दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 146, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF १४८ दशकुमारचरितम् । [ उत्तरपीठिकायां
क्तश्च रागः संध्यात्वेनास्फुरत् । तत्कथादत्तवैराग्याणीव कमलवनानि सम- कुचन् । अनुमतमुनिशासनस्त्वहममुनैव सहोपास्य संव्यामनुरूपाभिः कथाभिस्तमनुशय्य नीतरात्रिः प्रत्युन्मिषत्युदयप्रस्थदावकल्पे कल्पद्रुम- किसलयावधीरिण्यरुणार्चिषि तं नमस्कृत्य नगरायोदचलम् । ( २१ ) अदर्श च मार्गाभ्याशवर्तिनः कस्यापि क्षपणकविहारस्य बहिर्विविक्ते रक्ताशोकखण्डे निषण्णमस्पृष्टसमाधिमाधिक्षीणमग्रगण्यमन- तस्य स्पर्शभिया संपर्कभयेनेवेत्युत्प्रेक्षा । रवितमसोर्वैरं प्रसिद्धमेव । ऋषिणा मरीचिना मुक्तस्त्यक्तो रागो गणिकाविषयकः सन्ध्यात्वेन सन्ध्यारुपेणास्फुरत प्रकटीबभूव । तत्कथेति—तस्य मरीचेः कथया वार्त्तया दत्तं वैराग्यं येभ्यस्तानि । समकुचन्—संकुचितानि बभूवुः । कमलवनानां संकोचे तत्कथादत्तवैराग्यमेव कारणत्वेनोत्प्रेक्षितम् । अनुमतमङ्गीकृतं मुनेर्मरीचेः शासनमादेशो येन स तथा । अमुना-मुनिना । अनुरूपाभिः तत्कालोयोग्याभिः । तमनुशय्य तेन मुनिना सह शयित्वा । नीतरात्रिः-यापितनिशः । प्रत्युन्मिषति-प्रकाशमाने । उदयति सतीत्यर्थः। उदयेति-उदयः उदयपर्वतस्तस्य प्रस्थः-सानु तस्मिन् । दावकल्पे वनाग्निसदृशे । कल्पद्रुमेति-कल्पद्रुमस्य कल्पवृक्षस्य किसलयानि पल्लवानि अवधीरयति तिरस्क- रोतीति तस्मिन् । कल्पद्रुमपल्लवापेक्षयाधिकरक्तवर्णे इत्यर्थः । अरुणाचिषि— अरुणा रक्तवर्णा अर्चिषो यस्य तस्मिन्-सूर्ये इत्यर्थः । तं-मुनिं नगराय नगरं गन्तुम् । उदचलं प्रस्थितोऽभवम् । (२१) मार्गाभ्यासवर्तिनः-पथिपार्श्वस्थितस्य । क्षपणकविहारस्य-बौद्धमन्दि- रस्य । विविक्ते-निर्जने पवित्रे वा । रक्ताशोकखण्डे-रक्तवर्णाशोकतककदम्बे । निषण्णमुपविष्टम् । अस्पृष्टेति-अस्पृष्टोऽलब्धः समाधियोगो येन तं ध्यानशून्य- सूर्य भगवान अस्त हो गये । उन्हीं महर्षिसे परित्यक्त अनुराग संध्याके रूपमें परिणत हो गया । उनकी बातोंसे जैसे वैराग्य प्राप्त करके कमलवन संकुचित हो गया । तदनन्तर उन्हीं मुनिराजकी अनुमतिसे मैंने उनके साथ संध्या की । रातको उनके साथ ही सोया और तरह-तरहकी बातें करते हुए वह रात बितायी। सबेरे जब दावानलके सदृश तथा कल्पवृक्षकी कोंपलों को नीचा दिखाने वाली अरुण किरणें उदयाचलपर उदित हुईं, तब मैंने उनको प्रणाम किया और नगरकी ओर चल पड़ा । ( २१ ) एक स्थानपर मैंने मार्गके किनारे ही विद्यमान बौद्ध विहारके बाहर रक्त अशोक वनमें बैठे नियमहीन, मानसी पीड़ासे दुर्बल, कुरूप पुरुषोंके अग्रणी एवं अतिदीन
Nepal Sanskrit University, Balmeeki Campus, Kathmandu