दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 262, कुल 474 में से
संदर्भ में पढ़ें२६२ दशकुमारचरितम् । [ उत्तरपीठिकायां
कनीयान्भ्राताहम् । वेशेषु विलसन्तं मामसौ विनयरुचिरवारयत् । अवा- र्यदुर्नयश्चाहमपसृत्य दिङ्मुखेषु भ्रमन्यदृच्छयास्यां वाराणस्यां प्रमदवने मदनदमनाराधनाय निर्गत्य सह सखीभिः कन्दुकेनानुक्रीडमानां काशीभ- र्तुश्चण्डसिंहस्य कन्यां कान्तिमतीं नाम चकमे कथमपि समगच्छे च । (५) अथ छन्नं च विहरता कुमारीपुरे सा मयासीदापन्नसत्त्वा । कञ्चि- त्सुतं च प्रसूतवती । मृतजात इति सोऽपविद्धो रहस्यनिर्भेदभयात्परिजनेन क्रीडाशैले शबर्या च श्मशानाभ्याशं नीतः । तयैव निवर्तमानया निशीथे गृहेषु । विलसन्तं विहरन्तम् । असौ सुमित्रः । विनयरुचिः विनीतस्वभावः । अवारयत्-तत्कर्म कर्तुं निषिद्धवान् । अवार्यदुर्नयः-अप्रतिविधेय-दुश्चेष्टः । अपसृत्य पलाय्य । दिङ्मुखेषु दिगन्तरेषु । यदृच्छया दैववशात् । प्रमदवने-क्रीडोद्याने । मदनदमनाराधनाय- शिवपूजार्थम् । कन्दुकेन-गेन्दुकेन । अनुक्रीडमानां-अनुखेल- न्तीम् । काशीभर्तुः काशीपतेः । चकमे अभिलषितवान् । कथमपि केनापि प्रका- रेण । समगच्छे-सम्मिलितोऽभवम् । (५) छन्नं गुप्तम् । कुमारीपुरे कन्यान्तःपुरे । सा कान्तिमतीनाम्नी राज- कन्या । आपन्नसत्त्वा सञ्जातगर्भा । प्रसूतवती जनयामास । मृतजातः गर्भे एव मृतः । इति इत्युक्त्वा । स बालकः । अपविद्धः परित्यक्तः । रहस्येति रहस्यस्य गोप्यस्य निर्भेदः प्रकाशस्तस्य भयाद् भीतेः । परिजनेन-सखीवर्गेण । क्रीडाशैले- क्रीडापर्वते । शबर्या भिल्ल्या । श्मशानाभ्याशं-श्मशानसमीपम् । तया-शबर्या मैं छोटा सोतेला भाई हूं । उस विनीतरुचिवाले सुमित्रने वेश्याओंके घरोंमें विहार करनेवाले मुझको रोका । जब मैने सोचा कि यह दुश्चरित्र मेरे बिना परदेश गये न छूटेगा तब मैं वहांसे हटा और दिशा-विदिशाओंमें भ्रमण करते हुए भाग्यवश इस काशी नगरीमें आया । अपने प्रासादसे बाहर निकल करके भगवद्विश्वनाथ-पूजनके निमित्त क्रीडोद्यानमें सखियों के साथ गेंद खेलती हुई काशिराज चण्डसिंहकी राजकुमारी कान्तिमतीको मैंने देखा और रमणकी अभिलाषा उत्पन्न हो गयी । किसी रीतिसे उस कुमारीके साथ समागम हो गया और मैं कन्यान्तःपुरमें गुप्त रीतिसे जा करके रमण करने लगा । (५) कुछ दिनोंमें वह मेरे साथ रमण करनेसे गर्भवती हो गयी । और एक पुत्रको उत्पन्न किया । रहस्यका भेद प्रकाशित न हो जाय इस भयसे सखीवर्गने उस बालकको 'मरा हुआ' उत्पन्न हुआ है ऐसा प्रख्यात करके क्रीड़ापर्वतपर विसर्जित कर दिया । एक भीलनीद्वारा बालक श्मशानके समीप लाया गया । वह भीलनी जब आधी रातमें उस