भारतकोश
चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

Charaka Samhita Part 1 with Hindi Translation

महर्षि चरक व अग्निवेश द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished639 पृष्ठ

पृष्ठ 350, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 350

३३२ चरकसंहिता [ अ० २७ सामान्येनोपदिष्टानां मांसानां स्वगुणैः पृथक् ॥ ६३ ॥ केषांचिद् गुणवैशेष्याद्विशेष उपदेक्ष्यते । दर्शन-श्रोत्र-मेधाग्नि-वयो-वर्ण-स्वरायुषाम् ॥ ६४ ॥ बर्ही हिततमो बल्यो वातघ्नो मांसशुक्रलः । गुरूष्ण-स्निग्ध-मधुराः स्वर-वर्ण-बल-प्रदाः ॥ ६५ ॥ बृंहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः । स्निग्धाश्चोष्णाश्च वृष्या श्च बृंहणाः स्वरबोधनाः ॥ ६६ ॥ बल्याः परं वातह्राः स्वेदनाश्चरणायुधाः । गुरूष्णमधुरो नातिधन्वानूपनिषेवणात् ॥ ६७ ॥ तित्तिरिः संजयेच्छीघ्रं त्रीन् दोषाननिलोल्बणान् । पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः ॥ ६८ ॥ मन्दवातेषु शस्यन्ते शैत्य-माधुर्य-लाघवात् । लावाः कषायमधुरा लघवोऽग्निविवर्धनाः ॥ ६६ ॥ सन्निपातप्रशमनाः कटुकाश्च विपाकतः । कषायमधुराः शीता रक्तपित्तनिबर्हणाः ॥ ७० ॥ विपाके मधुराश्चैव कपोता गृहवासिनः । तेभ्यो लघुतराः किंचित्कपोता वनवासिनः ॥ ७१ ॥ शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते । शुकमांसं कषायाम्लं विपाके रूक्षशीतलम् ॥ ७२ ॥ शोष-कास-क्षय-हितं संग्राहि लघु दीपनम् । कषायो विशदो रूक्षः शीतः पाके कटुर्लघुः ॥ ७३ ॥ शशः स्वादुः प्रशस्तश्च संनिपातेऽनिलावरे । चटका मधुराः स्निग्धा बलशुक्रविवर्धनाः ॥ ७४ ॥ सन्निपातप्रशमनाः शमना मारुतस्य च । मधुरार्मधुराः पाके त्रिदोषशमनाः शिवाः ॥ ७५ ॥ लघवो बद्धविण्मूत्राः शीताश्चैणाः प्रकीर्तिताः । गोधा विपाके मधुरा कषायकटुका रसे ॥ ७६ ॥ वात-पित्त-प्रशमनी बृंहणी बलवर्धनी । शल्लको मधुराम्लश्च विपाके कटुकः स्मृतः ॥ ७७ ॥ वात-पित्त-कफघ्नश्च कास-श्वास-हरस्तथा । गुरूष्णमधुरा बल्या बृंहणा पवनापहाः ॥ ७८ ॥