दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 191, कुल 474 में से
संदर्भ में पढ़ेंद्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १५३ थाश्चित्राश्चित्तहारिणीः कथयन्ती तस्याः परं प्रसादपात्रमासम् । एकदा च हर्म्यगतायास्तस्याः स्थानस्थितमपि कर्णकुवलयं स्रस्तमिति समा- दधती प्रमत्तेव प्रच्याव्य पुनरुत्क्षिप्य भूमेस्तेनोपकन्यापुरं कारणेन केनापि भवनाङ्गणं प्रविष्टस्य कान्तकस्योपरि प्रवृत्तकुहरपारावतत्रासनाप- देशात्प्रहसन्ती प्राहार्षम् । ( ५६ ) सोऽपि तेन धन्यंमन्यः किंचिदुन्मुखः स्मयमानो मत्कर्म- प्रहासिताया राजदुहितुर्विलासप्रायमाकारमात्माभिलाषमूलमिव यथा संक- ल्पयेत्तथा मयापि संज्ञयैव किमपि चतुरमाचेष्टितम् । आकृष्टधन्वना च ग्राह्यमि'त्यमरः । चित्रा नानाविधाः । चित्तहारिणीः मनोहारिणीः । परमत्यर्थम् । हर्म्यगतायाः प्रासादस्थितायाः । तस्या अम्बालिकायाः । स्थानस्थितं स्वस्थान- स्थितम् । कर्णकुवलयं कर्णोत्पलम् । स्रस्तं भ्रष्टम् । समादधती संयोजयन्ती । प्रमत्तेव-अनवहितेव । प्रच्याव्य कर्णात् अंशयित्वा । उत्क्षिप्य-उत्थाप्य । भूमे- र्भूतलात् । तेन-कर्णकुवलयेन । उपकन्यापुरं कन्यान्तःपुरसमीपे । केनापि- अज्ञातेनेत्यर्थः । कान्तकस्य-प्रागुक्तकाराध्यक्षस्य । प्रवृत्तेति-प्रवृत्तकुहरस्य प्रार- ब्धसुरतस्य पारावतस्य कपोतस्य त्रासनापदेशात् भयप्रदर्शनच्छलात् । प्राहार्षं प्रहारं कृतवती । ( ५९ ) सोऽपि-कान्तकोऽपि । तेन कर्णोत्पलप्रहारेण । किञ्चिदुन्मुखः ईषदूर्ध्वमुखः । स्मयमानः ईषद्धसन् । मत्कर्मप्रहासितायाः-मम कर्मणा तत्प्रहार- रूपेणाचरणेन प्रहासिताया हास्यं गमितायाः । विलासप्रायं कटाक्षादिबहुलम् । आकारं स्वरूपम् । आत्मेति-आत्मनि स्वस्मिन् योऽभिलाषः आकांझा स एव मूलं निदानं यस्य तम् । संकल्पयेत् चिन्तयेत् । मयापि शृगालिकयापि । संज्ञया इङ्गितेन । एक दिन प्रासादके ऊपर स्थित अम्बालिका कुमारीका कर्णफूल अपने स्थानपर रहनेपर भी गिरनेवाला है ऐसा कहती हुई मैंने असावधानता करके ( पागलके सदृश ) गिरा दिया । पुनः पृथिवीसे उठा करके किसी बहानेसे कन्याके अन्तःपुरके भवनके आँगनमें प्रवेश करने- वाले कान्तकके ( जो कारागाराध्यक्ष था ) ऊपर, सुरतक्रीड़ामें प्रवृत्त हुए पारावतों (कबूतरों) को भय दर्शानेके छलसे, फेंककर मार दिया । ( ५९ ) वह कान्तक भी उस कर्णोत्पलके प्रहारसे कृतकृत्य होता हुआ मुस्करा करके कुछ ऊर्ध्वमुख हो करके ( देखने लगा ) । मेरी कर्मक्रियाओंसे हास्य करनेवाली राजकुमारी ( अम्बालिका ) के विलासमय रूपको उस कान्तकने अपने लिए समझ लिया और चिन्तित