दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 165, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६७
वधिकमकल्पयत् । उपह्वरे पुनरित्थमशिक्षयं धनमित्रम्—'उपतिष्ठ सखे, एकान्त एव चर्मरत्नभस्त्रिकामिमां पुरस्कृत्याङ्गराजम् । आचक्ष्व च जाना- त्येव देवो नैककोटिसारस्य वसुमित्रस्य मां धनमित्रं नामैकपुत्रम् । सोऽहं मूलहरत्वमेत्यार्थिवर्गादस्म्यवज्ञातः । मदर्थमेव संवर्धितायां कुलपालि- कायां महद्दारिद्र्यदोषात्पुनः कुबेरदत्तेन दुहितर्यर्थपतये दित्सितायामुद्वेगा- दुज्झितुम सूनुपनगरभवं जरद्वनमवगाह्य कण्ठन्यस्तशस्त्रिकः केनापि जटा- धरेण निवार्यैवमुक्तः—'किं ते साहसस्य मूलम्' इति ।
पितरम् । आश्वास्य सान्त्वयित्वा । कुलपालिका कुबेरदत्तकन्या तस्या विवाह- स्तम् । मासावधिकं-मासोऽवधिर्यस्य तम् । एकमासाभ्यन्तरे कदापि भविष्यतीति अकल्पयत्-निरधारयत् । उपह्वरे एकान्ते । इति-वक्ष्यमाणम् । अशिक्षयं शिक्षि- तवानस्मि । उपतिष्ठ-भजस्व । चर्मेति-चर्मणा निर्मिता रत्नभस्त्रिका रत्नप्रसविनी भस्त्रा ताम् अथवा चर्मरत्नेन उत्तमचर्मणा निर्मिता भस्त्रिका ताम् । पुरस्कृत्य अग्रे धृत्वा । अङ्गराजं अङ्गदेशाधिपतिम् । आचक्ष्व-ब्रूहि । देवो-भवान् । नैकको- टिसारस्य अनेककोटिद्रव्यवतः, महाधनिकस्येत्यर्थः । मूलहरत्वं लुप्तमूलधनत्वम्- दारिद्र्यमित्यर्थः । एत्य-प्राप्य-अर्थिवर्गादितिशेषः । अवज्ञातः निःस्वतया तिर- स्कृतः मदर्थं सन्निमित्तम् । संवर्धितायां पालितायाम् । कुलपालिकां कन्याम् । दुहि- तरि-कन्यायाम् । दित्सितायां दातुमिष्टायाम् । उद्वेगात् शोकात् । उज्झितुं त्यक्तुम् । असून् प्राणान् । उपनगरभवं नगरसन्निकटस्थम् । जरद्वनं जीर्णारण्यम् । लोकप्रचाररहितमिति यावत् । अवगाह्य प्रविश्य । कण्ठेति-कण्ठे गलदेशे न्यस्ता निहिता शस्त्रिका छुरिका येन सः । केनापि-अज्ञातनाम्ना । निवार्य निषिध्य । साहसस्य एतादृशोद्योगस्य । मूलं निदानम् ।
( कन्या- ) के साथ उसका विवाह निश्चित हो गया । इसके बाद एकान्तमें मैंने धनमित्रको यह शिक्षा दी-मित्र ! तुम यह उत्तम चर्मकी बनी भाथी लेकर अङ्गराजसे मिलो । उनसे कहना कि, आप यह जानते ही होंगे कि, मैं अनेक करोड़ धनके अधिपति व सुमित्रका एक पुत्र धनमित्र हूँ । अब मेरी सब पूँजी समाप्त हो गयी है, इसलिए भिखारी लोग भी मेरा तिरस्कार करते हैं । यद्यपि कुबेरदत्तने मुझे अर्पण करनेके लिए ही अपनी कन्याका पालन किया था, किन्तु, मेरी दरिद्रताके कारण वह उसे अर्थपतिको देना चाहता है । यह समाचार सुनकर मुझे इतना सन्ताप हुआ कि, मैं नगरके समीप ही सुनसान जङ्गलमें चला गया और अपने गलेपर तलवार चलानी चाही, इसी समय एक जटाधारी सन्तने मुझे रोककर कहा—'तुम ऐसा दुःसाहस किस लिए कर रहे हो ?'
Nepal Sanskrit University, Balmeeki Campus, Kathmandu