चक्रदत्त (चक्रपाणिदत्त - पदार्थचन्द्रिका व हिन्दी व्याख्या सहित)
Chakradatta Hindi
महामहोपाध्याय चक्रपाणिदत्त द्वारा
स्रोत: Chakradatta Chikitsa Sangraha with Hindi Commentary (उद्गम)
पृष्ठ 627, कुल 674 में से
संदर्भ में पढ़ें६६. वृष्याधिकारमु
— वाजीकरणोपायमुलु —
श्लो. पिप्पलीलवणोपेतौ बस्ताण्डौ क्षीरसर्पिषा ।
साधितौ भक्षयेद्यस्तु स गच्छेत्प्रमदाशतम् ॥ १ ॥
बस्ताण्डसिद्धे पयसि साधितानसकृत्तिलान् ।
यः खादेत्स नरो गच्छेत्स्त्रीणां शतमपूर्ववत् ॥ २ ॥
चूर्णं विदार्याः सुकृतं स्वरसेनैव भावितम् ।
सर्पिःक्षीरयुतं लीढ्वा शतं गच्छेद्वराङ्गनाः ॥ ३ ॥
एवमामलकं चूर्णं स्वरसेनैव भावितम् ।
शर्करामाधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् ॥ ४ ॥
एतेनाशीतिवर्षोऽपि युवाइव परिहृष्यते ।
विदारीकन्दकल्कं तु घृतेन पयसा नरः ॥ ५ ॥
उदुम्बरसमं खादन्वृद्धोऽपि तरुणायते ।
स्वयंगुप्तागोक्षुरयोर्बीजचूर्णं सशर्करम् ॥ ६ ॥
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ।
उच्चटाचूर्णमप्येवं क्षीरेणोत्तममुच्यते ॥ ७ ॥
शतावर्युच्चटाचूर्णं पेयमेवं सुखार्थिना ।
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम् ॥ ८ ॥
पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत् ।
गोक्षुरकः क्षुरकः शतामूली वानरी नागबलातिबला च ॥ ९ ॥
चूर्णमिदं पयसा निशि पेयं यस्य गृहे प्रमदाशतमस्ति ।
आन्ध्रतात्पर्यमु
मेकअण्डमुलनु पालु नेयि वीटितो सिद्धमु चेसि पिप्पळ्ळु लवणमु कलिपि तिनिनचो नूर्वुरुयुवतुलतो भोगिम्पगलवाఁडगुनु. मेक अण्डमुलतो सिद्धमु चेसिन पाललो ननेकमार्लु तिललनु पक्वमुचेसि तिनिनचो क्रोत्तवानिवले प्रमदाशतमु ननुभविम्पఁगलुगुनु. विदारीकन्दनु चूर्णमुचेसि दानिरसमुतोने भावनचेसि पालतो कलिपि नाकिन स्त्रीशतमु नुपभोगिम्प गलुगुनु. इत्ले युसिरिक कायलनु चूर्णमुचेसि युसिरिकरसमुतो भावनचेसि कण्डचक्केर तेने नेयि कलिपि सेविञ्चि पालुत्राఁगवलयुनु. दीनिनि चेसिन एनुबदियेण्ड्लवृद्धुఁडैननु युवकुनिवले सम्भोगिम्पगलुगुनु. विदारीकन्दकल्कमुनु ने तितो पालतो ओकपलमन्ततिनिन वृद्धुఁडुमु युवकुनिवले नगुनु. दुरदगोण्डि पल्लेरुवीटि चूर्णमुलो कण्डचक्केरनु कलिपि धारोष्णमुलगु पालतो त्रागिन क्षयरोगमुलु नशिञ्चुनु. ईरी...