भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 12, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 12

१२ दशकुमारचरितम् । [ पूर्वपीठिकायां नारायण सकललोकैककारणं निरन्तरमर्चयामास । (१७) अथ कदाचित्तदग्रमहिषी 'देवि देवेन कल्पवल्लीफलमाप्नुहि' इति प्रभातसमये सुस्वप्नमवलोकितवती । (१८) सा तदा दयितमनोरथपुष्पभूतं गर्भमधत्त । (१९) राजापि सम्पन्न्यक्कृताखण्डलः सुहृन्नृपमण्डलं समाहूय निजसम्पन्मनोरथानुरूपं देव्याः सीमन्तोत्सवं व्यधत्त । (२०) एकदा हितैः सुहृन्मन्त्रिपुरोहितैः सभायां सिंहासनासीनो गुणैरहीनो ललाटतटन्यस्ताञ्जलिना द्वारपालेन व्यज्ञापि-‘देव ! देवसन्दर्श- नलालसमानसः कोऽपि देवेन विरच्यार्चनाहों यतिर्द्वारदेशमध्यास्ते' इति । पुत्रकतया । एककारणमादिहेतुम् । गौरिला कुम्भिनी क्षमेत्यमरः । (१७) तस्य राजहंसस्य । अग्रमहिषी प्रधानराज्ञी । देवेन राज्ञा सह । कल्प- वल्लीफलं कल्पलताफलम् । (१८) दयितस्य वल्लभस्य यो मनोरथः पुत्रप्राप्तिरूपोऽभिलाषस्तदेव फलं तस्य पुष्पभूतं कुसुममिव भूतम् । (१९) सम्पदा समृद्ध्या न्यक्कृतस्तिरस्कृत आखण्डल इन्द्रो येन सः । समृ- द्धया महेन्द्रादप्यधिकः। सुहृदां मित्रभूतानां नृपाणां मण्डलं समूहम्। स्वस्य सम्पदः समृद्धेः मनोरथस्याभिलाषस्य चानुरूपं सदृशम् । सीमन्तोत्सवं संस्कारविशेषम् । (२०) हितैः हितकाङ्क्षिभिः । गुणैः राजगुणैरहीनोऽन्यूनः सर्वगुणसम्पन्न इत्यर्थः । ललाटतटे भालदेशे न्यस्तो धृतोऽञ्जलिर्येन तेन । व्यज्ञापि निवेदितः । देवस्य भवतः सन्दर्शनेऽवलोकने लालसमभिलाषि मानसं यस्य सः । देवेन भवता। विरच्यां कर्त्तव्यां अर्चनां पूजामर्हतीति । भवतोऽपि पूज्य इत्यर्थः । यतिः संन्यासी । कारण सम्पूर्ण लोकोंके आदिकारण नारायण भगवान्‌की निरन्तर पूजा में संलग्न हो गये । (१७) एक दिन प्रातःकाल उनकी महारानीने स्वप्नमें देखा कि उनसे किसीने आकर कहा—'हे देवि ( राजा ) द्वारा प्रदत्त कल्पवृक्षका यह फल आप ग्रहण करें।' (१८) उसके बाद उस महिषीने पतिके मनोरथ-पुष्पभूत गर्भको धारण किया । (१९) अपने ऐश्वर्य-विभवसे इन्द्रको भी पराभव दिखानेवाले उन राजा हंसवाहनने सुहृद्र राजाओंके मण्डलोंको बुलाकर अपने मनोरथ तथा विभवके अनुसार महारानीका सीमन्तोन्नयन संस्कार किया । (२०) एक दिन सर्वगुणसम्पन्न मगधपति अपने हितैषी मित्रों एवं मन्त्रियों तथा पुरो- धाओंके साथ राजसभामें सिंहासनासीन थे। उसी समय द्वारपालने राजसभामें आकर प्रणाम