भारतकोश
चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

Charaka Samhita Part 1 with Hindi Translation

महर्षि चरक व अग्निवेश द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished639 पृष्ठ

पृष्ठ 368, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 368

३५० चरकसंहिता [ अ० २७ त्पादक, पुष्टिदायक, बलकारक, भय, शोक, श्रम को मिटाने वाला है। सात्त्विक विधिपूर्वक सेवन किया हुआ मद्य अमृत के समान होता है, यह मद्य अत्यन्त वीर्यप्रद, प्रतिभा, प्रसन्नता, पुष्टिबल को देता है। यह सातवां मद्यवर्ग समाप्त हुआ ॥ १७६-१६३ ॥ इति मद्यवर्गः। अथ जलवर्गः । जलमेकविधं सर्वं पतत्यैन्द्रं नभस्तलात् । तत्पतत्पतितं चैव देशकालावपेक्षते ॥ १६४ ॥ खात्पतत्सोमवाय्वर्कैः स्पृष्टं कालानुवर्तिभिः । शीतं शुचि शिवं मृष्टं विमलं लघु षड्गुणम् । प्रकृत्या दिव्यमुदकं, भ्रष्टं पात्रमपेक्षते । १६६ ॥ श्वेते कषायं भवति पाण्डुरे चैव तिक्तकम् । कपिले क्षारसंमृष्टमूषरे लवणान्वितम् । कटु पर्वतविस्तारे मधुरं कृष्णमृत्तिके ॥ १६७ ॥ एतत्षाड्गुण्यमाख्यातं महीस्थस्य जलस्य हि । तथाऽव्यक्तरसं विद्यादैन्द्रं कारं हिमं च यत् ॥ १६८ ॥ यदन्तरीक्षात्पततीन्द्रसृष्टं चोक्तैश्च पात्रैः परिगृह्यतेऽम्भः तदैन्द्रमित्येव वदन्ति धीरा नरेन्द्रपेयं सलिलं प्रधानम् ॥ १६६ ॥ श्रुतावृताबिह ख्याताः सर्व एवाम्भसो गुणाः । ईषत्कषायमधुरं सुसूक्ष्मं विशदं लघु ॥ २०० ॥ अरूक्षममभिष्यन्दि सर्वं पानीयमुत्तमम् । गुर्वभिष्यन्दि पानीयं वार्षिकं मधुरं नवम् ॥ २०१ ॥ तनु लघ्वनभिष्यन्दि प्रायः शरदि वर्षति । तत्त ये सुकुमाराः स्युः स्निग्धभूयिष्ठभोजनाः ॥ २०२ ॥ तेषां भोज्ये च भक्ष्ये च लेह्ये पेये च शस्यते । हेमन्ते सलिलं स्निग्धं वृष्यं बलहितं गुरु ॥ २०३ ॥ किंचित्ततो लघुतरं शिशिरे कफवातजित् । कषायमधुरं रूक्षं विद्याद्वासन्तिकं जलम् ॥ २०४ ॥ ग्रैष्मिकं त्वनभिष्यन्दि रूपमित्येष निश्चयः । विभ्रान्तेषु तु कालेषु यत्प्रयच्छन्ति तोयदाः ॥ २०५ ॥