भारतकोश
चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)

चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)

Charaka Samhita Part 2 with Hindi Translation

महर्षि चरक व दृढ़बल द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 215, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 215

पा० १ ] चिकित्सितस्थानम् २०१ चाहिये। गुठलीरहित हरड़ आवले का प्रयोग और परिमाण जानना चाहिये। श्रेष्ठ हिमालय पर्वत ही औषधियों के लिये उत्कृष्ट भूमि है। इसलिये अपनी ऋतु में उत्पन्न मौसमी फलो को हिमालय पर्वत से समय समय पर लेना चाहिये। ये फल रस और वीर्य से परिपुष्ट होने चाहियें। ये फल सूर्य, वायु, छाया, पानी से तृप्त व हरे-भरे होने चाहिये। जो फल कृमि आदि से न खाये हों सड़े न हों, जिन पर चोट न लगी हो, रंग रहित हों, उन फलों का प्रयोग और उत्तम कर्मों का अब उपदेश करूंगा ॥ ३५-३६ ॥ पञ्चानां पञ्चमूलानां भागानेकदशपलोन्मितान् । हरितकीसहस्रं च त्रिगुणामलकं नवम् ॥ ४० ॥ विदारिगन्धा बृहतीं पृश्निपर्णीं निदिग्धिकाम् । विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥ ४१ ॥ बिल्वाग्निमन्थस्योनाकं काश्मर्यमथ पाटलाम् । पुनर्नवां शूर्पपर्ण्यौ बलामैरण्डमेव च ॥ ४२ ॥ जीवकर्षभकौ मेदा जीवन्तीं सशतावरीम् । शरेक्षुदर्भकाशानां शालीनां मूलमेव च ॥ ४३ ॥ इत्येषा पञ्चमूलानां पञ्चानामुपकल्पयेत् । भागान्यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि ॥ ४४ ॥ दशभागावशेषं तु पूतं तं ग्राहयेद्रसम् । हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च ॥ ४५ ॥ तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः । विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥ ४६ ॥ मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च । मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥ ४७ ॥ मधुकस्य हरिद्राया वचायाः कनकस्य च । भागांश्चतुष्पलान् कृत्वा सूक्ष्मेलायास्त्वचस्तथा ॥ ४८ ॥ सितोपलासहरुं च चूर्णितं तुल्याऽधिकम् । तैलस्य द्वयाढकं तत्र दद्यात् त्रीणि च सर्पिषः ॥ ४९ ॥ साध्यमौदुम्बरे पात्रे तत्सर्वं मृदुनाऽग्निना । ज्ञात्वा लेहमदग्धं च शीतं क्षौद्रेण ससृजेत् ॥ ५० ॥ क्षौद्रप्रमाणं स्नेहार्धं तत्सर्वं घृतभाजने । तिष्ठेत्सम्मूछितं तस्य मात्रा काले प्रयोजयेत् ॥ ५१ ॥