भारतकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १५५


दयमन्तरान्तराश्लीलप्रायान्कलकलानित्येतानि चान्यानि चानुभवन्न तृप्तिमध्यगच्छम् । ( २७ ) अहसं च किंचित्प्रमाददत्तशारे क्वचित्कितवे । प्रतिकितवस्तु निदहन्निव क्रोधताम्रया दृशा मामभिवीक्ष्य ‘शिक्षयसि रे द्यूतवर्त्म हास- व्याजेन । आस्तामयमशिक्षितो वराकः । त्वयैव तावद्विचक्षणेन देवि- ष्यामि’ इति द्यूताध्यक्षानुमत्या व्यत्यषजत् । मया जितश्चासौ षोडश-


वर्णनानि निरूपणानि । द्रव्येति—द्रव्यस्य द्यूतलब्धधनस्य संविभागे वण्टने- औदार्यं महत्त्वं स्वकीयांशत्यागादिवेति भावः । अन्तरान्तरा मध्ये मध्ये । कल- कलान् कोलाहलान् । इत्येतानि-यावन्ति उक्तानि-अन्यानि-यान्यनुक्तानि । अनुभवन्-दृष्ट्वा श्रुत्वा च । तृप्तिं सन्तोषम् । नाध्यगच्छम् न प्राप्तवान् । द्यूत- क्रीडां विना केवलदर्शनेन तृप्तिर्नोत्पद्यत इति भावः । ( २७ ) किञ्चित्-ईषत् । प्रमाददत्तशारे-प्रमादेन अनवधानतया दत्तः स्थापितः शारः शारिका गुटिकेति यावद्, येन तथाविधे । क्वचित्-कस्मिंश्चित् । कितवे- धूर्ते द्यूतकरे । प्रतिकितवः-प्रतिकूलद्यूतकरः । निदहन्निव भस्मीकुर्वन्निव । क्रोध- ताम्रया-रोषारुणया । दृशा-नेत्रेण द्यूतवर्त्म-द्यूतमार्गम् । हासव्याजेन-हास्य- च्छलेन । आस्तां तिष्ठतु । अशिक्षितः अपटुः । वराकः शोच्यः । विचक्षणेन पण्डितेन । देविष्यामि-क्रीडिष्यामि इति-एवमभिधाय । द्यूताध्यक्षानुमत्या सभिक- सम्मतिपूर्वकम् । व्यत्यषजत्-द्यूतक्रीडायां संलग्नोऽभवत् । वि-अतिपूर्वकस्य षञ्ज- सङ्ग इत्यस्य धातोलँङि रूपम् । असौ प्रतिकितवः । दीनाराणां स्वर्णमुद्राणाम् ।


दाँवके विभिन्न भेद बताना, जुएमें प्राप्त द्रव्यका बँटवारा करना, बीच-बीचमें गाली-गलौजका शोरगुल आदि तरह-तरहकी बातोंका सतत अनुभव करते हुए मैं तृप्त नहीं होने आया । ( २७ ) एक बार एक धूर्तके प्रभाववश गोटी दे देनेपर मुझे हँसी आ गयी तब उसका प्रतिपक्षी धूर्त क्रोधसे अपनी आँखें लाल करके मेरी ओर इस तरह ताकने लगा जैसे मुझे जलाकर भस्म ही कर देगा, कहने लगा 'अरे छोकरे! हँसीके बहाने मुझे जुआ खेलना सिखाता है अच्छा, यह अशिक्षित खिलाड़ी अलग बैठे । तू जो अपनेको कुशल खिलाड़ी मानता है तो, आ, मैं तेरे ही साथ खेलूँगा ।' इसपर द्यूताध्यक्षकी भी अनुमति मिल गयी और वह मेरे साथ खेलने लगा । मैंने बातकी बातमें इसकी सोलह हजार

११ द० कृ० उ०


Nepal Sanskrit University, Balmeeki Campus, Kathmandu

१५६ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF १५६ दशकुमारचरितम् । [ उत्तरपीठिकायां सहस्राणि दीनाराणाम् । तदधं सभिकाय सभ्येभ्यश्च दत्त्वार्धं स्वीकृत्यो- दतिष्ठम् । (२८) उदतिष्ठंश्च तत्र गताना हर्षगर्भाः प्रशंसालापाः । प्रार्थ्य- मानसभिकानुरोधाच्च तदगारेऽत्युदारमभ्यवहारविधिमकरवम् । यन्मू- लश्च मे दुरोदरावतारः स मे विमर्दको नाम विश्वास्यतरं द्वितीयं हृदय- मासीत् । तन्मुखेन च सारतः कर्मतः शीलतश्च सकलमेव नगरमवधार्य धूर्जटिकण्ठकल्माषकालतमे तमसि नीलनिवसनार्धोरुकपरिहितो बद्ध- जित इत्यत्र जिधातोरप्रधाने कर्मणि असावित्यत्र निष्ठाप्रत्ययः । तदधैविजितधनस्या- र्धम् । स्वीकृत्य स्वयं गृहीत्वा । उदतिष्ठम् उत्थितोऽभवम् । (२८) तत्र गतानां-द्यूतसमाजस्थितानाम् । हर्षगर्भाः आनन्दमिश्राः । प्रशंसा- लापाः प्रशंसासूचकवाक्यानि । प्रार्थ्यमानेति-प्रार्थ्यमानस्य मम गृहे त्वया भोक्त- व्यमिति प्रार्थनां कुर्वतः सभिकस्य द्यूताध्यक्षस्यानुरोधात् प्रार्थनानुसारेण । तदगारे- ऽभिकगृहे । अत्युदारमत्युत्कृष्टम् । अभ्यवहारविधिं भोजनव्यापारम् । यन्मूलः यन्निमित्तकः । दुरोदरावतारः-द्यूतक्रीडाप्रवेशः । विश्वास्यतरमत्यन्तविश्वास- भाजनम् । द्वितीयं हृदयं परममित्रम् । तन्मुखेन विमर्दकसहाय्येन । सारतो बलात् । कर्मतोऽनुष्ठानात् । शीलतः स्वभावाच्च । अवधार्यके कीदृक् सारवन्तः कर्मवन्तः स्वभाववन्तश्चेति निश्चित्य । धूर्जटोति-धूर्जटेर्महादेवस्य कण्ठे गले यत्कल्माषं कालिमा तद्वत् कालतमेऽतिकृष्णवर्णे । अतिघोरे इति भावः । तमस्य- न्धकारे । नीलेति-नीलं कृष्णवर्णं यन्निवसनं वस्त्रं तस्य यदधोरुकमधोरु व्यापि अवगुण्ठनं तत्परिहितमाच्छादितं येन सः । नीलवस्त्राच्छादितशरीरः । निष्क्रान्तस्य अशर्फियाँ जीत लीं । उनमेंसे आधी द्यूताध्यक्षको और आधी की आधी सभ्योंको दे कर के आधी अशर्फियां अंटी में कीं और उठ खड़ा हुआ । (२८) मेरे उठने के साथ ही वहां पर विद्यमान सब लोगों के सहर्ष प्रशंसा- भरे वचनों से कोलाहल-सा मच गया । द्यूताध्यक्ष के पुनः पुनः प्रार्थना करने पर मैंने उसी के घर जा करके अतिशय उदारतापूर्वक भोजन किया । जिसकी बदौ- लत मैं इस द्यूतकर्म में प्रवृत्त हुआ था, वह 'विमर्दक' नामक मेरा अति विश्वास- नीय दूसरे हृदय के समान अभिन्न मित्र था । उसीकी जबानी मैंने अपने बल, कर्म और शीलसे सारे शहरको अपनी अच्छाईका विश्वास दिला दिया । तदनन्तर जब श्रीशिवजीके कण्ठकी तरह काला अन्धकार छा गया, तब नीले रंगका अर्धोरुक (लबादा) Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १५७ तीक्ष्णकौक्षेयकः फणिमुखकाकलीसंदंशकपुरुषशीर्षकयोगचूर्णयोगवर्तिका- मानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्डकप्रभृत्यनेकोपकरणयुक्तो गत्वा कस्यचिल्लुब्धेश्वरस्य गृहे संधि छित्त्वा पटभाससूक्ष्मच्छिद्रालक्षि- तान्तर्गृहप्रवृत्तिरव्यथो निजगृहमिवानुप्रविश्य नीवीं सारमहतीमादाय निरगाम् । ( २६ ) नीलनारदनिकरपीवरतमोनिबिडितायां राजवीथ्यां झटिति परनिपातः । कौक्षेयकः खड्गः । फणिमुखेति-अग्रे वक्ष्यमाणानि सर्वाण्येव चौर्य- साधनान्युपकरणानि । फणिमुखं फणिनो मुखमिव मुखं यस्य तत् । सुरुङ्गाखनन- साधनमस्त्रविशेषः । काकली काकचञ्च्वाकारयन्त्रविशेषः कर्तरीति प्रसिद्धः । सन्दंशकः दृढनिखातकीलोत्पाटनार्थं यन्त्रविशेषः साडांशीति भाषा । पुरुष- शीर्षकं पुरुषमस्तकाकारकाष्ठमयशिरः परीक्षार्थं सुरुङ्गायां प्रथमप्रवेशनार्थम् । योगचूर्णं निष्पं जनौषधिमूलादिचूर्णं गृहस्थानां गभीरनिद्रावेशसाधनम् । योगव- र्तिका-अग्निं विना आलोकसाधनम् । मानसूत्र प्रमाणरज्जुः, कर्कटकः कुलीरा- कृतियन्त्रविशेषः । रज्जुः सौधाग्रारोहणार्थम् । दीपभाजनमालोकाधारः, भ्रमर- करण्डकं दीपनिर्वापणार्थं शलभभाण्डम्-इत्यादिभिरनेकै रुपकरणैर्युक्तः, अहमिति शेषः । लुब्धेश्वरस्य लुब्धधनिकस्य धूर्तप्रधानस्य वा । सन्धिं इष्टकासंयोगम् । पटभासेति-पटभासो गवाक्षजालं तस्य सूक्ष्मेण छिद्रेण विवरेण आलचिता दृष्टा अन्तर्गृहे गृहमध्ये स्थितानां प्रवृत्तिर्वृत्तान्तो येनासौ । अव्यथः अश्रान्तः । नीवीं मूलधनम् । सारमहतीं सारेण श्रेष्ठरत्नादिना महतीं महामूल्यवतीम् । निरगाम् निरगच्छम् । (२९) नीलेति-नीलाः कृष्णा ये नीरदा मेघास्तेषां निकरः समूहस्तद्भव पहना । कमरमें अतितीक्ष्ण तलवार बांधी । सेंध लगानेवाली, शबरी-कैंची, संड़सी, काष्ठ- निर्मित पुरुषका मस्तक, योगवर्तिका, (जिसके जलानेपर सर्पं दीख जाते हैं) नापनेका फीता यन्त्रसाधन, रस्सी, दीपपात्र, भ्रमरकरण्डक (दीपक बुझानेवाले भौरोंसे भरी पेटी) आदि अनेक प्रकारकी सामग्रियां ले करके गया और एक लोभी धनीके घरमें सेंध लगायी वहाँ पहले मैंने झरोकेके सूक्ष्म छिद्रसे घरकी सारी स्थिति भलीभांति देख ली और तब बिना हिचकके अपने घरके समान घुस गया तथा एक बहुमूल्य करधनी चुरा करके निकल आया । ( २९ ) बाहर काले बादलों के कारण अतिशय घने अन्धकारयुक्त राजमार्गमें एकाएक Nepal Sanskrit University, Balmeeki Campus, Kathmandu

१५८ दशकुमारचरितम् । [ उत्तरपीठिकायां

१५८ दशकुमारचरितम् । [ उत्तरपीठिकायां शतह्रदासंतपातमिव क्षणमालोकमलक्षयम् । अथासौ नगरदेवतेव नगर- मोषरोषिता निःसंबाधवेलायां निःसृता संनिकृष्टा काचिदुन्मिषदूभूषणा युवतिराविरासीत् । 'कासि बासु, क यासि' इति सदयमुक्ता त्रासगद्गद- मगादीत्—'आर्य, पुर्यस्यामर्यवर्यः कुबेरदत्तनामा वसति । अस्यहं तस्य कन्या। मां जातमात्रां धनमित्रनाम्नेऽत्रत्यायैव कस्मैचिदिभ्यकुमारायान्व- जानाद्भार्यां मे पिता । स पुनरस्मिन्नत्युदारतया पित्रोरन्ते वित्तैर्निजैः क्रीत्वेवार्थिवर्गाद्दारिद्र्यं दरिद्रति सत्यथोदारक इति च प्रीतलोकाधिरोपिता- पीवरं सान्द्रं यत्तमोऽन्धकारस्तेन निबिडितायाम् व्याप्तायाम् । राजवीथ्यां राज- मार्गे । शतह्रदासम्पातं विद्युत्स्फुरणम् । क्षणं मुहूर्तं यावत् । आलोकं ज्योतिः । असौ-अग्रतो निर्दिष्टा । नगरदेवतेव-नगराधिष्ठात्री देवीव । कीदृशी सेति विशि- नष्टि नगरमोषेति-नगरस्य पुरस्य मोषेण अपहरणेन रोषिता कोपिता । नगरस्य यत्सारधनं मयापहृतं तेन नगराधिष्ठात्र्याः कोपः सञ्जात इति भावः । निःसञ्बा- धवेलायां जनसंकटरहितसमये । संकटं नातु संबाध इति कोषः । निःसृता गृहान्निर्गता । सन्निकृष्टा-समीपस्थिता । उन्मिषद्भूषणा दीप्यमानालङ्कारा । उन्मिषन्ति भूषणानि यस्याः सेति विग्रहः । आविरासीत्-प्रकटीबभूव । उक्ता पृष्टा मयेति शेषः । त्रासगद्गदं भीतिभिन्नस्वरम् । पुरि नगरे । अर्यवर्यः वैश्यश्रेष्ठः। अर्यः स्वामिवैश्ययोरिति निपातः । जातमात्रां जन्मसमये एव । अत्रत्याय- एतद्देशोत्पन्नाय । इभ्यकुमाराय-धनिकपुत्राय भार्याम् अन्वजानात्-पत्नीत्वेन दातुं प्रतिज्ञातवान् । सः मम पिता । अस्मिन् धनमित्रे । अत्युदारतया-दानशौण्डतया पित्रोर्मातापित्रोः । अन्ते अवसाने मरणानन्तरमित्यर्थः । निजैः स्वकीयैः । वित्तैर्धनैः । अर्थिवर्गाद् याचकसमूहात् । द्रारिद्र्यं दरिद्रताम् । क्रीत्वेव गृहीत्वेव । बिजलीकी चमक जैसी चमकती ज्योतिको मैंने देखा । इसके बाद वह, नगरमें चोरी होनेसे रुष्ट नगरदेवीकी नाईं, इस सुनसानके समय घरसे निकल करके, जब मेरे समीप आयी, तब मैंने देखा कि, वह एक युवती स्त्री है और उसके शरीरपर विविध आभूषण आभूषित हो रहे हैं। मैंने सदय बनकरके उससे पूछा-'देवि ! तुम कौन हो ? कहाँ जा रही हो ?' अब जैसे मारे भयके गद्गदवाणीमें उसने कहा-'आर्ये ! इस पुरीमें वैश्यवर्य कुबेरदत्त रहते हैं। मैं उनकी पुत्री हूँ। मैं जन्मी, तैसे ही मेरे पिताने यहींके निवासी एक धनी वैश्यपुत्रके साथ मेरा विवाह करनेका संकल्प कर लिया था। माता-पिताके गुजर जानेपर उस वैश्यकुमारने अपना सब धन याचकोंको दे करके उनकी दरिद्रता मोल ले

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १५६ परश्लाघ्यनामनि वरयत्येव तस्मिन्मां तरुणीभूतामधन इत्यदत्त्वार्थ- पतिनाम्ने कस्मैचिदितरस्मै यथार्थनाम्ने सार्थवाहाय दित्सति मे पिता । तदमङ्गलमद्य किल प्रभाते भावीति ज्ञात्वा प्रागेव प्रियतमदत्तसंकेता वञ्चितस्वजना निर्गत्य बाल्याभ्यस्तेन वर्त्मना मन्मथाभिसरा तदगारम- भिसरामि तन्मां मुञ्च । गृहाणैतद्भाण्डम्' इत्युन्मुच्य मह्यमर्पितवती । ( ३० ) दयमानश्चाहमब्रवम्—'एहि साध्वि, त्वां नयेयं त्वत्प्रियाव- सथम्' इति त्रिचतुराणि पदान्युदचलम् । आपतच्च दीपिकालोकपरिलुप्य- दरिद्रति सति दारिद्र्यमनुभवति सति । अतिदातृत्वेनार्थिभ्यः स्वधनं वितीर्य स्वयमेव दरिद्रोऽभवदिति भावः । प्रीतेति-प्रीतेन सन्तुष्टेन लोकेन जनेनाधिरो- पितं दत्तम् उदारक इत्यपरमन्यत् श्लाघ्यं प्रशंसनीयं-नाम अभिधानं यस्य तस्मि- न् । वरयति प्रार्थयति । तस्मिन् धनमित्रे । अधनो निःस्व इति कारणात् । इत- रस्मै अन्यस्मै । यथार्थनाम्ने वस्तुतो धनिकायेति भावः । सार्थवाहाय वणिजे । दित्सति दातुमभिलषति । तदमङ्गलम्-अर्थपतये महानरूपमशुभं कर्म । भावि- भविष्यति । प्रागेव-दानात्पूर्वमेव । प्रियतमेन धनमित्रेण दत्तः कृतः संकेतो यस्यै सा । वञ्चितः प्रतारितः स्वजन आत्मीयवर्गो यया सा । निर्गत्य स्वगृहादिति शेषः । बाल्याभ्यस्तेन-परिचितेन । मन्मथाभिसरा-मदनसहाया । तदगारं धनमित्रगृहम् । अभिसरामि गच्छामि । भाण्डमलङ्कारजातम् । उन्मुच्य स्वदेहादुत्तार्य । ( ३० ) दयमानः कृपायुक्तः । नयेयं प्रापयेयम् । स्वत्प्रियावसथं त्वद्द‌यितगृहम् । त्रिचतुराणि-त्रीणि चत्वारि वा । उदचलं चलितवान् । आपतत्-एतदन्तरे समा- ली और गरीबीके दिन बिता रहा है। इन्हीं लोगोंने उसको 'उदारक' यह उपाधि दे दी है। वह श्लाघनीय नामवाला वैश्य मुझ तरुणी के साथ विवाह करना चाहता है। 'किन्तु मेरे पिता धनहीन समझ करके उसके साथ मेरा विवाह न करके अर्थपति नामक किसी धनी और विदेशी वैश्यके साथ मेरा विवाह करना चाहते । यह अमंगल सबेरे ही होनेवाला है, यह पता पा करके मैं अपने प्रियतमके पूर्व संकेतानुसार, अपने कुटुम्बवालोंसे आंख बचाकरके, अभी ही निकल पड़ी और बाल्यकालसे अभ्यस्त मार्गसे उसके घर जा रही हूँ। इसलिए आप मुझे छोड़ दें और मेरे पास जो भाण्ड है, उसे आप ले लें।' ऐसा कह करके उसने मुझे वह भाण्ड अर्पण कर दिया। ( ३० ) अब मुझे उसपर दया आ गयी और मैंने कहा—'हे साध्वि ! आओ, मैं तुम्हें तुम्हारे प्रियतमके घर पहुँचा दूँ।' यों कह करके मैं तीन-चार कदम चला होगा कि,

१६० दशकुमारचरितम् । [ उत्तरपीठिकायां

१६० दशकुमारचरितम् । [ उत्तरपीठिकायां मानतिमिरभारं यष्टिकृपाणपाणि नागरिकबलमनल्पम् । दृष्ट्वैव प्रवेप- मानां कन्यकामवदम्—'भद्रे, मा भैषीः । अस्त्ययमसिद्वितीयो मे बाहुः । अपि तु मृदुरयमुपायस्त्वदपेक्षया चिन्तितः । शयेऽहं भावितविषवेगवि- क्रियः । त्वयाप्यमी वाच्याः 'निशि वयमिमां पुरीं प्रविष्टाः । दष्टश्च ममैष नायको दर्वीकरेणामुष्मिन्सभागृहकोणे । यदि वः कश्चिन्मन्त्रवित्कृपालुः स एनमुज्जीवयन्मम प्राणानाहरेदनाथायाः' इति । ( ३१ ) सापि बाला गत्यन्तराभावाद्गद्गदस्वरा बाष्पदुर्दिनाक्षी बद्धवेपथुः कथंकथमपि गत्वा मदुक्तमन्वतिष्ठत् । अशयिषि चाहं भावि- गच्छत् । नागरिकबलमित्यनेन सम्बध्यते । दीपिकौतं दीपिकायाः हस्तदीपस्य 'मशालू इति भाषाप्रसिद्धस्यालोकेन प्रकाशेन परिलुप्यमानो नाश्यमानस्तिमिर- भारोऽन्धकारसमूहो यत्रेति क्रियाविशेषणम् । यष्टिर्दण्डः कृपाणः खङ्गस्तौ पाणौ यस्य तत् । नागरिकबलस्य विशेषणमेतत् । बलं सैन्यम् । अनल्पं बहु । प्रवेप- मानां भयेन कम्पमानाम् । असिद्वितीयः खङ्गसहायः । असिद्वितीयो यस्येति विग्रहः । अपि तु-किन्तु । मृदुः-कोमलः । त्वदपेक्षया भवत्या अनुरोधेन । चिन्तितः स्थिरीकृतः । शये-सुप्तो भवामि । भावितेति-भाविता प्रकटिता विषस्य वेगेन विक्रिया विकारो येन सः । विषमूच्छितमिवात्मानं दर्शयामीति भावः । अमी उपस्थिताः जनाः । वाच्याः कथनीयाः । नायको वल्लभः । दर्वीकरेण सर्पेण वः युष्माकं मध्ये । मन्त्रवित् मन्त्रौषधिज्ञः । आहरेद् उद्धरेत् । ( ३१ ) गत्यन्तराभावात् उपायान्तरासत्त्वात् । बाष्पदुर्दिनाक्षी-अश्रुपूर्ण- नयना । बद्धवेपथुः सञ्जातकम्पा अन्वतिष्ठत्-यथा मयोक्तं तथैव कृतवती । इतनेमें दीपकके प्रकाशसे अन्धकार राशिको दूर करता हुआ हाथमें लाठी और तलवार लिये नागरिकोंका एक बड़ा झुण्ड आ पहुँचा । उसे देखते ही मारे भयके कांपनेवाली उस कन्यासे मैंने कहा—'मत डरो । मेरे भी भुजायें हैं और भुजाओंमें तलवार है। तथा तुम्हारे अनुरोधसे मैंने एक उपाय सोच लिया है। मैं बनावटी विषवेगसे व्याकुल हो करके यहां लेट जाता हूँ । ये आयें तो कहना कि, 'हम परदेशी हैं और इसी रात इस नगरीमें आये हैं । इस सभागृहके कोनेमें मेरे पतिको सांपने काट लिया है। आप लोगोंमेंसे कोई दयालु यदि मंत्र जानता हो तो, इसे जीवित करके मुझ अनाथिनीके प्राणोंको बचा ले । ( ३१ ) और कोई उपाय न देखकर उस तरुणीने भयसे गद्गदस्वरमें आंसू बहाती हुई, काँपती-काँपती मेरे कथनका अनुसरण किया । अब मैं बनावटी विषके विकारसे

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६१ तविषविक्रियः । तेषु कश्चिन्नरेन्द्रामिमानी मां निर्वर्ण्य मुद्रातन्त्रमन्त्रध्या- नादिभिश्चोपक्रम्याकृतार्थः, 'गत एवायं कालदष्टः । तथा हि स्तब्धश्या- वमङ्गम् , रुद्धा दृष्टिः, शान्त एवोष्मा । शुचालं वासु, श्वोऽग्निसात्करि- ष्यामः । कोऽतिवर्तते दैवम्' इति सहेतरैः प्रायात् । ( ३२ ) उत्थितश्चाहमुदारकाय तां नीत्वाऽब्रवम्—'अहमस्मि कोऽपि तस्करः । त्वद्गतेनैव चेतसा सहायभूतेन त्वामिमामभिसरन्तीमन्तरोप- अशयिषि शयितोऽभवम् । तेषु नागरिकेषु । नरेन्द्राभिमानी=विषवैद्यम्मन्यः । नरेन्द्रो वार्त्तिके राज्ञि विषवैद्येऽपीति कोषः । मां शयितमपहारवर्माणम् । निर्व- र्ण्य=सावधानं निरीक्ष्य । मुद्रेति=मुद्रातन्त्रादिप्रयोगैः । उपक्रम्य चिकित्सामा- रभ्य । अकृतार्थः अकृतकार्यः । विषापनयनं कर्तुमपारयन्नित्यर्थः । गतः मृतः । कालदष्टः कालेन मृत्युना दष्टो भक्षितः । मरणचिह्नानि दर्शयति तथाहीति- स्तब्धं निश्चलं श्यावं धूम्रवर्णमङ्गं शरीरम् । दृष्टिर्दर्शनशक्तिः रुद्धा नष्टा । उष्मा शरीरतापः । शान्तोऽपगतः । शुचा शोकेनालं प्रयोजनन्नास्ति । श्वः आगामि- दिने । अग्निसात्करिष्यामः धक्ष्यामः । अतिवर्त्तते-अतिक्रामति । इति इत्युक्तवा । इतरैरन्यैः । प्रायादगच्छत् । ( ३२ ) उदारकाय तां नीत्वा=तां कन्यामुदारकसमीपं प्रापय्य । त्वद्गतेन त्वत्पक्षपातिना। चेतसा=हृदयेन । सहायभूतेन सहायकेन । स्वहृदयमेव सहायीकृत्येत्यर्थः । त्वां भवत्समीपम् अभिसन्तीम् आगच्छन्तीम् इमां भव- त्पत्नीम् । अन्तरा मार्गमध्ये । उपलभ्य प्राप्य । कृपया दयया । अनैषम्-आनी- तवानस्मि । इति इदमुक्तवा । अंशुपटलेति अंशुपटलेन किरणसमूहेन पाटितं ना- व्याकुल होकर लोट गया। तदनन्तर उनमेंसे अपनेको वैद्य माननेवाले एक पुरुषने मुझे भली भाँति देखा। मुद्रा, तन्त्र, मन्त्र तथा ध्यान आदिके द्वारा अनेक उपाय करके भी असमर्थ रहा, तब उसने कहा—'इसे सर्पने नहीं, बल्कि कालने काटा है, इसलिए अब यह चल बसा। इसके सब अङ्ग शिथिल और श्याम हो गये हैं। आँखें पथरा गयी हैं और शरीर ठण्डा पड़ गया है। देवि ! शोक करना व्यर्थ है। सवेरे हम लोग आकर इसे जला देंगे। विधिके विधानको भला कौन मेट सकता है ?' यों कहकर वह अपने साथियोंके साथ चला गया। तब मैं भी उठा और उस कन्याको उदारकके पास ले जाकर कहा— 'आर्य ! मैं एक चोर हूँ । तुम्हारेमें इस कन्याका मन लगा हुआ था, उसी मनका सहायक

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF १६२ दशकुमारचरितम् । [ उत्तरपीठिकायां लब्ध्य कृपया त्वत्समीपमनैषम् । भूषणमिदमस्याः' इत्यंशुपटलपाटितध्वा- न्तजालं तदप्यर्पितवान् । उदारकस्तु तदादाय सलज्जं च सहर्षं च ससं- भ्रमं च मामभाषत—'आर्य, त्वयैवेयमस्यां निशि प्रिया मे दत्ता । वा- क्पुनर्ममापहृता । तथा हि न जाने वक्तुं त्वत्कर्मैतदद्भुतमिति । ननु ते शीलमद्भुतवत्प्रतिभाति । नैवमन्येनापि कृतपूर्वमिति प्रतिनियतैव वस्तुशक्तिः । न हि त्वय्यन्यदीया लोभादयः । त्वयाद्य साधुतोन्मीलितेति शितं ध्वान्तजालमन्धकारसमूहो येन तत् । तदपि-भूषणमपि । तदादाय-भूषणं गृहीत्वा । सलज्जं सव्रीडम् । सहर्षं सानन्दम् । ससम्भ्रमं साश्चर्यम् । सलज्ज- मित्यत्र स्वरहस्यज्ञानं लज्जायाः, सहर्षमित्यत्र अद्भुतोपायेन प्रियाप्राप्तिर्हर्षस्य ससम्भ्रममित्यत्र च तस्करस्यालौकिककर्मदर्शनं सम्भ्रमस्य कारणम् । एतानि च अभाषतेति क्रियाविशेषणानि । मे मह्यम् । अपहृता गृहीता । अत्र प्रियाविनिमयेन वागपहरणात् परिवृत्तिरलंकारः । परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथ इति लक्ष- णात् । मम वचनसामर्थ्यं नास्ति इति यदुक्तं तदेव विशदयति-तथाहीत्यादिना । एतत्त्वत् कर्म-प्रियादानरूपमद्भुतमाश्चर्यजनकमिति वक्तुं न जाने वचनसामर्थ्यं मम नास्ति । तादृशशक्तेरभावात् । न जाने इत्यनेनानन्तरोक्तानां सर्वेषामित्यन्त- वाक्यानामन्वयः । ते तव स्वशीलं स्वभावः चोरस्यापि भूषादिसमर्पणरूपः अद्भुतमिव प्रतिभाति । एवमीदृशं कर्म अन्येनापि भवद्व्यतिरिक्तेनापि न कृत- पूर्वं पूर्वं नाचरितमित्यपि वक्तुं न जाने यतो वस्तुशक्तिः पदार्थस्वभावः प्रतिनियता तत्तद्व्यक्तिनिष्ठैव । एकस्य शक्तिरेकत्रैव तिष्ठति नान्यत्रात एता- दृशं कर्म पूर्वमन्येन न कृतमिति वचनस्यावसरोऽपि नास्तीति भावः । अन्यदीया अन्यपुरुषसाधारणाः लोभादयस्त्वयि न सन्ति नोपलभ्यन्ते । अद्य साम्प्रतं साधुता सज्जनता उन्मीलिता प्रकटीकृतेति यत्तत् प्रायो बाहुल्येन त्वत्पू- बनकर, मार्गमें मिली हुई, इस कन्याको तुम्हारे समीप ले आया हूँ। ये इसके गहने हैं।' ऐसा कहकर अपनी दीप्तिसे अन्धकार राशिको नष्ट करते हुए उन आभूषणोंको उसे दे दिया । उसे लेकर उदारकने लज्जा, हर्ष और घबड़ाहटभरी वाणीमें कहा—'आर्य ! तुम्हींने इस रातके समय मेरी प्रियाको मेरे पास पहुँचाया है। तुमने अपने कार्यसे मेरी जबान ही बन्द कर दी है। कुछ सूझता ही नहीं कि, क्या कहकर मैं तुम्हारे इस अद्भुत कार्यकी सराहना करूँ । निःसन्देह तुम्हारा स्वभाव विचित्र है । यह तो निश्चित ही है कि, किसी चोरने कभी ऐसा नहीं किया है। और लोगोंके समान तुम्हारेमें लोभ आदि Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६३ तत्प्रायस्त्वत्पूर्वावदानेभ्यो न रोचते । दृष्टमिदानीमौदार्यस्य स्वरूपमिति त्वदाशयमननुमान्य न युक्तो निश्चयः । त्वयामुना सुकृतेन क्रीतोऽयं दा- सजन इत्यसारमतिगरीयसा क्रीणासीति स ते प्रज्ञाधिक्षेपः । प्रियादानस्य प्रतिदानमिदं शरीरमिति तदलाभे निधनोन्मुखमिदमपि त्वयैव दत्तम् । अथवैतावदत्र प्राप्तंरूपम् । अद्यप्रभृति भर्त्तव्योऽयं दासजनः' इति मम पाद्योरपतत् । (३३) उत्थाप्य चैनमुरसोपश्लिष्याभाषिषि - 'भद्र, काद्य ते प्रति र्वावदानेभ्यः पूर्वकृतमहाकर्मभ्यो न रोचते स्वदत्ते । पूर्वमपि भवता ईदृशानि कर्माणि न कृतानीत्यपि वक्तुं नाभिलषामीति अवदानं कर्मवृत्तमिति कोषः । औदार्यस्य उदारतायाः स्वरूपमिदानीं दृष्टमित्यपि वक्तुं न जाने यत- स्तवदाशयं भवदभिप्रायम् अननुमान्य सम्यगविदित्वा निश्चयो निर्णयो न युक्त उचितः । सुकृतेन सुकर्मणा । दासजनः सेवकः । क्रीतः स्वाधीनीकृतः इत्यपि वक्तुं न जाने यतोऽति गरीयसा अतिमहता वस्तुनेति शेषः असारं निकृष्टं वस्त्वि- तिशेषः क्रीणासीति यत्तदपि ते प्रज्ञाधिक्षेपः बुद्धेर्निन्दा । न कोऽपि सचेता उत्कृ- ष्टेन वस्तुना निकृष्टं क्रीणातीति भावः । प्रतिदानं प्रतिरूपदानम् इदं मम शरीर- मित्यपि वक्तु न पारयामि यतः तदलाभे प्रियाया अप्राप्तौ निधनोन्मुखं मरणाद्यो- द्यतमिदं शरीरं भवतैव मह्यं दत्तमत्तः कथमेतत्प्रतिदानं भवितुमर्हति । मच्छरीरं भवदीयमेवेति भावः, एतावत्-इति कथनमेवात्र प्राप्तंरूपं युक्तियुक्तम् । भर्त्तव्यः पालनीयः । इति-इति कथयित्वा । (३३) उत्थाप्य पादपतनादिति शेषः । एनं धनमित्रम् । उरसा वक्षसा । दुर्गुण नहीं हैं। तुमने आज जिस सज्जनताका परिचय दिया है, उससे तुम्हारे पूर्वकृत्य (चोरी आदि) का मेल नहीं खाता । इस समय तो, मैंने तुममें उदारताका प्रत्यक्ष स्वरूप देख लिया है। तुम्हारा अभिप्राय समझे बिना कोई निश्चय कर लेना उचित न होगा। 'तुमने अपने सुकृतसे इस दासको मोल ले लिया है' यदि यह कहूँ तो तुम्हारी बुद्धिकी निन्दा होगी। तुमने मुझे जो मेरी प्रियतमा दी है, उसके बदलेमें मेरा यह शरीर अर्पित है। यदि यह न मिली होती तो, यह शरीर भी न रह जाता। अत एव शरीर भी तुम्हींने दिया है। अस्तु, यह बहुत ही अच्छा हुआ । आजसे आप अपने इस दास पर दया रखियेगा।' यों कहकर वह मेरे पैरोंपर गिर पड़ा। (३३) तब मैंने उसे उठाकर छातीसे लगा लिया और कहा - 'भद्र ! भव तुम Nepal Sanskrit University, Balmeeki Campus, Kathmandu

१६४ दशकुमारचरितम् । [ उत्तरपीठिकायां

१६४ दशकुमारचरितम् । [ उत्तरपीठिकायां पत्तिः' इति । सोऽभ्यधत्त—'न शक्नोमि चैनामत्र पित्रोरनभ्यनुज्ञायोप- यम्य जीवितुम् । अतोऽस्यामेव यामिन्यां देशमिमं जिहासासि । को वा- हम् । यथा त्वमाज्ञापयसि' इति । अथ मयोक्तम्—'अस्त्येतत् । स्वदेशो देशान्तरमिति नेयं गणना विदग्धस्य पुरुषस्य । किन्तु बालेयमनल्पसौ- कुमार्या । कष्टाः प्रत्यवायभूयिष्ठाश्च कान्तारपथाः । शैथिल्यमिव किञ्चि- त्प्रज्ञासत्त्वयोरनर्थेनेदृशेन देशत्यागेन संभाव्यते । तत्सहानया सुखमि- हैव वस्तव्यम् । एहि । नयावैनां स्वमेवावासम्' इति । उपश्लिष्य-आलिङ्ग्य । अभाषिषि-उक्तवानस्मि । प्रतिपत्तिः-कर्त्तव्यबुद्धिः । अभ्यधत्त अकथयत् । एनां-कुबेरदत्तकन्यां । पित्रोः तन्माता पित्रोः । अनभ्यनु- ज्ञाय अननुमत्या । उपयम्य विवाह्य । जिहासासि त्यक्तुमिच्छामि । को वाहं एतत्करणे मम प्रभुत्वं नास्तीत्यर्थः । अस्त्येतत्-सत्यमेव त्वयोक्तम् । देशान्तरं परदेशः । गणना विचारः । विदग्धस्य चतुरस्य । विद्वान् सर्वत्र पूज्यत इति भावः । बाला कन्या । अनल्पसौकुमार्या-अतिकोमला । कष्टाः क्लेशजनकाः । प्रत्यवाय- भूयिष्ठाः-विघ्नबहुलाः । कान्तारपथाः । अरण्यमार्गाः । शैथिल्यमिवेति-अनर्थेन विपत्पूर्णेन ईदृशेन पूर्वोक्तप्रकारेण देशत्यागेन स्वदेशं त्यक्त्वाऽऽन्यत्रगमनेन प्रज्ञासत्त्वयोर्बुद्धिसामर्थ्ययोः किञ्चित् ईषत् शैथिल्यं ह्रास इव सम्भाव्यते विवि- च्यते । बुद्धिहीना दुर्बलाश्च देशत्यागिनो भवन्तीति भावः । तत् तस्मात् कार- णात् । अनया त्वद्भार्यया । सहैव अस्यामेव नगर्याम् । वस्तव्यं वसतिः कर्त्तव्या। नयाव-प्रापयाव आवामिति शेषः । आवासं गृहम् । क्या चाहते हो ? उसने कहा—'इसके माता-पिताकी अनुमति पाये बिना इसके साथ विवाह करके मैं जीवित नहीं रह सकता । अत एव इसी रातको यह देश त्यागकर मैं चल देना चाहता हूँ। अथवा मैं (अपने मनकी करने वाला) हूँ ही कौन ? आप जैसी आज्ञा दें, वैसा करूँ।' तब मैने कहा—'तुम्हारा कथन यथार्थ है। 'स्वदेश' और 'विदेश' में समझदार लोग कोई अन्तर नहीं मानते । किन्तु, यह युवती बड़ी ही सुकुमार है। वनके मार्ग बड़े दुखदायी और विविध विघ्न-बाधाओंसे भरे रहते हैं। तुम्हारे इस तरह देश त्याग देनेपर लोग बुद्धि और बलका शैथिल्य ही समझेंगे । इसलिए तुम इसके साथ सुखपूर्वक यहीं रहो । चलो, इसे अपने घर ले चलें। Nepal Sanskrit University, Balmeeki Campus, Kathmandu

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६५ ( ३४ ) अविचारानुमतेन तेन सद्य एवैनां तद्गृहमुपनीय तयैवाप- सर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव । ततो निष्पत्य क्वचिन्मुषितकं निधाय समुच्चलन्तौ नागरिकसंपाते मार्गपार्श्वशायिनं कंचिन्मत्तवारण- मुपरिपुरुषमाकृष्याध्यारोहाव । ग्रैवेयप्रोतपादयुगलेन च मयोत्थाप्यमान एव पतिताधोरणपृथुलोरःस्थलपरिणतः पुरीतलतातपरीतदन्तकाण्डः स रक्षिकवलमक्षिणोत् । अध्वंसयाव चामुनेवार्थपतिभवनम् । अपवाह्य च (३४) अविचारानुमतेन-निर्विचारस्वीकृतेन । तेन धनमित्रेण-तद्वारेणे- त्यर्थः । एनां कन्याम् । तद्गृहं-तस्याः कन्याया गृहम् । उपनीय-नीत्वा । अपस- र्पभूतया-चररूपया । अपसर्पश्चरः स्पशं इत्यमरः । तत्र कुबेरदत्तगृहे । मृद्भा- ण्डेति-मृद्भाण्डानामवशेषो यस्मिंस्तद् यथा तथा । एवं चोरितं येन मृत्पात्रा- ण्येव अविशिष्टानीति भावः । अचोरयाव आवामपहृतवन्तौ । ततस्तस्माद्भग- रात् । निष्पत्य-निर्गत्य । मुषितकं-अपहृतद्रव्यम् । निधाय-संस्थाप्य । समु- च्चलन्तौ-स्वगृहं गन्तुमुद्यतौ । नागरिकसंपाते-नगररक्षणां संमर्दे सति । मार्गपा- र्श्वशायिनं पथिप्रान्तशायितम् । मत्तवारणं मत्तहस्तिनम् । अध्यारोहावेत्यस्याः क्रियायाः कर्म । उपरिपुरुषम्-उपरि हस्तिपृष्ठे स्थितं पुरुषं-आधोरणमित्यर्थः । आकृष्येति क्रियायाः कर्म आकृष्य-निपात्य ग्रैवेयेति-ग्रैवेये कण्ठरज्ज्वां प्रोतं प्रवे- शितं पादयुगलं येन तेन । उत्थाप्यमानः ऊर्ध्वमुत्क्षिप्यमानः । गज इत्यस्य विशेष- णम् । पतितेति-पतितस्य गजपृष्ठादाकृष्टस्याधोरणस्य हस्तिपकस्य पृथुले विस्तृते उरःस्थले वक्षसि परिणतस्तिर्यग्दन्तप्रहारी । तिर्यग्दन्तप्रहारस्तु गजः परिणतो मत इति हलायुधः । पुरीतिदिति पुरीतलतया अन्तर्बल्या परीतं वेष्टितं दन्तकाण्डं यस्य सः । स-गजः । रक्षिकवलं-नगररक्षिसैन्यम् । अक्षिणोत् क्षयमजयत् । (३४) बिना सोचे विचारे उसने मेरी बात मान ली तत्काल सुन्दरीको उसके घर पहुँचा दिया तथा उसी नारीको अगुआ बनाकर उस घरके मृद्भाण्डमें जो अवशिष्ट धन था, सो भी, हम दोनोंने चुरा लिया। वहां से चलकर चोरी करनेके सब उपकरण एक स्थानपर रख दिये और आगे बढ़े। मार्गमें एक जगह मनुष्योंकी बड़ी भीड़ एकत्रित थी । पास ही राहके किनारे एक मतवाला हाथी पड़ा सो रहा था । उसपर सवार फीलवानको पकड़कर हम दोनों उस हाथी पर चढ़ गये। मैंने तत्काल उसके गलेमें डाली हुई रस्सीमें दोनों पांव डालकर जैसे ही उठाया, उसी समय उसने हाथीवान को जमीनमें गिरा दियऔर उसकी छातीमें अपना दांत गड़ाकर अतड़ियां निकाल लीं और उन्हें दांतमें लपेटकर

१६६ दशकुमारचरितम् । [ उत्तरपीठिकायां

१६६ दशकुमारचरितम् । [ उत्तरपीठिकायां क्वचन जीर्णोद्याने शाखाग्राहिकया चावातराव । स्वगृहगतौ च स्नातौ शयनमध्यशिश्रियाव । ( ३५ ) तावदेवोदगादुदधेरुदयाचलेन्द्रपद्मरागशृङ्गकल्पं कल्पद्रुमहे- मपल्लवापीडपाटलं पतङ्गमण्डलम् । उत्थाय च धौतवक्त्रौ प्रगेतनानि मङ्गलान्यनुष्ठायास्मत्कर्मतुमुलं पुरमनु विचरन्तावशृणुव वरवधूगृहेषु कोलाहलम् । अथार्थैरर्थपतिः कुबेरदत्तमाश्वास्य कुलपालिकाविवाहं मासा- अध्वंसयावः-आवां ध्वंसितवन्तौ । अमुना-गजेन । अपवाह्य-नीत्वा । शाखाग्राहि- कया वृक्षशाखाग्रहणेन । अवातराव अवतीर्णौ । स्नातौ कृतस्नानौ । शयनं शय्याम् । अध्यशिश्रियाव अधिष्ठितवन्तौ आवामिति शेषः । (३५) तावदेव-तस्मिन्नेवकाले । उदगाद् उत्थितमभवत् । उदधेः-साग- रात् उद्येति-उदयाचलेन्द्रस्य उदयपर्वतराजस्य यत् पद्मरागशृङ्गं शोणमणिशि- खरं तस्मादीषदूनं तत्सदृशमित्यर्थः । कल्पद्रुमस्य देवतरोर्ये हेमपल्लवाः सुवर्णकि- सलयानि तेषामापीडः समूहस्तद्वत्पाटलं श्वेतरक्तवर्णम् । पतङ्गमण्डलं सूर्यवि- म्बम् । उदगादित्यस्य कर्तृपदम् । उत्थाय शयनादिति शेषः । धौतवक्त्रौ प्रक्षा- लितमुखौ आवामिति शेषः । प्रगेतनानि-प्रभातोचितानि । प्रगे इत्येकारान्तमव्ययं तस्मात् 'सायं चिरमि'त्यादिना ट्युल् प्रत्ययस्तुडागमश्च । अनुष्ठाय परिसमाप्य । अस्मदिति-अस्माकं कर्मणा चौर्येण तुमुलं भयसङ्कुलम् । पुरस्य विशेषणम् । वरवधूगृहेषु-वरस्यार्थपतेर्वध्वाः कुबेरदत्तकन्यायाश्च गृहेषु । उभयत्रैव सर्वद्रव्या- पहरणं जातमिति भावः । कोलाहलमार्त्तनादम् । अथैर्धनैः । कुबेरदत्तं कन्या- रक्षकोंके झुण्डकी ओर झपटा । उसी हाथीके द्वारा मैंने अर्थपतिका भवन ढहा दिया । जब वह हम दोनोंको अपनी पीठपर लादकर कुछ दूर ले गया तो, एक उजाड़ उपवनमें वृक्षकी शाखा पकड़कर उतर आया । अन्तमें अपने घर जाकर हम दोनोंने स्नान किया और सो गये । (३५) इसी समय उदयाचलके पद्मरागमणिके शिखर सदृश एवं कल्पवृक्षके स्वर्णपल्लव समूहकी भाँति रक्तवर्णका सूर्यमण्डल समुद्रसे निकल आया। तब उठकर हम दोनोंने मुँह धोया प्रातःकालोचित सब कार्य सम्पन्न किये । तदनन्तर घूमने निकले तो, वहीं एक वर-वधू के घरोंमें कोलाहल सुना । इसके बाद अर्थपति-( वर-) ने बहुत सा धन देकर कुबेरदत्त- ( कन्याके पिता-) को आश्वासन दिया और महीनेभर बाद कुलपालिका-

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६७


वधिकमकल्पयत् । उपह्वरे पुनरित्थमशिक्षयं धनमित्रम्—'उपतिष्ठ सखे, एकान्त एव चर्मरत्नभस्त्रिकामिमां पुरस्कृत्याङ्गराजम् । आचक्ष्व च जाना- त्येव देवो नैककोटिसारस्य वसुमित्रस्य मां धनमित्रं नामैकपुत्रम् । सोऽहं मूलहरत्वमेत्यार्थिवर्गादस्म्यवज्ञातः । मदर्थमेव संवर्धितायां कुलपालि- कायां महद्दारिद्र्यदोषात्पुनः कुबेरदत्तेन दुहितर्यर्थपतये दित्सितायामुद्वेगा- दुज्झितुम सूनुपनगरभवं जरद्वनमवगाह्य कण्ठन्यस्तशस्त्रिकः केनापि जटा- धरेण निवार्यैवमुक्तः—'किं ते साहसस्य मूलम्' इति ।

पितरम् । आश्वास्य सान्त्वयित्वा । कुलपालिका कुबेरदत्तकन्या तस्या विवाह- स्तम् । मासावधिकं-मासोऽवधिर्यस्य तम् । एकमासाभ्यन्तरे कदापि भविष्यतीति अकल्पयत्-निरधारयत् । उपह्वरे एकान्ते । इति-वक्ष्यमाणम् । अशिक्षयं शिक्षि- तवानस्मि । उपतिष्ठ-भजस्व । चर्मेति-चर्मणा निर्मिता रत्नभस्त्रिका रत्नप्रसविनी भस्त्रा ताम् अथवा चर्मरत्नेन उत्तमचर्मणा निर्मिता भस्त्रिका ताम् । पुरस्कृत्य अग्रे धृत्वा । अङ्गराजं अङ्गदेशाधिपतिम् । आचक्ष्व-ब्रूहि । देवो-भवान् । नैकको- टिसारस्य अनेककोटिद्रव्यवतः, महाधनिकस्येत्यर्थः । मूलहरत्वं लुप्तमूलधनत्वम्- दारिद्र्यमित्यर्थः । एत्य-प्राप्य-अर्थिवर्गादितिशेषः । अवज्ञातः निःस्वतया तिर- स्कृतः मदर्थं सन्निमित्तम् । संवर्धितायां पालितायाम् । कुलपालिकां कन्याम् । दुहि- तरि-कन्यायाम् । दित्सितायां दातुमिष्टायाम् । उद्वेगात् शोकात् । उज्झितुं त्यक्तुम् । असून् प्राणान् । उपनगरभवं नगरसन्निकटस्थम् । जरद्वनं जीर्णारण्यम् । लोकप्रचाररहितमिति यावत् । अवगाह्य प्रविश्य । कण्ठेति-कण्ठे गलदेशे न्यस्ता निहिता शस्त्रिका छुरिका येन सः । केनापि-अज्ञातनाम्ना । निवार्य निषिध्य । साहसस्य एतादृशोद्योगस्य । मूलं निदानम् ।

( कन्या- ) के साथ उसका विवाह निश्चित हो गया । इसके बाद एकान्तमें मैंने धनमित्रको यह शिक्षा दी-मित्र ! तुम यह उत्तम चर्मकी बनी भाथी लेकर अङ्गराजसे मिलो । उनसे कहना कि, आप यह जानते ही होंगे कि, मैं अनेक करोड़ धनके अधिपति व सुमित्रका एक पुत्र धनमित्र हूँ । अब मेरी सब पूँजी समाप्त हो गयी है, इसलिए भिखारी लोग भी मेरा तिरस्कार करते हैं । यद्यपि कुबेरदत्तने मुझे अर्पण करनेके लिए ही अपनी कन्याका पालन किया था, किन्तु, मेरी दरिद्रताके कारण वह उसे अर्थपतिको देना चाहता है । यह समाचार सुनकर मुझे इतना सन्ताप हुआ कि, मैं नगरके समीप ही सुनसान जङ्गलमें चला गया और अपने गलेपर तलवार चलानी चाही, इसी समय एक जटाधारी सन्तने मुझे रोककर कहा—'तुम ऐसा दुःसाहस किस लिए कर रहे हो ?'

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

१६८ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF १६८ दशकुमारचरितम् । [ उत्तरपीठिकायां ( ३६ ) मयोक्तम्—'अवज्ञासोदर्यं दारिद्र्यम्' इति । स पुनरेवं कृपा- लुरन्वग्रहीत्—'तात, मूढोऽसि । नान्यत्पापिष्ठतमात्मत्यागात् । आत्मा- नमात्मनानवसाद्यैवोद्धरन्ति सन्तः । सन्त्युपाया धनार्जनस्य बहवः नैको- ऽपि च्छिन्नकण्ठप्रतिसन्धानपूर्वस्य प्राणलाभस्य । किमनेन । सोऽस्म्यहं मन्त्रसिद्धः । साधितेयं लक्षग्राहिणी चर्मरत्नभस्त्रिका । चिरमहमस्याः प्रसादात्कामरूपेषु कामप्रदः प्रजानामवात्सम् । मत्सरिण्यां जरसि भूमि- ( ३६ ) अवज्ञेति—अवज्ञा अवहेलना सोदर्या सहोदरा यस्य तत् । अव- ज्ञायाः सोदर्यं बन्धुभूतमिति वा । अनादरसहितमित्यर्थः ईदृशं दारिद्र्यमेव मम साहसस्य मूलमिति प्रश्नोत्तरम् । स-जटाधरः । अन्वग्रहीत्—अनुगृहीतवान् मा- मिति शेषः । तात-वत्स । नान्यदिति-आत्मत्यागाद् आत्महत्यातः अन्यदपरं पापिष्ठतमं पापवत्तरमतिपातकं नास्तीत्यर्थः । आत्मानमिति-सन्तः साधवः आ- त्मना स्वयमात्मानमनवसाद्य अविनाश्य आत्मानमुद्धरन्ति मुक्तिं लभन्ते । छिन्नकण्ठेति-छिन्नः कर्त्तितो यः कण्ठः तस्य प्रतिसंधानं पुनः संयोगस्तदेव पूर्वं यस्य तथाभूतस्य । प्राणलाभस्य जीवनप्राप्तेः । धनार्जनस्य बहव उपायाः सन्ति किन्तु प्राणलाभस्यैकोऽप्युपायो नास्तीत्यर्थः । अनेन प्राणत्यागेन । साधिता सम्पादिता लब्धेति यावत् । लक्षं ग्राहयतीति लक्षग्राहिणी-लक्षमुद्राप्रसविनी । चिरं दीर्घकालं यावत् । अस्याः चर्मरत्नभस्त्रिकायाः । कामरूपेषु तदाख्यप्रदेशे । कामप्रदः अभीष्टदाता प्रजानामिति शेषः । अवात्सं वसतिमकरवम् । मत्सरि- ण्यां विद्वेषिण्याम् । जरसि-जरायां वार्द्धके इति यावत् । मयि जराग्रस्ते सती- ( ३६ ) मैंने कहा-'अवज्ञा और दरिद्रता ही मेरे दुःसाहसका कारण है।' उस दयालुने मेरेपर अनुग्रह करके कहा—'हे तात ! तुम बड़े नासमझ हो । आत्महत्यासे बढ़कर और कोई पाप नहीं हो सकता । भले लोग अपनी आत्माको कुछ कष्ट दिये बिना ही अपना निस्तार कर लिया करते हैं । धन अर्जन करनेके बहुतेरे उपाय हैं । लेकिन कटे हुए गलेको जोड़नेका एक भी उपाय नहीं है । सो, ऐसा करनेकी क्या आवश्यकता । मैं एक मन्त्रसिद्ध- पुरुष हूं । मैंने लाखोंकी सम्पत्ति प्रदान करनेवाली यह चर्मरत्नभस्त्रिका साध ली हैं । इसकी कृपासे कामरूप देशमें सब लोगोंकी कामनाए पूर्ण करता हुआ बहुत समयतक रहा हूँ । मत्सर ( ईर्ष्या ) उत्पन्न करनेवाली वृद्धावस्थामें इस भूमिको स्वर्ग समझकर मैं घूमता- फिरता आ निकला । सो, आप इसे स्वीकार करें । यह बात नहीं है कि, यह (चर्मभस्त्रिका) हमारी ही कामना पूर्ण करती हो, बल्कि, यह तो वैश्यों और वेश्याओंकी भी इच्छा पूर्ण Nepal Sanskrit University, Balmeeki Campus, Kathmandu

स्वर्गमत्रोद्देशे प्रवेक्ष्यन्नागतः। तामिमां प्रतिगृहाण। मदन्यत्र चेयं वणिग्भ्यो वारमुख्याभ्यो वा दुग्धे इति हि तद्गता प्रतीतिः। किन्तु यत्सकाशादन्यायापहृतं तत्तस्मै प्रत्यर्पणीयम्। न्यायार्जितं तु देवब्राह्म- णेभ्यस्त्याज्यम्। (३७) अथेयं देवतेव शुचौ देशे निवेश्यार्च्यमाना प्रातः-प्रातः सुव- र्णपूर्णेव दृश्यते। स एष कल्पः' इति बद्धाञ्जलये मह्यमेनां दत्त्वा किमपि ग्रावच्छिद्रं प्राविशत्। इयं च रत्नभूता चर्मभस्त्रिका देवायानिवेद्य नोप- जीव्येत्यानीता। परन्तु देवः प्रमाणम्' इति। राजा च नियतमेव वक्ष्य-

त्यर्थः। भूमिस्र्वगं भूमौ पृथिव्यां स्वर्गं इव तम्। स्वर्गतुल्यं किमपि स्थानमि- त्यर्थः। भूमितः स्वर्गगमनार्थं किमपि बिलं वा। प्रवेक्ष्यन्नित्यस्य कर्म । उद्देशे प्रदेशे। इमां चर्मरत्नभस्त्रिकाम्। मदन्यत्र मां विहाय अपरत्र। इयं चर्मरत्न- भस्त्रिका। वणिग्भ्यो वैश्येभ्यः। वारमुख्याभ्यः वाराङ्गनाभ्यः। चतुर्थी बहुवच- नम्। दुग्धे रत्नानि प्रसूते। तद्गता-चर्मरत्नभस्त्रिकाविषयिणी। प्रतीतिः प्रसि- द्धिः। यत्सकाशात्-यस्य जनस्य सकाशात्समीपात्। अन्यायापहृतं-अन्यायेना- नीतं तद् वस्तु तस्मै-यत्सकाशादानीताभ्यर्थः। त्याज्यं दातव्यम्। (३७) अथ-त्यागानन्तरम् । इयं-भस्त्री । शुचौ-पवित्रे । निवेश्य संस्था- प्य। अर्च्यमाना-पूज्यमाना। प्रातः प्रातः-प्रतिप्रातः कालम्। कल्पः प्रकारः। बद्धाञ्जलये-कृतप्रणामाय । एनां अस्त्रिकाम् । ग्रावच्छिद्रं पर्वतविवरम् । रत्न- भूता-रत्नस्वरूपा। देवाय भवते। अनिवेद्य अनुक्त्वा। नोपजीव्या न भोक्तव्या। प्रमाणं निर्णायकः। नियतमवश्यमेव । वक्ष्यति कथयिष्यति । यथेष्टम्-स्वेच्छा-

करती है। यह बात विख्यात हो चुकी है। लेकिन यह बात भी ध्यानमें रखनी चाहिए कि, यदि अन्यायसे किसीका कुछ अपहरण कर लिया जाय तो, वह उसे लौटा देना चाहिए। और न्यायसंगत रीतिसे जो उपलब्ध हो उसे देवताओं और ब्राह्मणोंके काम खर्च करना उचित है। (३७) यदि किसी पवित्र स्थानपर रखकर देवताकी भांति इसका पूजन किया जाय तो, प्रतिदिन यह सुवर्णसे पूर्ण दीखेगी। यही इसका विधान है।' अञ्जलि बांधकर खड़े मुझ दाससे यों कह कर वह जटाधारी किसी पर्वतकी कन्दरामें घुस गया। यह रत्नस्वरूपा भस्त्रिका आपको अर्पण किये बिना अपने काममें लाना अनुचित जानकर ही आपके समीप ले आया हूँ। अब आप जो उचित समझें सो, करें। इसपर राजा अवश्य कहेगा-

ति-'भद्र, प्रीतोऽस्मि । गच्छ । यथेष्टमिमामुपभुङ्क्ष्व' इति । भूयश्च ब्रूहि—'यथा न कश्चिदेनां मुष्णाति तथानुगृह्यताम्' इति । तदप्यवश्य- मसावभ्युपैष्यति । ततः स्वगृहमेत्य यथोक्तमर्थत्यागं कृत्वा दिने दिने वरिवस्यमानां स्तेयलब्धैरर्थैर्नक्तमापूर्य प्राह्णे लोकाय दर्शयिष्यसि । ततः कुबेरदत्तस्तृणाय मत्वार्थपतिमर्थलुब्धः कन्यकया स्वयमेव त्वा- मुपस्थास्यति । ( ३८ ) अथ कुपितोऽर्थपतिर्व्यवहर्तुमर्थगर्वाद्भियोत्स्यते । तं च भूयश्चित्रैरुपायैः कौपीनावशेषं करिष्यावः । स्वकं चौर्यमनेनैवाभ्युपायेन सुप्रच्छन्नं भविष्यति' इति ' हृष्टश्च धनमित्रो यथोक्तमन्वतिष्ठत् । तदहरेव नुरूपम् । इमां भस्त्रिकाम् । भूयः पुनरपि । मुष्णाति चोरयति । असौ राजा । अभ्युपैष्यति स्वीकरिष्यति । अर्थत्यागं धनदानम् । वरिवस्यमानाम् अर्च्यमा- नाम् । भस्त्रिकामिति शेषः । स्तेयलब्धैः चौर्येणाधिगतैः । नक्तं रात्रौ । आपूर्य रत्नैः पूरयित्वा । प्राह्णे प्रभाते । तृणाय मत्वा तृणवज्ज्ञात्वा अवज्ञायेत्यर्थः। उपस्थास्यति-आराघयिष्यति । ( ३८ ) व्यवहर्त्तुं विवादं कर्त्तुम् । अर्थगर्वात् धनमदात् । अभियोत्स्यते-राज- द्वारे अभियोगं करिष्यति । एनम् अर्थपतिम् । चित्रैर्नानाविधैः । स्वकं स्वकीयम्। अनेन-पूर्वोक्तेन । सुप्रच्छन्नं गुप्तम् । तदहः तस्मिन् दिने । मन्नियोगात्-ममा- 'भद्र ! मैं तुमपर प्रसन्न हूँ । जाओ और इच्छानुसार इसका उपयोग करो। तब तुम कहना कि, 'कृपा करके श्रीमान् कोई ऐसा प्रबन्ध कर दें कि, जिससे इसे कोई चुरा न सके ।' राजा तुम्हारी बात अवश्य मानेगा । तदनन्तर अपने घर आकर पूर्वोक्त रीतिसे धन दान करके सतत पूजित इस भस्त्रिकाको रातके समय चोरी करके प्राप्त धन से भर दिया करना । और सबेरे लोगोंको दिखाना । तब धनका लोभी कुबेरदत्त अर्थपतिको तृणकी भांति समझकर अपनी कन्याको साथ लेकर तुम्हारे पास आयेगा । ( ३८ ) इस बातसे अर्थपति क्रुद्ध होगा और धनके गर्ववश वह तुमसे द्वेष करने लगेगा । उसे हम दोनों विविध उपायोंसे कौपीनावशेष कर डालेंगे । चोरीका अपना दुष्कर्म इसी उपाय से छिपेगा ।' धनमित्रने प्रसन्न मनसे मेरे कहे हुए सब कार्य सम्पन्न

द्वितीयाेच्छ्वासः ] व्याखाद्वयाेपेतम् । १०१ मन्नियोगाद्विमर्दकोऽर्थपतिसेवाभियुक्तस्तस्योदारके वैरमभ्यवर्धयत् । अर्थ- लुब्धश्च कुबेरदत्तो निवृत्त्यार्थपतेर्धनमित्रायैव तनयां सानुनयं प्रादित्सत । प्रत्यबध्नाच्चार्थपतिः । ( ३६ ) एष्वेव दिवसेषु काममञ्जर्याः स्वसा यवीयसी रागमञ्जरी नाम पञ्चवीरगोष्ठे संगीतकमनुष्ठास्यतीति सान्द्रादरः समागमन्नागरजनः । स चाहं सह सख्या धनमित्रेण तत्र संन्यधिषि । प्रवृत्तनृत्यायां च तस्यां द्वितीयं रङ्गपीठं ममाभून्मनः । तद्दृष्टिविभ्रमोत्पलवनसञ्चापाश्रयश्च पञ्च- ज्ञया । विमर्दकः एतन्नामकः कश्चित् । अर्थपतीति-अर्थपतेः सेवायामाराधनेऽ- भियुक्तः संलग्नः । तस्य अर्थपतेः । उदारके धनमित्रे । वैरं द्वेषम् । अभ्यवर्धयत् वर्धयामास । निवृत्त्य परावृत्य । अर्थपतेः । सकाशात् । प्रादित्सत-प्रदातुमैच्छत् । प्रत्यबध्नात् प्रतिबन्धं विरोधमिति यावत् चकार । ( ३९ ) स्वसा भगिनी । यवीयसी कनिष्ठा । पञ्चवीरगोष्ठे जनपदसभायाम् 'तत्पञ्चवीरगोष्ठं तु यत्तु जानपदं सद' इति कोषसारः । सङ्गीतकं गानादि । यदाह- 'गीतं वाद्यं च नृत्यञ्च त्रिभिः सङ्गीतमुच्यते ।' इति अनुष्ठास्यति विधास्यति । सा- न्द्रादरः-तद्गानश्रवणे गाढस्पृहः । समागमत्-सम्मिलितोऽभवत् । अहम् । अप- हारवर्मेत्यर्थः । संन्यधिषि सन्निहितोऽभवम् । सन्नित्पूर्वकाद्धाधातोर्लुङि आत्म- नेपदस्योत्तमपुरुषैकवचने रूपम् । प्रवृत्तनृत्यायां प्रारब्धनर्तनायाम् । तस्यां रागम- ञ्जर्याम् । रङ्गपीठं नृत्यस्थानम् । निरन्तरस्मर्यमाणतया मन्मानसे नृत्यमकरोदिति भावः । तद्दृष्टीति-तस्या रागमञ्जर्या दृष्टिविभ्रमः कटाक्ष एवोत्पलवनं नीलकमल- माला तदेव सदुत्तमं चापं धनुराश्रयो यस्य तादृशः । पञ्चशरः कामः । भावरसानां आवानां प्राधान्येनाङ्गितव्यभिचारिणां निर्वेदादीनां रसानां शृङ्गारादीनाञ्च । कर दिये । उसी दिन मेरी प्रेरणानुसार विमर्दकने अर्थपतिके यहां नौकरी कर ली और धनमित्रमें बैर बढ़ाने लगा । ऐसा करनेसे लोभी कुबेरदत्तका मन अर्थपतिकी ओरसे फिर गया और उसने धनमित्रको ही अपनी कन्या प्रदान की । अर्थपतिने भी इस कार्यमें सभी सम्भव विघ्न डाले । ( ३९ ) इन्हीं दिनों काममञ्जरीकी छोटी बहिन रागमञ्जरीका नागरिक समामें नाच- गाना होनेवाला है, यह सुनकर बड़े आदरके साथ बहुतेरे नागरिक एकत्र हुए । मैं भी अपने मित्र धनमित्रके साथ वहां जा पहुँचा । जब वह गणिका नाचने लगी तब मेरा मन १२ द० कृ० उ० Nepal Sanskrit University, Balmeeki Campus, Kathmandu

१७२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां

१७२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां शरो भावरसानां सामग्र्यात्समुदितबल इव मामतिमात्रमव्यथयत् । (४०) अथासौ नगरदेवतेव नगरमोषरोषिता लीलाकटाक्षमाला- शृङ्खलाभिर्नीलोत्पलपलाशश्यामलाभिर्मामबध्नात् । नृत्योत्थिता च सा सिद्धिलाभशोभिनी-'किं विलासात्, किमभिलाषात्, किमकस्मादेव वा, न जाने, — असकृन्मां सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रमा- रेचितभ्रूलतमभिवीक्ष्य, सापदेशं च किंचिदाविष्कृतदशनचन्द्रिकं स्मित्वा, लोकलोचनमानसानुयाता प्रातिष्ठत । सामग्र्यात् सम्पूर्णतया । समुदितबलः प्राप्तसामर्थ्यः । अतिमात्रं गाढम् अव्य- थयत् अपीडयत् । (४०) अथ कामपीडनानन्तरम् । असौ रागमञ्जरी । लीलेति-लीलया विलासेन याः कटाक्षमालाः दृष्टिपंक्तयस्ता एव शृङ्खला बन्धनानि साधनानि ता- भिः। नीलोत्पलेति-नीलोत्पलानां यानि पलाशानि पत्राणि तद्वत् श्यामलाभिः कृष्णवर्णाभिः । शृङ्खला विशेषणमेतत् । अबध्नात् बबन्ध । नृत्योत्थिता नर्तना- द्विरता । सिद्धिलाभशोभिनी-मनोरथप्राप्तिशालिनी । सिद्धमनोरथेति यावत् । विलासाद् विभ्रमात् । अभिलाषात् स्वेच्छया । अकस्मात् विना कारणमित्यर्थः । असकृत् वारं वारम् । मामिति अभिवीक्ष्येत्यस्य कर्म । अनुपलक्षितेन अनवलो- कितेन । गुप्तरूपेणेति भावः । अपाङ्ग प्रेक्षितेन-कटाक्षावलोकनेन । सविभ्रमेति- सविभ्रमं सविलासं यथा तथा आरेचिते वक्रीकृते भ्रूलते भ्रूद्वयं यस्मिंस्तत्तथा तथा । अभिवीक्ष्य दृष्ट्वा । सापदेशं सकपटम् । किञ्चिदिति-किञ्चिदीषत्-आविष्कृता प्रकटिता दशनचन्द्रिका दन्तप्रभा यत्र तद्यथा तथा । स्मित्वा ईषद्विहस्य । लोके- ति-लोकानां जनानां लोचनैर्नेत्रैः मानसैश्चित्तैश्च अनुयाता अनुसृता । जनानां दूसरी रङ्गभूमि बन गया। उसकी सैनके कमलवनका निवासी कामदेव सभी भावों और सभी रसोंसे सम्पन्न एवं बलवान बनकर बहुत बुरी तरह सताने लगा । (४०) तदनन्तर नगरमें चोरीके करनेके कारण रोषिता नगरदेवीके सदृश उस सुन्दरी काममंजरीने अपने नीले कमलके पत्रोंके तुल्य आभावाले विलासी श्यामल कटाक्षोंकी श्रृंखला-(सीकड़ी-) से मुझे बद्ध कर लिया तथा नृत्यसे विरत होकर वह मनोरथप्राप्ति- शालिनी रागमञ्जरी अपने विलाससे या अभिलाषसे वा अकस्मात् (बिना कारण ही) न मालूम क्यों सखियोंसे भी छिपाकर अपने अपांगोंसे मुझे बार-बार देखती हुई एवं विलासके व्याजसे अपनी भौंहोंको तरेरती हुई और गुप्तरीत्या (कपटसे) अपनी दन्तप्रभा दिखाती हुई-मुस्कुराती हुई-जनोंके नेत्रों और चित्तोंको अपने साथ लेती हुई घरको चली गयी ।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७३

( ४१ ) सोऽहं स्वगृहमेत्य दुर्निवारयोत्कण्ठया दूरीकृताहारस्पृहः शिरःशूलस्पर्शनमपदिशन्विविक्ते तल्पे मुक्तैरवयवैरशयिषि । अतिनि- ष्णाताश्च मदनतन्त्रे मामभ्युपेत्य धनमित्रो रहस्यकथयत्—'सखे, सैव धन्या गणिकादारिका, यामेवं भवन्मनोऽभिनिविशते । तस्याश्च मया सु- लक्षिता भाववृत्तिः । तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति । स्थानाभिनिवेशिनोश्च वामयत्नसाध्यः समागमः । किन्तु सा किल वार- कन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत—'गुण-

नेत्राणि तामेव अनुसरन्तिस्म मानसानि प्रस्थानानन्तरमपि तामेव ध्यायन्तिस्मेति भावः । प्रातिष्ठत-गृहं प्रति प्रतस्थे । ( ४१ ) दुर्निवारया निवारयितुमशक्यया । दूरीकृताहारस्पृहः-परित्यक्तभो- जनाभिलाषः । शिरःशूलेति-शिरःशूलं शिरोवेदना रोगविशेषस्तस्य स्पर्शन- मनुभवं अपदिशन् ख्यापयन् । तद्व्याजेनेत्यर्थः । विविक्ते विजने तल्पे शय्या- याम् । मुक्तैः प्रसारितैरवयवैरङ्गैः । अशयिषि शयितोऽभवम् । अतिनिष्णाततः अतिपटुः । मदनतन्त्रे कामशास्त्रे । रहसि निर्जने । गणिकाद्वारिका-वेश्याकन्या । एवं-अनेन प्रकारेण । भवन्मनः त्वच्चित्तम् । अभिनिविशते आकांक्षति । सुलक्षिता दृष्टा । भाववृत्तिः अनुरागावेशः । अयुग्मशर. कामः । शरशयने शरशय्यायाम् । शाययिष्यति णिजन्तमेतत् । स्थानाभिनिवेशिनोः युक्ताभिलाषवतोः । वां युवयोः । अयत्नसाध्यः अनायाससाध्यः । समागमः सम्मेलनम् । किंतु इत्यनेन किञ्चिद्वै- शिष्ट्यं सूचितम् । तदेवाह-गणिकेति-गणिकायाः वेश्यायाः यः शुल्कग्रहणरूपः स्वधर्मस्तस्मात् प्रतीपगामिना विरुद्धेन । भद्रोदारेण-भद्रः कल्याणजनक उदारो महांश्च तेन । आशयेन अभिप्रायेण । समगिरत-प्रतिज्ञातवती । गुणः शुल्कं मुख्यं

( ४१) मैं भी अपने गृहमें आकर, उस रागमञ्जरीकी उत्कण्ठाको निवारण करनेमें असमर्थ हो ( उसीसे ) भोजनादिकी इच्छासे रहित होकर शिरोवेदना के बहानेसे एकान्तमें जा करके, हाथ पैर फैला करके शय्यापर सो गया ।' अतिपटु धनमित्रने, मुझे कामशास्त्रमें ( कामजालमें ) फंसे हुए ( डूबे हुए ) समझकर एकान्तमें, आकर कहा—'हे मित्र ! वह वेश्याकी कन्या धन्य हैं, जो तुम्हारे चित्तमें आ बसी है । जिसके अनुरागविशेषको मैंने देख लिया है । कामदेव अपनी बाणशय्यापर, उसे भी शीघ्र सुलायेगा । युक्ताभिलाषियोंका ( पारस्परिक प्रेमियोंका ) सम्मेलन अनायाससाध्य ( सुख-साध्य ) होता है । परन्तु, उस वेश्याकन्याने अपने वेश्याधर्मसे विरुद्ध कल्याणजनक उदार आशयवाली प्रतिज्ञा की है।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

१७४ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF १७४ दशकुमारचरितम् । [ उत्तरपीठिकायां शुल्काहम्, न धनशुल्का । न च पाणिग्रहणादृतेऽन्यभोग्यं यौवनम्' इति । (४२) तच्च मुहुः प्रतिषिध्याकृतार्था तद्भगिनी काममञ्जरी माता च माधवसेना राजानमश्रुकण्ठ्यौ व्यजिज्ञपताम्—'देव, युष्मद्दासी राग- मञ्जरी रूपानुरूपशीलशिल्पकौशला पूरयिष्यति मनोरथानित्यासीदस्मा- कमतिमहत्याशा साय मूलच्छिन्ना । यदियमतिक्रम्य स्वकुलधर्ममर्थनिर- पेक्षा गुणेभ्य एव स्वं यौवनं विचिक्रीपते । कुलस्त्रीवृत्तमेवाच्युतमनुतिष्ठा- सति । सा चेदियं देवपादाज्ञयापि तावत्प्रकृतिमापद्येत तदा पेशलं भवेत्' इति । यस्याः सा । पाणिग्रहणात् विवाहात् । ऋते विना । अन्यभोग्यं अन्येन गुणवन्त- मन्तरा अपरेण भोग्यमुपभोग्यम् । (४२) तच्च-तादृशीं प्रतिज्ञां च । प्रतिषिध्य-निषिध्य । अकृतार्था-असिद्ध- मनोरथा । अश्रुकण्ठ्यौ रुदन्त्यौ । रूपेति-रूपस्य सौन्दर्यस्यानुरूपं तुल्यं शीलं स्वभावः शिल्पकौशलं कलानैपुण्यञ्च यस्याः सा । सा आशा । मूलच्छिन्ना- समूलं विनष्टा । यद् यतः । इयं रागमञ्जरी । स्वकुलधर्म गणिकावंशधर्मं धनग्र- हणादिरूपम् । अर्थनिरपेक्षा-धनाभिलाषशून्या । यौवनं तारुण्यम् । विचिक्री- पते-विक्रेतुमिच्छति कुलस्त्रीवृत्तं-कुलांगनाचरणम् । अच्युतं अविच्छिन्नम् । अनु- तिष्ठासति अनुष्ठातुमाचरितुमिच्छति । देवपादाज्ञया-भवदनुशासनेन । प्रकृतिं स्वस्थताम् । पेशलं-क्षमम् । 'मैं गुणशुल्का हूँ' 'धनशुल्का' नहीं हूँ—मेरा मूल्य गुण होगा, धनपर न विकूंगी और (मेरे) साथ बिना विवाह किये हुए कोई मेरे यौवनका उपभोग नहीं कर सकता है। (४२) उसकी ऐसी प्रतिज्ञापर उसकी बहिन काममञ्जरी और उसकी माता माधवसेनाने उसे (रागमञ्जरीको) बार-बार समझानेपर असिद्धमनोरथ होकर रोते हुए राजाको सूचना दी। 'हे देव ! आपकी दासी रागमञ्जरीने सौन्दर्यके अनुरूप स्वभाव, कलानिपुणता पायी है। जिससे हम लोगोंको यह आशा थी, कि, यह हम लोगोंके मनोरथोंको पूरा करेगी, किन्तु, आज वह आशा समूल विनष्ट हो गयी। क्योंकि, यह रागमञ्जरी अपने धर्मको (धनग्रहण करना आदि गणिकाओंके धर्मको) छोड़कर धनकी अभिलाषासे शून्य होकर गुणियोंको अपना तारुण्य बेचनेकी इच्छा करती है। कुलाङ्गनाओंके आचरणोंको ही अविच्छिन्नरूपसे धारण करना चाहती है। यदि रागमञ्जरी आपके आदेशसे भी अपनी (स्वस्थता-वृत्तित्व) का आचरण करे तो, बड़ा कल्याण हो'। Nepal Sanskrit University, Balmeeki Campus, Kathmandu