दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 253, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २५३ अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदाभियास्यसि, नाद्य यात्रा युक्ता' इति । ( ३५ ) नगरवृद्धावप्यलापिषम् - 'अल्पीयसा मूल्येन महार्हं वस्तु मास्तु मे लभ्यं धर्मरक्षायै, तदनुगुणेनैव मूल्येनादः क्रीयताम्' इति । शतहलिं च राष्ट्रमुख्यमाहूयाख्यातवान्-'योऽसावनन्तसीरः प्रहारवर्मणः पक्ष इति निनाशयिषितः, सोऽपि पितरि मे प्रकृतिस्थे किमिति नाश्येत, त्यक्तात्मानः परित्यक्तजीवनाशाः । नः-अस्माकम् । राष्ट्रं-राज्यम् । समृद्धं-सम्प- न्नशस्यम् । न अभिद्रवेयुर्न पीडयेयुरिति काकुः । अपि तु पीडयेयुः । तेन हानि- रेवास्माकमिति भावः । अतः-अस्मात्कारणात् । मुष्टिवधः-मुष्टिपरिमितस्यान्न- स्योपघातः । सस्यवधः सस्यमात्रस्योपघातः । उत्पद्यते-भविष्यतीत्यर्थः । यदा पुण्ड्रदेशे सुभिक्षं भविष्यति त्वदभियानेन च तेषां सस्यान्नहानिर्भविष्यति तदैव ते आक्रमणीया इत्याशयः । यात्रा-युद्धयात्रा युक्ता-उचिता । ( ३५ ) नगरवृद्धौ-पाञ्चालिकसार्थवाहौ । अलापिषम् अवोचम् । महार्हं-महा- मूल्यम् । धर्मरक्षायै-धर्मरक्षार्थम् । महार्हस्य वस्तुनोऽत्यल्पमूल्येन क्रयणे प्रतारणा भवतीत्यतो धर्मनाश इत्यर्थः । अनुगुणेन-समुचितेन । अदः वज्रम् । राष्ट्रमुख्यं जनपदप्रधानम् । पक्षः सहायभूतः । निनाशयिषितः-विनाशयितुमिष्टः आसीदि- ति शेषः । पितरि-पितृतुल्ये प्रहारवर्मणि । प्रकृतिस्थे-पूर्वभावमापन्ने । किमिति- कथम् । नश्येत-हन्येत ! नैव हन्येतेत्यर्थः । त्वया-शतहलिना । तस्मिन्-अन- पुण्ड्रदेशके निवासी दुःख और मोहसे परिव्याप्त हो करके अपने प्राणोंको त्यागनेमें समुद्यत हो रहे हैं। ऐसी अवस्थामें वे मेरे समृद्धिशाली राज्यपर आक्रमण कर बैठेंगे । अत एव जब पुण्ड्रदेशमें मुष्टि परिमाणमें, सस्यप्रचुरतासे अन्न पैदा होने लगेगा अर्थात् पुण्ड्र जब सम्पत्तिशाली हो जाय । तब आक्रमण करना ठीक होगा । अभी आक्रमण करना अयुक्त है । ( ३५ ) नगरवृद्ध पाञ्चालिक और सार्थवाहको बुला कर कहा-'अल्प मूल्य दे कर महामणि लेनेका विचार छोड़ दिया गया । क्योंकि इसमें धर्मकी हानि हो सकती है । अतः धर्मरक्षाके विचारसे उस महामणिके अनुरूप मूल्य दे कर ही वह मणि खरीदी जाय ।' श्रेष्ठ नागरिक शतहलीको जो अनन्तसीर और प्रहारवर्माका सहायक भी था, बुला कर आज्ञा दी कि इनका भी विनाश न किया जाय । क्योंकि जब मेरे चाचाजी पूर्ववत् हो गये तो उनके सहायकगणोंका क्यों विनाश किया जाय । और कहा कि शतहलीको भी भविष्यमें अनन्तसीरके साथ विद्वेष न करना चाहिये । इन अभिज्ञानोंसे Nepal Sanskrit University, Balmeeki Campus, Kathmandu