दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 160, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF १६२ दशकुमारचरितम् । [ उत्तरपीठिकायां लब्ध्य कृपया त्वत्समीपमनैषम् । भूषणमिदमस्याः' इत्यंशुपटलपाटितध्वा- न्तजालं तदप्यर्पितवान् । उदारकस्तु तदादाय सलज्जं च सहर्षं च ससं- भ्रमं च मामभाषत—'आर्य, त्वयैवेयमस्यां निशि प्रिया मे दत्ता । वा- क्पुनर्ममापहृता । तथा हि न जाने वक्तुं त्वत्कर्मैतदद्भुतमिति । ननु ते शीलमद्भुतवत्प्रतिभाति । नैवमन्येनापि कृतपूर्वमिति प्रतिनियतैव वस्तुशक्तिः । न हि त्वय्यन्यदीया लोभादयः । त्वयाद्य साधुतोन्मीलितेति शितं ध्वान्तजालमन्धकारसमूहो येन तत् । तदपि-भूषणमपि । तदादाय-भूषणं गृहीत्वा । सलज्जं सव्रीडम् । सहर्षं सानन्दम् । ससम्भ्रमं साश्चर्यम् । सलज्ज- मित्यत्र स्वरहस्यज्ञानं लज्जायाः, सहर्षमित्यत्र अद्भुतोपायेन प्रियाप्राप्तिर्हर्षस्य ससम्भ्रममित्यत्र च तस्करस्यालौकिककर्मदर्शनं सम्भ्रमस्य कारणम् । एतानि च अभाषतेति क्रियाविशेषणानि । मे मह्यम् । अपहृता गृहीता । अत्र प्रियाविनिमयेन वागपहरणात् परिवृत्तिरलंकारः । परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथ इति लक्ष- णात् । मम वचनसामर्थ्यं नास्ति इति यदुक्तं तदेव विशदयति-तथाहीत्यादिना । एतत्त्वत् कर्म-प्रियादानरूपमद्भुतमाश्चर्यजनकमिति वक्तुं न जाने वचनसामर्थ्यं मम नास्ति । तादृशशक्तेरभावात् । न जाने इत्यनेनानन्तरोक्तानां सर्वेषामित्यन्त- वाक्यानामन्वयः । ते तव स्वशीलं स्वभावः चोरस्यापि भूषादिसमर्पणरूपः अद्भुतमिव प्रतिभाति । एवमीदृशं कर्म अन्येनापि भवद्व्यतिरिक्तेनापि न कृत- पूर्वं पूर्वं नाचरितमित्यपि वक्तुं न जाने यतो वस्तुशक्तिः पदार्थस्वभावः प्रतिनियता तत्तद्व्यक्तिनिष्ठैव । एकस्य शक्तिरेकत्रैव तिष्ठति नान्यत्रात एता- दृशं कर्म पूर्वमन्येन न कृतमिति वचनस्यावसरोऽपि नास्तीति भावः । अन्यदीया अन्यपुरुषसाधारणाः लोभादयस्त्वयि न सन्ति नोपलभ्यन्ते । अद्य साम्प्रतं साधुता सज्जनता उन्मीलिता प्रकटीकृतेति यत्तत् प्रायो बाहुल्येन त्वत्पू- बनकर, मार्गमें मिली हुई, इस कन्याको तुम्हारे समीप ले आया हूँ। ये इसके गहने हैं।' ऐसा कहकर अपनी दीप्तिसे अन्धकार राशिको नष्ट करते हुए उन आभूषणोंको उसे दे दिया । उसे लेकर उदारकने लज्जा, हर्ष और घबड़ाहटभरी वाणीमें कहा—'आर्य ! तुम्हींने इस रातके समय मेरी प्रियाको मेरे पास पहुँचाया है। तुमने अपने कार्यसे मेरी जबान ही बन्द कर दी है। कुछ सूझता ही नहीं कि, क्या कहकर मैं तुम्हारे इस अद्भुत कार्यकी सराहना करूँ । निःसन्देह तुम्हारा स्वभाव विचित्र है । यह तो निश्चित ही है कि, किसी चोरने कभी ऐसा नहीं किया है। और लोगोंके समान तुम्हारेमें लोभ आदि Nepal Sanskrit University, Balmeeki Campus, Kathmandu