भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 252, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 252

२५२ दशकुमारचरितम् । [ उत्तरपीठिकायां अलभे च तन्मुखात्तद्राजकुलस्य शीलम् । ( ३४ ) उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे । तांश्चा- ब्रवम्—‘आर्याः, रूपेणैव सह परिवृत्तो मम स्वभावः । य एष विषान्नेन हन्तुं चिन्तितः पिता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव ग्राहयितव्यः । पितृवदमुष्मिन्वयं शुश्रूषयैव वर्तामहे । न ह्यस्ति पितृवधात्परं पातकम्’ इति । भ्रातरं च विशालवर्माणमाहूयोक्तवान्—‘वत्स, न सुभिक्षाः सांप्रतं पुण्ड्राः । ते दुःखमोहोपहतास्त्यक्तात्मानो राष्ट्रं नो न समृद्धमभिद्रवेयुः । दीर्घापि शीघ्रम् । अत्यनैषम्-अत्यवाहयम् । अलभे ज्ञातवान् । तन्मुखात्-कल्प- सुन्दरीमुखात् । राजकुलस्य राजकीयपुरुषवर्गस्य । शीलं चरित्रादिकम् । ( ३४ ) उपसि-प्रभाते । कृतमङ्गलः-अनुष्ठितमङ्गलाचारः । समगच्छे मिलितोऽ- भवम् । तान्-मन्त्रिणः । आर्याः माननीयाः सम्बोधनमेतत् । रूपेणाकारेण । परि- वृत्त:-अन्यथाभूतः यो मम स्वभावः पूर्वमतिनिर्दय आसीत् सोऽद्य तद्विपरीतो जातः । रूपपरिवर्तनेन सह स्वभावस्यापि परिवर्तनं जातमिति भावः । चिन्तितः निश्चितः । पिता पितृव्यस्तस्य पितृतुल्यत्वात् । मुक्त्वा बन्धनादपनीय । स्वं- तदीयम् । भूयः पुनरपि । ग्राहयितव्यः यथा स राज्यं स्वीकरोति तथा विधे- यमित्यर्थः । पितृवत्-पितृतुल्यम् । अमुष्मिन्-प्रहारवर्मणि । शुश्रूषया-सेवया । वर्त्तामहे-व्यवहरामः । पितृवधात् पितृहत्यायाः । परम् अधिकम् । भ्रातरं स्वक- नीयांसम् । सुभिक्षाः-सम्पन्नसस्याः । पुण्डाः तदाख्यदेशाः । ते पुण्ड्राः । दुःख- मोहोपहताः-भोजनाद्यभावाद् दुःखं क्लेशः मोहः अज्ञानं ताभ्यामुपहता आक्रान्ताः। शय्याके ऊपर आनन्दोपभोग करने लगा—उस रानीको अपने ऊरुओंसे और भुजाओंसे चिपटाते हुए एवं आलिङ्गन करते हुए वह बड़ी रात भी छोटी प्रतीत हुई । अर्थात् रातका बीतना ज्ञात न हुआ । उसी रानी कल्पसुन्दरीसे मैंने राजकीयपुरुषवर्गोंका स्वभाव चरित्र आदि भी ज्ञात कर लिया । ( ३४ ) प्रभात कालमें स्नान करके तथा मङ्गलाचार, पाठ-पूजन आदि करके मन्त्रियोंसे दरबारमें जा करके मिला । उन मन्त्रियोंसे मैंने कहा—‘हे माननीयो ! मेरे रूपके परिवर्त्तन होनेके साथ ही मेरे स्वभावमें भी परिवर्त्तन हो गया है । जहरके अन्नसे जिन पितृव्य (चाचा) को मैंने मारनेके लिए सोचा था उनको कारागारसे निकाल कर फिरसे उन्हें उन्हींका राज्य सौंपा जाय और मैं उनकी सेवा-शुश्रूषा अपने पिताके सदृश करूँगा । पिताके मारनेसे अधिक पाप संसारमें कोई नहीं है । अपने छोटे भाई विशालवर्माको बुला कर कहा—‘हे वत्स ! वर्त्तमान समयमें पुण्ड्रदेश सम्पन्न एवं धान्यादिसे परिपूर्ण नहीं है । अतः आप उक्त देशमें अभी चढ़ाई न करें । क्योंकि वे सब Nepal Sanskrit University, Balmeeki Campus, Kathmandu

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · पृष्ठ 252, कुल 474 में से · BharatKosha