दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 193, कुल 474 में से
संदर्भ में पढ़ेंमुखताम्बूलोच्छिष्टानुलेपनं निर्माल्यं मलिनांशुकं चान्येद्युरुपाहरम्। तदी- यानि च राजकन्यार्थमित्युपादाय च्छन्नमेवापोढानि । इत्थं च संधुक्षित- तमन्मथाग्निः स एवैकान्ते मयोपमन्त्रितोऽभूत्—‘आर्य, लक्षणान्येव तवाविसंवादीनि । तथा हि मत्प्रातिवेश्यः कश्चित्कार्त्तिकः ‘कान्तक- स्य हस्ते राज्यमिदं पतिष्यति, तादृशानि तस्य लक्षणानि’ इत्यादिक्षत् । ( ६१ ) तदनुरूपमेव च त्वामियं राजकन्या कामयते । तदेकाप- त्यंश्च राजा तया त्वां समागतमुपलभ्य कुपितोऽपि दुहितुर्मरणभयान्नो-
त्तीकृतः । तत्प्रार्थिता-तेन कान्तकेन याचिता। त्वत्प्रियेति-तव वल्लभया प्रेरित- मित्युकत्वा। मुखताम्बूलं चर्वितवावशिष्टाम्बूलं, उच्छिष्टानुलेपनमुपभुक्तावशि- ष्टाङ्गरागम्। निर्माल्यं भुक्तावशिष्टपुष्पम्। मलिनांशुकं परिहितवस्त्रम् । अन्येद्यु- रपरदिवसे । उपाहरम् उपहृतवती तस्मै दत्तवतीत्यर्थः । तदीयानि कान्तकसम्ब- न्धीनि राजकन्यार्थं राजकन्यायाः कृते नयामीति कथयित्वेत्यर्थः । छन्नमेव गुप्तमेव । अपोढानि त्यक्तानि मयेति शेषः। इत्थमनेन प्रकारेण । संधुक्षितम- न्मथाग्निः । प्रज्वलितमदनानकः । स कान्तकः । उपमन्त्रितः उपदिष्टः । लक्षणानि हस्तपदादिचिह्नानि । अविसंवादीनि अविरुद्धानि शोभनानीति यावत् । प्राति- वेश्यः-प्रतिवेशी । कार्त्तिकः सामुद्रिकः । आदिक्षत् अकथयत् । ( ६१ ) तदनुरूपं कार्त्तिकोदेशानुकूलम् । तदेकापत्यः सा कन्यैव एक- मद्वितीयमपत्यं यस्य सः । तथा राजकन्यया । समागतं सम्मिलितम् । उपलभ्य- ज्ञात्वा। नोच्छेत्स्यति तव प्राणांश्च नाशयिष्यतीत्यर्थः । प्रत्युत वैपरीत्येन । अय-
यह चर्वित पान, उपभुक्त किया हुआ लेपन जो देह में लगाया जाता है कार्यमें उपभोग किये हुए पुष्प और काम में लाये हुए कपड़े दिये हैं। जिन्हें मैं ही अपने पाससे ले गयी थी। उस कान्तकके द्वारा प्रदत्त उपहार राजकन्याके लिये ला गुप्त रीतिसे छिपाकर फेंक दिया । इस रीतिसे उसकी कामाग्नि प्रज्वलित करके उस कान्तकसे ही एकान्तमें एक दिन मैंने उपदेश दिया । 'हे आर्य ! (राजकन्याके) पद-हस्त आदिके चिह्न आपके अनुकूल हैं। क्योंकि, मेरे सन्निकटमें रहनेवाले एक सामुद्रिकने यह कहा था (आपके विषयमें) कि 'यह राज्य कान्तकको मिलेगा, क्योंकि, उसको ऐसी रेखाएं पड़ी हैं।' (६१) सामुद्रिकके कथनानुसार यह राजकन्या आपको चाहती है। राजाको एक ही सन्तान है अत एव उसके साथ समागमकी वार्ता जानने पर भी यदि राजा क्रोधित भी हुए तो आपको मारेंगे नहीं। क्योंकि, आपके मरणसे कन्यामरण हो