भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 153, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 153

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १५५


दयमन्तरान्तराश्लीलप्रायान्कलकलानित्येतानि चान्यानि चानुभवन्न तृप्तिमध्यगच्छम् । ( २७ ) अहसं च किंचित्प्रमाददत्तशारे क्वचित्कितवे । प्रतिकितवस्तु निदहन्निव क्रोधताम्रया दृशा मामभिवीक्ष्य ‘शिक्षयसि रे द्यूतवर्त्म हास- व्याजेन । आस्तामयमशिक्षितो वराकः । त्वयैव तावद्विचक्षणेन देवि- ष्यामि’ इति द्यूताध्यक्षानुमत्या व्यत्यषजत् । मया जितश्चासौ षोडश-


वर्णनानि निरूपणानि । द्रव्येति—द्रव्यस्य द्यूतलब्धधनस्य संविभागे वण्टने- औदार्यं महत्त्वं स्वकीयांशत्यागादिवेति भावः । अन्तरान्तरा मध्ये मध्ये । कल- कलान् कोलाहलान् । इत्येतानि-यावन्ति उक्तानि-अन्यानि-यान्यनुक्तानि । अनुभवन्-दृष्ट्वा श्रुत्वा च । तृप्तिं सन्तोषम् । नाध्यगच्छम् न प्राप्तवान् । द्यूत- क्रीडां विना केवलदर्शनेन तृप्तिर्नोत्पद्यत इति भावः । ( २७ ) किञ्चित्-ईषत् । प्रमाददत्तशारे-प्रमादेन अनवधानतया दत्तः स्थापितः शारः शारिका गुटिकेति यावद्, येन तथाविधे । क्वचित्-कस्मिंश्चित् । कितवे- धूर्ते द्यूतकरे । प्रतिकितवः-प्रतिकूलद्यूतकरः । निदहन्निव भस्मीकुर्वन्निव । क्रोध- ताम्रया-रोषारुणया । दृशा-नेत्रेण द्यूतवर्त्म-द्यूतमार्गम् । हासव्याजेन-हास्य- च्छलेन । आस्तां तिष्ठतु । अशिक्षितः अपटुः । वराकः शोच्यः । विचक्षणेन पण्डितेन । देविष्यामि-क्रीडिष्यामि इति-एवमभिधाय । द्यूताध्यक्षानुमत्या सभिक- सम्मतिपूर्वकम् । व्यत्यषजत्-द्यूतक्रीडायां संलग्नोऽभवत् । वि-अतिपूर्वकस्य षञ्ज- सङ्ग इत्यस्य धातोलँङि रूपम् । असौ प्रतिकितवः । दीनाराणां स्वर्णमुद्राणाम् ।


दाँवके विभिन्न भेद बताना, जुएमें प्राप्त द्रव्यका बँटवारा करना, बीच-बीचमें गाली-गलौजका शोरगुल आदि तरह-तरहकी बातोंका सतत अनुभव करते हुए मैं तृप्त नहीं होने आया । ( २७ ) एक बार एक धूर्तके प्रभाववश गोटी दे देनेपर मुझे हँसी आ गयी तब उसका प्रतिपक्षी धूर्त क्रोधसे अपनी आँखें लाल करके मेरी ओर इस तरह ताकने लगा जैसे मुझे जलाकर भस्म ही कर देगा, कहने लगा 'अरे छोकरे! हँसीके बहाने मुझे जुआ खेलना सिखाता है अच्छा, यह अशिक्षित खिलाड़ी अलग बैठे । तू जो अपनेको कुशल खिलाड़ी मानता है तो, आ, मैं तेरे ही साथ खेलूँगा ।' इसपर द्यूताध्यक्षकी भी अनुमति मिल गयी और वह मेरे साथ खेलने लगा । मैंने बातकी बातमें इसकी सोलह हजार

११ द० कृ० उ०


Nepal Sanskrit University, Balmeeki Campus, Kathmandu