha with Hindi Commentary (उद्गम)
पृष्ठ 605, कुल 674 में से
संदर्भ में पढ़ेंఆంధ్రతాత్పర్యసహితము — 585
❦ త్రిఫలారసాయనము ❦
శ్లో.
पञ्चाष्टौ सप्त दश वा पिप्पलीः क्षौद्रसर्पिषा ।
रसायनगुणान्वेषी समामेकां प्रयोजयेत् ।
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाग्रे भोजनस्य च ॥ ७ ॥
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ।
प्रयोज्या मधुसंमिश्रा रसायनगुणैषिणा ॥ ८ ॥
जेतुं कासं क्षयं श्वासं शोषं हिक्कां गलामयम् ।
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम् ॥ ९ ॥
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम् ।
जरणान्तेऽभयामेकां प्राग्भक्ते द्वे विभीतके ॥ १० ॥
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्याममलकानि च ।
प्रयोजयेत् समामेकां त्रिफलाया रसायनम् ।
जीवेद् वर्षशतं पूर्णमजरोऽव्याधिरेव च ॥ ११ ॥
తాత్పర్యము:
అయిదుఎన్నిది లేక ఏను పదిపిప్పళ్లను తేనెతోను నేతితోను రసాయనగుణమును కోరువాడు ఒక వత్సరము సేవింపవలయును. ప్రొద్దుటిపూట భోజనమునకు ముందు మూడేసి కాయలను మోదుగక్షారముతో భావనచేసి నేతితోవేయించి తేనెగలిపిసేవింపవలయును. దగ్గు క్షయ శ్వాసము వాపు ఎక్కిళ్లుగరోగము మూలరోగము గ్రహణీరోగము పాండురోగము విషమజ్వరము స్వరభేదము పీనస శోష గుల్మము వాతము కఫము నశించును. భోజనమైనపిమ్మట ఒకకరక్కాయను భోజనముకు వెనుక రెండు తాడికాయలను నాల్గు ఉసిరికకాయలను తేనె నేతులతో తీసికొనవలయును. దీని నొకసంవత్సరము సేవింపవలయును. ఇట్టివాఁడు ముసలితనము రోగము లేక నూరేండ్లు జీవించును.
❦ మందూకపర్ణ్యాదిరసాయనము ❦
శ్లో.
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम् ।
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥ १२ ॥
आयुःप्रदान्यामयनाशकानि बलाग्निवर्णस्वरवर्धनानि ।
मेध्यानि चैतानि रसायनानि मेध्याविशेषेण तु शङ्खपुष्पी ॥ १३ ॥
पीताश्वगन्धा पయसार्थमासं घृतेन तैलेन सुखाम्बुना वा ।
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथाम्बुवृष्टिः ॥ १४ ॥
धात्रीतिलान्भृङ्गरजोविमिश्रान् ये भक्षयेयुर्मनुजाः क्रमेण ।
ते कृष्णकेशा विमलेन्द्रियाश्च निर्व्याधयो वर्षशतं भवेयुः ॥ १५ ॥
74