दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 203, कुल 474 में से
संदर्भ में पढ़ेंकान्तकः, तत्तया प्रतिभिद्य रहस्यं लब्धव्यो मोक्षः' इत्युपदिश्य सह शृगालिकया निरक्रामिषम् । नृपतिपथे च समागत्य रक्षिकपुरुषैरगृह्ये । अचिन्तयं च-'अलमस्मि जवेनापसर्तुमनामृष्ट एवैभिः । एषा पुनर्वराकी गृह्येत । तदिदमत्र प्राप्तरूपम्' इति तानेव चपलमभिपत्य स्वपृष्ठसमर्पित- कूर्परः पराङ्मुखः स्थित्वा 'भद्राः, यद्यहमस्मि तस्करः, बध्नीत माम् । युष्माकमयमधिकारः, न पुनरस्या वर्षीयस्याः' इत्यवादिषम् । ( ६८ ) सा तु तावतैवोन्नीतमदभिप्राया तान्सप्रणाममभ्येत्य 'भद्र- मुखाः, ममैष पुत्रो वायुग्रस्तश्चिरं चिकित्सितः । पूर्वेद्युः प्रसन्नकल्पः शेषितस्य । मित्रभावं गतस्येति यावत् । एवं-एतादृशेनोपायेन । प्रतिभिद्य प्रकाश्य मोक्षः बन्धनमोचनम् । निरक्रामिषं निष्क्रान्तोऽभवम् । नृपतिपथे-राजमार्गे । अगृह्ये गृहीतोऽभवम् । ग्रहधातोः कर्मणि लङ उत्तमपुरुषैकवचनम् । अलम् समर्थः । अपसर्तुं पलायितुम् । अनामृष्टः । अस्पृष्टः । एभिः-रक्षकपुरुषैः । एषा- शृगालिका । वराकी तपस्विनी । गृह्येत ध्रियेत । अत्र अस्मिन् काले । प्राप्तरूपं युक्तम् । इति-एवं चिन्तयित्वा तान् रक्षिपुरुषान् । चपलं सत्वरम् । अभिपत्य समीपं गत्वा । स्वपृष्ठेति-स्वस्य पृष्ठे पृष्ठदेशे समर्पितौ निहितौ कूर्परौ कफोणी येन सः । 'स्यात्कफोणिस्तु कूर्परः' इत्यमरः । पराङ्मुखः विपरीतमुखः । वर्षीयस्याः वृद्धायाः शृगालिकाया इत्यर्थः । ( ६८ ) सा शृगालिका । तावता एतावन्मात्रवचनेन । उन्नीतेति-उन्नीत ऊहितः मदभिप्रायो यन्मेऽभिप्रेतमासीत्तद् यया सा । तान् रक्षिपुरुषान् । वायु- ग्रस्तः वातूलः । उन्मत्त इति यावत् । चिरं दीर्घकालम् पूर्वेद्युः गतदिने । प्रसन्न- इस तरहसे राजासे प्रार्थना करके मुक्ति पा लेना । ऐसा कह करके मै शृगालिकाके साथ निकल आया । राजमार्गमें रक्षापुरुषोंने पकड़ लिया । मैंने विचार किया—'यद्यपि मैं इन लोगोंसे झगड़ करके बड़े वेगसे दौड़ करके भागनेमें समर्थ हूँ । परन्तु, यह निर्दोष शृगा- लिका पकड़ जायगी । अतः इस समय वह उपाय ठीक होगा।' ऐसा सोच करके मैंने अपने दोनों हाथोंको अपनी पीठकी ओर कर और उनके पास जाकर उनके पराङ्मुख खड़े हो करके कहा—'हे सौम्यो ! ( भद्रो ! ) यदि मैं चोर हूँ तो, मुझे बाँधिये— क्योंकि, यह अधिकार आप लोगोंका है परन्तु, इस वृद्धाका नहीं है ।' ( ६८ ) उस शृगालिकाने मेरे अभिप्रायोंका विचार करके उन रक्षापुरुषोंके पास जा तथा उन्हें प्रणाम करके कहा—'हे सौम्यो ! यह मेरा पुत्र उन्मत्त हो गया था, मैंने