दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 166, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF १६८ दशकुमारचरितम् । [ उत्तरपीठिकायां ( ३६ ) मयोक्तम्—'अवज्ञासोदर्यं दारिद्र्यम्' इति । स पुनरेवं कृपा- लुरन्वग्रहीत्—'तात, मूढोऽसि । नान्यत्पापिष्ठतमात्मत्यागात् । आत्मा- नमात्मनानवसाद्यैवोद्धरन्ति सन्तः । सन्त्युपाया धनार्जनस्य बहवः नैको- ऽपि च्छिन्नकण्ठप्रतिसन्धानपूर्वस्य प्राणलाभस्य । किमनेन । सोऽस्म्यहं मन्त्रसिद्धः । साधितेयं लक्षग्राहिणी चर्मरत्नभस्त्रिका । चिरमहमस्याः प्रसादात्कामरूपेषु कामप्रदः प्रजानामवात्सम् । मत्सरिण्यां जरसि भूमि- ( ३६ ) अवज्ञेति—अवज्ञा अवहेलना सोदर्या सहोदरा यस्य तत् । अव- ज्ञायाः सोदर्यं बन्धुभूतमिति वा । अनादरसहितमित्यर्थः ईदृशं दारिद्र्यमेव मम साहसस्य मूलमिति प्रश्नोत्तरम् । स-जटाधरः । अन्वग्रहीत्—अनुगृहीतवान् मा- मिति शेषः । तात-वत्स । नान्यदिति-आत्मत्यागाद् आत्महत्यातः अन्यदपरं पापिष्ठतमं पापवत्तरमतिपातकं नास्तीत्यर्थः । आत्मानमिति-सन्तः साधवः आ- त्मना स्वयमात्मानमनवसाद्य अविनाश्य आत्मानमुद्धरन्ति मुक्तिं लभन्ते । छिन्नकण्ठेति-छिन्नः कर्त्तितो यः कण्ठः तस्य प्रतिसंधानं पुनः संयोगस्तदेव पूर्वं यस्य तथाभूतस्य । प्राणलाभस्य जीवनप्राप्तेः । धनार्जनस्य बहव उपायाः सन्ति किन्तु प्राणलाभस्यैकोऽप्युपायो नास्तीत्यर्थः । अनेन प्राणत्यागेन । साधिता सम्पादिता लब्धेति यावत् । लक्षं ग्राहयतीति लक्षग्राहिणी-लक्षमुद्राप्रसविनी । चिरं दीर्घकालं यावत् । अस्याः चर्मरत्नभस्त्रिकायाः । कामरूपेषु तदाख्यप्रदेशे । कामप्रदः अभीष्टदाता प्रजानामिति शेषः । अवात्सं वसतिमकरवम् । मत्सरि- ण्यां विद्वेषिण्याम् । जरसि-जरायां वार्द्धके इति यावत् । मयि जराग्रस्ते सती- ( ३६ ) मैंने कहा-'अवज्ञा और दरिद्रता ही मेरे दुःसाहसका कारण है।' उस दयालुने मेरेपर अनुग्रह करके कहा—'हे तात ! तुम बड़े नासमझ हो । आत्महत्यासे बढ़कर और कोई पाप नहीं हो सकता । भले लोग अपनी आत्माको कुछ कष्ट दिये बिना ही अपना निस्तार कर लिया करते हैं । धन अर्जन करनेके बहुतेरे उपाय हैं । लेकिन कटे हुए गलेको जोड़नेका एक भी उपाय नहीं है । सो, ऐसा करनेकी क्या आवश्यकता । मैं एक मन्त्रसिद्ध- पुरुष हूं । मैंने लाखोंकी सम्पत्ति प्रदान करनेवाली यह चर्मरत्नभस्त्रिका साध ली हैं । इसकी कृपासे कामरूप देशमें सब लोगोंकी कामनाए पूर्ण करता हुआ बहुत समयतक रहा हूँ । मत्सर ( ईर्ष्या ) उत्पन्न करनेवाली वृद्धावस्थामें इस भूमिको स्वर्ग समझकर मैं घूमता- फिरता आ निकला । सो, आप इसे स्वीकार करें । यह बात नहीं है कि, यह (चर्मभस्त्रिका) हमारी ही कामना पूर्ण करती हो, बल्कि, यह तो वैश्यों और वेश्याओंकी भी इच्छा पूर्ण Nepal Sanskrit University, Balmeeki Campus, Kathmandu