दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 228, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF २२८ दशकुमारचरितम् । [ उत्तरपीठिकायां नामापत्यनिर्विशेषं मत्संवर्धितायाश्चम्पकलतायाः स्वयमवचिताभिः सुम- नोभिरलमकार्षीत् । मदुपभुक्तमुक्ते चित्रकूटगर्भवेदिकागते रत्नतल्पे तया सह व्यहार्षीत् । अयोग्यश्च पुमानवज्ञातुं च प्रवृत्तः । तत्किमित्यपेक्ष्यते । परलोकभयं चैहिकेन दुःखेनन्तरितम् । अविषह्यं हि योषितामनङ्गशर- निषङ्गीभूतचेतसामनिष्टजनसंवासयन्त्रणादुःखम् । अतोऽऽमुना पुरुषेण ममाद्योद्यानमाधवीगृहे समागमय । तद्वार्ताश्रवणमात्रेणैव हि ममातिमात्रं संवर्द्धितायाः जलसेकादिना पुष्टिं गमितायाः । चम्पकळतेति वृक्षविशेषः । स्वयम् स्वहस्तेन । अवचिताभिः-लूनाभिः । सुमनोभिः कुसुमैः । सुमनःशब्दस्य स्त्री- लिङ्गत्वात्तद्विशेषणस्य स्त्रीत्वम् । अलमकार्षीत्-भूषयामास । मदुपभुक्तेति-मया आदौ उपभुक्तमनुभूतं पश्चान्मुक्तं त्यक्तं यत्तस्मिन् । चित्रकूटति-चित्रकूटः क्रीड़ा- पर्वतस्तस्य गर्भे गुहायां या वेदिका परिष्कृतभूमिस्तत्र गतं तस्मिन् । रत्नतल्पे- रत्ननिर्मितशयने । तया रमयन्तिकया । व्यहार्षीत् विहारमकरोत् । अयोग्यश्चेति यः पुरुषः स्वयमयोग्यो मूर्खत्वादिदोषयुक्तः स पुनरन्यं तिरस्कर्तुं प्रवृत्तः एतदेवा- श्चर्यमिति भावः । तत् तस्मात् कारणात् । किमिति-कथम् । अपेक्ष्यते-नैवापे- क्ष्यते मयेति शेषः । तस्यापेक्षा न कार्येति भावः । परलोकभयमिति-योषितां पति- परित्यागेन परलोकाद्भयमस्त्येव तथापि तद्द्वयं परलोकगमने सति भाव्यम् ऐहिकं दुःखमिहजन्मनि भोग्यमतः परलोकभयमैहिकेन दुःखेनन्तरितं व्यवधानी- कृतमिति भावः । अविषह्यं सोढुमशक्यम् । अनङ्गेति-अनङ्गशराणां कामबाणा- नां निषङ्गीभूतं तूणीरीभूतं आधारभूतमितियावत् चेतश्चित्तं यासां तथाभूतानाम् । अनिष्टेति-अनिष्टजनेन अप्रियजनेन सह संवासश्चिरमेकत्रवसतिस्तस्य या यन्त्रणा नियमनं चिरमनेन सह त्वया वस्तव्यमित्येतद्रूपं तेन यद्दुःखं क्लेशः । अमुना त्वयोक्तेन । पुरुषेण युवकेन सहेति शेषः । मम मामित्यर्थः । उद्यानमाध- वीगृहे-उद्यानस्थितवासन्तीलतागृहे । समागमय-सम्मेलय । अतिमात्रमत्यन्तम् । है और इसीसे अन्योंका तिरस्कार करने में प्रवृत्त हुआ है । मैं अब क्यों उसकी अपेक्षा करूँ। यदि यह कहा जाय कि परलोक के भय से डरूँ तो इस लोकके दुःखोंसे परलोक का भय भी व्यवधानीभूत (बाधित) हो जाता है । कामदेवके बाणके आधारभूत अन्तःकरणवाली अबलाओंको अपनेको कष्ट देनेवाले पति के सहवास से जो यन्त्रणाएँ (व्यथाएँ) होती हैं वे असह्य होती हैं । अतएव इस चित्रगत पुरुष के साथ आज उपवनके माधवीलता-मण्डप में मेरा संयोग करा दो । उस राजपुत्रकी वार्त्ताके श्रवणसे ही मेरा चित्त उसकी ओर अत्यधिक अनुरक्त हो गया है । वह जो धनकी राशि मेरे पास है Nepal Sanskrit University, Balmeeki Campus, Kathmandu