दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 161, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६३ तत्प्रायस्त्वत्पूर्वावदानेभ्यो न रोचते । दृष्टमिदानीमौदार्यस्य स्वरूपमिति त्वदाशयमननुमान्य न युक्तो निश्चयः । त्वयामुना सुकृतेन क्रीतोऽयं दा- सजन इत्यसारमतिगरीयसा क्रीणासीति स ते प्रज्ञाधिक्षेपः । प्रियादानस्य प्रतिदानमिदं शरीरमिति तदलाभे निधनोन्मुखमिदमपि त्वयैव दत्तम् । अथवैतावदत्र प्राप्तंरूपम् । अद्यप्रभृति भर्त्तव्योऽयं दासजनः' इति मम पाद्योरपतत् । (३३) उत्थाप्य चैनमुरसोपश्लिष्याभाषिषि - 'भद्र, काद्य ते प्रति र्वावदानेभ्यः पूर्वकृतमहाकर्मभ्यो न रोचते स्वदत्ते । पूर्वमपि भवता ईदृशानि कर्माणि न कृतानीत्यपि वक्तुं नाभिलषामीति अवदानं कर्मवृत्तमिति कोषः । औदार्यस्य उदारतायाः स्वरूपमिदानीं दृष्टमित्यपि वक्तुं न जाने यत- स्तवदाशयं भवदभिप्रायम् अननुमान्य सम्यगविदित्वा निश्चयो निर्णयो न युक्त उचितः । सुकृतेन सुकर्मणा । दासजनः सेवकः । क्रीतः स्वाधीनीकृतः इत्यपि वक्तुं न जाने यतोऽति गरीयसा अतिमहता वस्तुनेति शेषः असारं निकृष्टं वस्त्वि- तिशेषः क्रीणासीति यत्तदपि ते प्रज्ञाधिक्षेपः बुद्धेर्निन्दा । न कोऽपि सचेता उत्कृ- ष्टेन वस्तुना निकृष्टं क्रीणातीति भावः । प्रतिदानं प्रतिरूपदानम् इदं मम शरीर- मित्यपि वक्तु न पारयामि यतः तदलाभे प्रियाया अप्राप्तौ निधनोन्मुखं मरणाद्यो- द्यतमिदं शरीरं भवतैव मह्यं दत्तमत्तः कथमेतत्प्रतिदानं भवितुमर्हति । मच्छरीरं भवदीयमेवेति भावः, एतावत्-इति कथनमेवात्र प्राप्तंरूपं युक्तियुक्तम् । भर्त्तव्यः पालनीयः । इति-इति कथयित्वा । (३३) उत्थाप्य पादपतनादिति शेषः । एनं धनमित्रम् । उरसा वक्षसा । दुर्गुण नहीं हैं। तुमने आज जिस सज्जनताका परिचय दिया है, उससे तुम्हारे पूर्वकृत्य (चोरी आदि) का मेल नहीं खाता । इस समय तो, मैंने तुममें उदारताका प्रत्यक्ष स्वरूप देख लिया है। तुम्हारा अभिप्राय समझे बिना कोई निश्चय कर लेना उचित न होगा। 'तुमने अपने सुकृतसे इस दासको मोल ले लिया है' यदि यह कहूँ तो तुम्हारी बुद्धिकी निन्दा होगी। तुमने मुझे जो मेरी प्रियतमा दी है, उसके बदलेमें मेरा यह शरीर अर्पित है। यदि यह न मिली होती तो, यह शरीर भी न रह जाता। अत एव शरीर भी तुम्हींने दिया है। अस्तु, यह बहुत ही अच्छा हुआ । आजसे आप अपने इस दास पर दया रखियेगा।' यों कहकर वह मेरे पैरोंपर गिर पड़ा। (३३) तब मैंने उसे उठाकर छातीसे लगा लिया और कहा - 'भद्र ! भव तुम Nepal Sanskrit University, Balmeeki Campus, Kathmandu