दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 121, कुल 474 में से
संदर्भ में पढ़ेंप्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १२३ मदभ्राभ्रनिर्घोषगम्भीरेण स्वरेणाभ्यधात्—'कः स महापुरुषो येनैतन्मा- नुषमात्रदुष्करं महत्कर्मानुष्ठितम् । आगच्छतु मया सहेमं मत्तहस्तिन- मारोहतु । अभयं मदुपकण्ठवर्तिनो देवदानवैरपि विगृह्णानस्य' इति । (२१) निशम्यैवं स पुमानुपोढहर्षो निर्गत्य कृताञ्जलिराक्रम्य संज्ञा- संकुचितं कुञ्जरगात्रमसक्तमभ्यरुक्षन् । आरोहन्तमेवैनं निर्वर्ण्य हर्षोत्फु- ल्लदृष्टिः 'अये, प्रियसखोऽयमपहारवर्मैव' इति पश्चान्निषीदतोऽस्य बाहु- दण्डयुगलमुभयभुजमूलप्रवेशितमग्रेऽवलम्ब्य स्वमङ्गममालिङ्गयामास । स्वयं च पृष्ठतो वलिताभ्यां भुजाभ्यां पर्यवेष्टयत् । तद्वद् गम्भीरेण । अभ्यधात् अकथयत् । मानुषमात्रेण साधारणमानवेन दुष्करं कर्तुमशक्यम् । महत्कर्म चण्डवर्ममारणरूपम् । अनुष्ठितं कृतम् । मदुपकण्ठवर्त्तिनः मत्समीपस्थितस्य । विगृह्णानस्य विरोधं कुर्वतः । (२१) निशम्य श्रुत्वा । उपोढः प्राप्तो हर्षो येन सः । आक्रम्य पादविक्षेपे- णागत्य । संज्ञया सङ्केतेन सङ्कुचितं खर्वीकृतम् । कुञ्जरगात्रं हस्तिशरीरम् । अस- क्तमलग्नं यथा तथा । हस्तिनमस्पृष्ट्वेत्यर्थः । निर्वर्ण्य दृष्ट्वा । हर्षोत्फुल्लदृष्टिः प्रीतिवि- कसितनयनः । अये विस्मयसूचकमव्ययमेतत् । प्रियसखः प्रियमित्रम् । निषीदतः उपविष्टस्य । अस्य अपहारवर्मणः । उभयभुजमूले स्वस्योभयकक्षे । प्रवेशितं विन्य- स्तम् । अग्रे अग्रभागे । अवलम्ब्य गृहीत्वा । स्वं स्वकीयं राजवाहनस्येत्यर्थः । अङ्गं शरीरम् । आलिङ्गयामास तेनापहारवर्मणेति शेषः । पृष्ठतः पृष्ठभागे । वलिताभ्यां वक्रीकृताभ्याम् । पर्यवेष्टयत् समालिङ्ग अपहारवर्माणमिति शेषः । अभिमुखं स्थितयोरेव द्वयोरालिङ्गनं स्वाभाविकं भवति अत्र तु गजपृष्ठमधिरूढयोस्तयोस्तद्- सम्भ्रमतः प्रातिलोम्येन कथंचिदङ्गसम्मेलनं जातमिति निष्कर्षः । साथ इस मतवाले हाथीपर सवार होवे । देवगणों और राक्षसोंसे भी शत्रुता करनेवाला वह महापुरुष मेरे पास आवे—मैं उसे अभयदान दे रहा हूँ ।' (२१) उपर्युक्त वाणी श्रवण कर उस महापुरुषको परमानन्द प्राप्त हुआ और वह हाथ जोड़कर राजवाहनके सामने आकर उपस्थित हो गया । पुनः राजवाहनके संकेतसे वह हाथीपर जा बैठा । परन्तु, हाथीपर उसने ऐसी रीतिसे बैठना चाहा जिसमें राजवाहनकी देहसे उसकी देहका सस्पर्श न हो । परन्तु, हाथीपर चढ़नेके पश्चात् राजवाहनने भली-भांति निरीक्षण करके उस व्यक्तिको आकृतिसे पहचान लिया और झट अपने बाहुपाशमें उसे आलिंगन करते हुए कहा—'अरे, तुम तो मेरे परम मित्र अपहारवर्मा हो !' ऐसा कहकर ६ द० कृ० उ०