भारतकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२६२ दशकुमारचरितम् । [ उत्तरपीठिकायां

२६२ दशकुमारचरितम् । [ उत्तरपीठिकायां

कनीयान्भ्राताहम् । वेशेषु विलसन्तं मामसौ विनयरुचिरवारयत् । अवा- र्यदुर्नयश्चाहमपसृत्य दिङ्मुखेषु भ्रमन्यदृच्छयास्यां वाराणस्यां प्रमदवने मदनदमनाराधनाय निर्गत्य सह सखीभिः कन्दुकेनानुक्रीडमानां काशीभ- र्तुश्चण्डसिंहस्य कन्यां कान्तिमतीं नाम चकमे कथमपि समगच्छे च । (५) अथ छन्नं च विहरता कुमारीपुरे सा मयासीदापन्नसत्त्वा । कञ्चि- त्सुतं च प्रसूतवती । मृतजात इति सोऽपविद्धो रहस्यनिर्भेदभयात्परिजनेन क्रीडाशैले शबर्या च श्मशानाभ्याशं नीतः । तयैव निवर्तमानया निशीथे गृहेषु । विलसन्तं विहरन्तम् । असौ सुमित्रः । विनयरुचिः विनीतस्वभावः । अवारयत्-तत्कर्म कर्तुं निषिद्धवान् । अवार्यदुर्नयः-अप्रतिविधेय-दुश्चेष्टः । अपसृत्य पलाय्य । दिङ्मुखेषु दिगन्तरेषु । यदृच्छया दैववशात् । प्रमदवने-क्रीडोद्याने । मदनदमनाराधनाय- शिवपूजार्थम् । कन्दुकेन-गेन्दुकेन । अनुक्रीडमानां-अनुखेल- न्तीम् । काशीभर्तुः काशीपतेः । चकमे अभिलषितवान् । कथमपि केनापि प्रका- रेण । समगच्छे-सम्मिलितोऽभवम् । (५) छन्नं गुप्तम् । कुमारीपुरे कन्यान्तःपुरे । सा कान्तिमतीनाम्नी राज- कन्या । आपन्नसत्त्वा सञ्जातगर्भा । प्रसूतवती जनयामास । मृतजातः गर्भे एव मृतः । इति इत्युक्त्वा । स बालकः । अपविद्धः परित्यक्तः । रहस्येति रहस्यस्य गोप्यस्य निर्भेदः प्रकाशस्तस्य भयाद् भीतेः । परिजनेन-सखीवर्गेण । क्रीडाशैले- क्रीडापर्वते । शबर्या भिल्ल्या । श्मशानाभ्याशं-श्मशानसमीपम् । तया-शबर्या मैं छोटा सोतेला भाई हूं । उस विनीतरुचिवाले सुमित्रने वेश्याओंके घरोंमें विहार करनेवाले मुझको रोका । जब मैने सोचा कि यह दुश्चरित्र मेरे बिना परदेश गये न छूटेगा तब मैं वहांसे हटा और दिशा-विदिशाओंमें भ्रमण करते हुए भाग्यवश इस काशी नगरीमें आया । अपने प्रासादसे बाहर निकल करके भगवद्विश्वनाथ-पूजनके निमित्त क्रीडोद्यानमें सखियों के साथ गेंद खेलती हुई काशिराज चण्डसिंहकी राजकुमारी कान्तिमतीको मैंने देखा और रमणकी अभिलाषा उत्पन्न हो गयी । किसी रीतिसे उस कुमारीके साथ समागम हो गया और मैं कन्यान्तःपुरमें गुप्त रीतिसे जा करके रमण करने लगा । (५) कुछ दिनोंमें वह मेरे साथ रमण करनेसे गर्भवती हो गयी । और एक पुत्रको उत्पन्न किया । रहस्यका भेद प्रकाशित न हो जाय इस भयसे सखीवर्गने उस बालकको 'मरा हुआ' उत्पन्न हुआ है ऐसा प्रख्यात करके क्रीड़ापर्वतपर विसर्जित कर दिया । एक भीलनीद्वारा बालक श्मशानके समीप लाया गया । वह भीलनी जब आधी रातमें उस

चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २६३ राजवीथ्यामारक्षिकपुरुषैरभिगृह्य तर्जितया दण्डपारुष्यभीतया निर्भिन्न- प्रायं रहस्यम् । राजाज्ञया निशीथेऽहमाक्रीडनगिरिदरीगृहे विश्रब्धप्रसुप्त- स्तयोपदर्शितो यथोपपन्नरज्जुबद्धः श्मशानमुपनीय मातङ्गोद्यतेन कृपाणेन प्राजिहीर्षे । नियतिबलाल्लूनबन्धस्तमसिमाच्छिद्यान्त्यजं तदन्यांश्च कांश्चित्प्रहत्यापासरम् । अशरणश्च भ्रमन्नटव्यामेकदाश्रुमुखया कयापि दिव्याकारया सपरिचारया कन्ययोपास्थायिषि । निवर्त्तमानया-श्मशानात्परावर्त्तमानया । निशीथेऽर्धरात्रे । राजवीथ्यां राज- मार्गे । अभिगृह्य-धृत्वा । तर्जितया-भीषितया । दण्डपारुष्यभीतया-दण्डस्य पारु- ष्यं कठोरता तेन भीतया त्रस्तया । निर्भिन्नप्रायं-बाहुल्येन प्रकाशितम् । आक्रीड- नेति-क्रीडापर्वतगुहायाम् । विश्रब्धप्रसुप्तः-विश्वासपूर्वकं निद्रितः । अहमिति शेषः । तया शबर्या । उपदर्शितः प्रदर्शितः । यथोपपन्नेति-यथोपपन्नया तत्काललब्धया रज्ज्वा श्रृंखलेन बद्धः संयतः । मातङ्गोद्यतेन-चाण्डाळोत्थापितेन । कृपाणेन- खड्गेन प्राजिहीर्षे-प्रहर्तुमिष्टः । प्रपूर्वकहृधातोः सन्नन्तात्कर्मणि लङ् । नियति- बलात् भाग्यप्रभावात् । लूनबन्धः-छिन्नबन्धनः । तमसि खड्गंमयि प्रहृतमित्यर्थः। आच्छिद्य-मातङ्गहस्तादाकृष्य । अन्त्यजं-चण्डालम् अन्यान्-तत्साहाय्यकारिणः । अशरणो निराश्रयः । अटव्यामरण्ये । अश्रुमुखया-साश्रुवदनया । कयापि-अनिर्दिष्ट- नामिकया । दिव्याकारया-दिव्यः स्वर्गीय आकार आकृतिर्यस्यास्तया । सपरि- चारया-परिचरणं परिचारः शुश्रूषा, अत्र तु शुश्रूषोपकरणं तेन सह वर्त्तमानया । उपास्थायिषि-सङ्गतोऽभवम् । बालकको श्मशानमें धर करके लौट रही थी तब राजमार्गमें रक्षापुरुषोंद्वारा पकड़ ली गयी तथा डांटी-फटकारी गयी । भीषण दण्डके भयसे उस भीलनीने सब रहस्यकी बातें प्रकाशित कर दीं । राजाज्ञासे मैं क्रीड़ापर्वतकी गुफामें निश्शंक हो करके सो रहा था । उसी समय भीलनी द्वारा पथके प्रदर्शनसे आये हुए रक्षापुरुषोंने मुझे तत्काल प्राप्त की हुई रस्सीसे बाँधा और श्मशान ले आये । वहाँ मेरे ऊपर चाण्डालके द्वारा खड्गसे प्रहार कराया गया । दैववशात् उस चाण्डालके खड्गसे मेरे ऊपर की बँधी रस्सी कट गयी और स्वच्छन्द होकर मैंने उस चाण्डालसे खड्ग छीन लिया । उस चाण्डालको तथा उसके अन्य सहायकोंको मार करके भाग निकला । मैं निराश्रय हो करके अरण्यमें घूमने लगा । एक समय अरण्यमें दिव्यरूपवाली अश्रुमुखी कोई एक कन्या मेरे समीप आयी जिसके साथ एक परिचारिका भी थी ।

२६४ दशकुमारचरितम् । [ उत्तरपीठिकायां

२६४ दशकुमारचरितम् । [ उत्तरपीठिकायां ( ६ ) सा मामञ्जलिकिसलयोत्तंसितेन मुखविलोलकुन्तलेन मूर्ध्ना प्रणम्य मया सह वनवटद्रुमस्य कस्यापि महतः प्रच्छायशीतले तले निष्- ष्णा, ‘कासि वासु, कुतोऽस्यागता, कस्य हेतोरस्य मे प्रसीदसी’ति साभि- लापमाभाषिता मया वाङ्मयं मधुवर्षमवर्षत्—‘आर्य, नाथस्य यक्षाणां मणिभद्रस्यास्मि दुहिता तारावली नाम। साहं कदाचिदगस्त्यपत्नीं लोपामुद्रां नमस्कृत्यापावर्तमाना मलयगिरेः परेतावासे वाराणस्याः कमपि दारकं रुदन्तमद्राक्षम् । आदाय चैनं तीव्रस्नेहान्मम पित्रोः संनिधिमनैषम् । अनैषीच्च मे पिता देवस्यालकेश्वरस्यास्थानीम् । (६) सा कन्या। अञ्जलिकिसलयेति-अञ्जलिरिव किसलयः पल्लवस्तेनोत्तंसितो भूषितस्तेन । शिरस्यञ्जलिं बद्ध्वेत्यर्थः । मुखेति-मुखे वदने विलोलाश्चञ्चलाः कुन्त- लाः केशा यस्य तादृशेन । विशेषणद्वयमिदं मूर्ध्नेत्यस्य । वनवटद्रुमस्यारण्यकवट- वृक्षस्य । प्रच्छायशीतले-प्रच्छायेन विस्तृतच्छायया शीतले शिशिरे । तले अधः- प्रदेशे । निषण्णा समुपविष्टा । का-किंनामधेया कस्य वा कन्या । वासु-बाले। कुतः कस्मात्स्थानात् । कस्य हेतोः-केन प्रयोजनेन । अस्य मे-एतावदवस्थस्य मम । प्रसीदसि-प्रसन्ना भवसि । साभिलाषं-सानुरागम् । आभाषिता उक्ता सती- त्यर्थः । वाङ्मयं-वचनरूपम् । मधुवर्ष-मधुवृष्टिम् । यक्षाणां नाथस्य-यक्षाणां प्रधानस्य मणिभद्रस्य । साहं-मणिभद्रकन्या तारावली । अपावर्त्तमाना-प्रत्या- गच्छन्ती । मलयगिरेः मलयपर्वतात् । दाक्षिणात्येषु श्रोशैलेऽगस्त्यस्य निवास इति पुराणप्रसिद्धम् । परेतावासे-श्मशाने । कमपि-एकम् । दारकं-शिशुम् । रुदन्तं क्रन्दन्तम् । आदाय गृहीत्वा । एनं-दारकम् । तीव्रस्नेहात्-अत्यधिकवात्सल्यात् । पित्रोः-मातामित्रोः । अनैपं नीतवती । अलकेश्वरस्य-कुबेरस्य । आस्थानीं-सभाम् । ( ६ ) उस कन्याने अपने दोनों करपल्लवोंका अञ्जलिका शिरोभूषण बनाकरके अपने बिखरे बालोंवाले शिरसे मुझे प्रणाम किया। अरण्यके एक बड़े वट वृक्षके नीचे उसकी शीतल छायामें मेरे साथ बैठी। मैंने पूछा-हे बाले! आप कौन हैं ? कहाँसे आगमन हुआ है ! किस कारणसे आप मेरे ऊपर इतनी प्रसन्न हो रही हैं। इस प्रकार सानुराग पूछनेवाले पर अर्थात् मुझपर उस कन्याने अपने वचनरूपी मधुको बरसाया—'हे आर्य ! मैं यक्षराज मणिभद्रकी तारावली नामकी पुत्री हूँ । एक समय मैं अगस्त्य ऋषिकी भार्या लोपामुद्राको प्रणाम करके मलयगिरिसे लौट रही थी कि काशीकी श्मशान-भूमिमें किसी एक शिशुको रोते हुए देखा । अत्यन्त वात्सल्य प्रेमके कारण मैं उस शिशुको उठा करके अपने माता-पिताके समीप ले आयी। मेरे पिताजी उस शिशुको राजराज ( कुवेर ) के दरबारमें ले गये ।

वराकी' इति तन्मूलामतिमहतीं कथामकरोत् । तत्रैतावन्मयावगतम् 'त्वं

चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् २६५

(७) अथाहमाहूयाज्ञप्ता हरसखेन, 'बाले बालेऽस्मिन्कीदृशस्ते भावः' इति । 'औरस इवास्मिन् वत्से वत्सलता' इति मया विज्ञापितः 'सत्यमाह वराकी' इति तन्मूलामतिमहतीं कथामकरोत् । तत्रैतावन्मयावगतम् 'त्वं किल शौनकः शूद्रकः कामपालश्चाभिन्नः । बन्धुमती विनयवती कान्तिमती चाभिन्ना । वेदिमत्यार्यदासी सोमदेवी चैकैव । हंसावली शूरसेना सुलो- चना चानन्या । नन्दिनी रङ्गपताकेन्द्रसेना चापृथग्भूता । या किल शौन- कावस्थायामग्निसान्तिकमात्मसात्कृता गोपकन्या सैव किलार्यदासी पुन-


(७) अहं तारावली । हरसखेन कुबेरेण । कुबेरस्थ्यम्बकसख इत्यमरः वाले— वत्से, सम्बोधनमेतत् । द्वितीयस्य 'बाले' इत्यस्य बालके इत्यर्थः । भावः-स्नेहः । औरसे-औरसपुत्रे इव । वत्से-बाले । वत्सलता-वात्सल्यं स्नेह इति यावत् । विज्ञापितः कथितः-कुबेरः इति शेषः । वराकी-अनुकम्पार्हा । तन्मूलां दारक- सम्बन्धिनीम् । तत्र तस्यां कथायाम् । एतावत्-एतदेव । त्वं किलेत्यादि-त्वमेव शौनकः शूद्रकः कामपालश्चैक एव । अस्मिन् जन्मनि यस्त्वं कामपालनामासि स एव पूर्वजन्मनि शूद्रकनामाऽभवस्तत्पूर्वजन्मनि च शौनकनामासीरतोऽभिन्न एवे- त्यर्थः । बन्धुमत्य्यादयो द्वादश क्रमेण तवैव भार्या अभवन् । शौनकस्य बन्धुमती वेदिमती हंसावलीनन्दिन्याख्याश्चतस्रः, शूद्रकस्य विनयवत्यार्यदासीशूरसेना- रङ्गपताकाख्याश्चतस्रः, कामपालस्य च कान्तिमतीसोमदेवीसुलोचनेन्द्रसेनाख्या- श्चतस्रो भार्या अभवन् । या खलु बन्धुमती जन्मान्तरे सैव जन्मान्तरे वेदिमती सैव पुनहंसावली सैव नन्दिनी । एवमेव विनयवत्यादयोऽपि अतस्ता अपि अभिन्ना एवेति तात्पर्यम् । शौनकावस्थायां शौनकजन्मनि । अग्निसान्तिकम्-अग्निं साक्षीकृत्य । आत्मसात्कृता-विवाहिता स्वयेति शेषः । गोपकन्या-आभीरदुहिता । सैव गोपकन्यैव । आर्यदासी तव शूद्रकावस्थायामार्यदासीनाम्नी समभवदित्यर्थः ।


(७) महादेवके सखा कुबेरने मुझे बुला करके पूछा—'हे बाले ! इस शिशुपर तेरा क्या भाव है ?' मैंने उन्हें सूचित किया कि मुझे इस शिशुपर अपने औरस पुत्रके समान वात्सल्यप्रेम है । 'हे कृपापात्रि ! तुमने सत्य कहा ।' ऐसा कह कर उन कुबेर भगवान्ने उस शिशुसम्बन्धिनी एक बड़ी कथा कही । उस कथासे मुझे ये बातें विदित हुईं । आप ही शौनक, शूद्रक और कामपाल हैं—अर्थात् इस जन्ममें आप कामपाल हैं इसके पूर्वमें शूद्रक थे और उसके पूर्वमें आप शौनक रूपमें थे । इसी तरह बन्धुमती, विनयवतो, और कान्तिमती भी क्रमसे वेदिमती, आर्य- दासी और सोमदेवी थीं और इसके पूर्व हंसावली, शूरसेना और सुलोचना थीं एवं उसके पूर्व नन्दिनी, रङ्गपताका और इन्द्रसेना थीं। शौनकावस्थामे जिस गोपकन्यासे

२६६ दशकुमारचरितम् । [ उत्तरपीठिकायां

२६६ दशकुमारचरितम् । [ उत्तरपीठिकायां श्चाद्य तारावलीत्यभूवम् । (८) बालश्च किल शूद्रकावस्थे त्वय्यार्यदासयवस्थायां मय्युदभूत् । अवर्धत च विनयवत्या स्नेहवासनया । स तु तस्यां कान्तिमत्यवस्थाया- मद्योदभूत् । एवमनेकमृत्युमुखपरिभ्रष्टं दैवान्मयोपलब्धं तमेकपिङ्गादेशा- द्वने तपस्यतो राजहंसस्य देव्यै वसुमत्यै तत्सुतस्य भाविचक्रवर्तिनो राज- वाहनस्य परिचर्यार्थं समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृतान्तमुख- भ्रष्टस्य ते पादपद्मशुश्रूषार्थमागतास्मि' इति । अद्य पुनरिदानीन्तु तारावलीनाम्नाहमभूवम् । आर्यदास्येव जन्मान्तरे तारावल्य- भवदिति भावः । (८) बालः-पूर्ववर्णितः शिशुः शूद्रकावस्थे-शूद्रकरूपधारिणि । त्वयि- कामपाले इत्यर्थः । आर्यदास्येति-आर्यदासीरूपायाम् । मयि-तारावल्यामित्यर्थः । उदभूत्-उत्पन्नः । अवर्धत पोषितोऽभवत् विनयवत्या-शूद्रकस्य प्रथमपत्न्या । स्नेहवासनया-वात्सल्यभावेन स तु-स एव बालकः । तस्यां विनयवत्याम् । का- न्तिमत्यवस्थायां या खलु शूद्रकावस्थायां विनयवती सैवास्मिञ्जन्मनि कामपाला- वस्थायां कान्तिमती जातेत्यर्थः । एवम्-अनेन प्रकारेण । अनेकेति अनेकाद् बहो- र्मृत्युमुखात्कृतान्तवदनात्परिभ्रष्टं च्युतम् । तमित्यस्य विशेषणम् । दैवात् दैवसं- योगात् । मया-तारावल्या । उपलब्धं प्राप्तम् । तं बालम् । एकपिङ्गादेशात्-कुबेरा- ज्ञया । तपस्यतः तपस्यां कुर्वतः । देव्यै-महिष्यै । गुरुभिः पित्रादिभिः । अभ्यनु- ज्ञाता-आदिष्टा । कृतान्तयोगाद् दैववशात् । कृतान्तमुखभ्रष्टस्य-यममुखाद्विनिर्ग- तस्य कृतान्तो यमसिद्धान्तयोरिति कोषः । ते-तव-कामपालस्येति यावत् । इत्य- न्तं तारावलीवचनम् । अग्निकी साक्षी दे करके आपने विवाह किया था वही आर्यदासी हुई और वही इस समय तारावली नामक मैं हूँ । (८) जब मैं आर्यदासी थी और आप शूद्रक थे उस अवस्थामें यह पुत्र मुझसे उत्पन्न हुआ था । विनयवतीद्वारा यह बालक स्नेहसे पालन-पोषण किया गया । वही पुत्र इस समय कान्तिमती अवस्थामें उत्पन्न हुआ । इसी रीतिसे अनेक वार मृत्युके मुखसे बच करके यह बालक भाग्यवश मुझे प्राप्त हुआ है । उस बालकको राजराज कुवेरके आदेशसे राजहंसके भावी पुत्र चक्रवर्त्ती राजवाहनकी परिचर्याके लिये राजहंसकी देवीको समर्पण कर दिया है जो राजवाहन इस समय वनमें तपस्या कर रहे हैं। गुरुवर्गकी आज्ञानुसार दैववश मैं यमराजके मुखसे बच करके आपके चरण-कमलोंकी सेवाके हेतु यहाँ पर आयी हूँ । Nepal Sanskrit University, Balmeeki Campus, Kathmandu

चतुर्थोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २६७ ( ६ ) श्रुत्वा तामनेकजन्मरमणीमसकृदाश्लिष्य हर्षाश्रुमुखो मुहुर्मुहुः सान्त्वयित्वा तत्प्रभावदर्शिते महति मन्दिरेऽहर्निशं भूमिदुर्लभान्भो- गानन्वभूवम् । द्वित्राणि दिनान्यतिक्रम्य मत्तकाशिनीं तामवादिषम्—'प्रिये, प्रत्यपकृत्य मत्प्राणद्रोहिणश्चण्डसिंहस्य वैर्निर्यातनसुखमनुबुभूषामि' इति । तया सस्मितमभिहितम्—'एहि कान्त, कान्तिमतीदर्शनाय नयामि त्वाम्' इति । स्थितेऽर्धरात्रे राज्ञो वासगृह्मनीये। ततस्तच्छिरोभागवर्ति- नीमादायासिष्टिं प्रबोध्यैनं प्रस्फुरन्तमब्रुवम्—'अहमस्मि भवज्जामाता । भवदनुमत्या विना तव कन्याभिमर्शी । तमपराधमनुवृत्त्या प्रमाष्टुं- मागत' इति । ( ९ ) तां तारावलीम् । अनेकेति-अनेकेषु जन्मसु पत्नीभूताम् । असकृद् वारं वारम् । हर्षाश्रुमुखः-प्रमोदबाष्पपूर्णाननः । सान्त्वयित्वा-आश्वास्य । तत्प्र- भावेति-तस्यास्तारावल्याः प्रभावेण यक्षकन्यात्वात् तदुचितसामर्थ्येन दर्शिते प्रकटीकृते । भूमिदुर्लभान्-पृथिव्यामलभ्यान्-स्वर्गीयानित्यर्थः । द्वित्राणि कतिप- यानि । अतिक्रम्य व्यतीत्य । तां तारावलीम् । प्रत्यपकृत्य-प्रत्यपकारं विधाय । मत्प्राणद्रोहिणः-मज्जीवितजिघांसोः । वैर्निर्यातनसुखं-वैरशुद्धिजनितमानन्दम् । अनुबुभूषामि-अनुभवितुमिच्छामि । तया-तारावल्या । कान्त-नाथेति सम्बोधनम् । स्थिते-अवशिष्टे । राज्ञः चण्डसिंहस्य । अनीये-नीतः अहमिति शेषः । तच्छिरो- भागवर्त्तिनीं-राजशिरोदेशावस्थिताम् । प्रबोध्य जागरयित्वा । एनं राजानं चण्ड- सिंहम् । प्रस्फुरन्तम्-कम्पमानम् । अनुमत्या-सम्मत्य । कन्याभिमर्शी बलात्कारेण तव कन्यां परामृष्टवानहमिति शेषः । अनुवृत्त्या-परिचर्यया । प्रमाष्टुं-क्षालयितुम् । ( ९ ) तारावलोको अपनी अनेक जन्मोंकी रमणी श्रवण करके उसका बार-बार आलिं- गन किया तथा आनन्दाश्रुओंको वहाते हुए उसे सान्त्वना दी एवं उसी यक्ष कन्या तारावली द्वारा प्रदर्शित एक विशाल सदनमें रात-दिन स्वर्गीय सुख भोगने लगा । कुछ दिनों को विता करके मैंने उस उत्तम वनिता से कहा—'हे प्रिये ! मेरे प्राणोंके साथ द्रोह करनेवाला जो चण्डवर्मा है उसके साथ अपकार कर वैरशुद्धिजनित आनन्दको प्राप्त करना चाहता हूँ'। उसने हँसकर उत्तर दिया 'हे कान्त ! यहाँ आओ ! कान्तिमतीको दिखानेके लिये मैं तुम्हें ले चलती हूँ।' आधी रातके समय वह मुझे राजप्रासादमें ले गयी । तदनन्तर सोये हुये राजा चण्डसिंहके सिरहानेकी ओर रखी हुई तलवारको मैंने अपने हाथमें उठा लिया और राजाको जगा दिया । जगनेपर मुझे देखकर काँपनेवाले उस राजासे मैंने कहा—'मैं आपका दामाद हूँ। मैंने आपकी आज्ञा बिना जो आपकी पुत्रीसे सम्बन्ध कर लिया है उसको आपकी परिचर्या द्वारा मिटानेके लिये मैं यहाँ आया हूँ । १८ द० कु० उ०

२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां

२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां ( १० ) सोऽतिभीतो मामभिप्रणम्याह — 'अहमेव मूढोऽपराद्धः यस्तव दुहितृसंसर्गानुग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा समादिष्टवान् व- धम् । तदास्तां कान्तिमती राज्यमिदं मम च जीवितमप्यद्यप्रभृति भवदधी- नम्' इत्यवादीत् । अथापरेद्युः प्रकृतिमण्डलं संनिपात्य विधिवदात्मजायाः पाणिमग्राहयत् । अश्रावयच्च तनयवार्ता तारावली कान्तिमत्यै, सोमदे- वीसुलोचनेन्द्रसेनाभ्यश्च पूर्वजातिवृत्तान्तम् । इत्थमहं मन्त्रिपदापदेशं यौवराज्यमनुभवन्वहरामि विलासिनीभिः' इति । ( ११ ) स एवं मादृशेऽपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्व- ( १० ) स चण्डसिंहः । मां कामपालम् । यः अहम् । दुहितृसंसर्गेति—दुहितुः कन्यायाः संसर्गेण संपर्केणानुगृह्णातीत्येवंशीलस्य कन्या सम्बन्धेन कृपापरस्येत्यर्थः । ग्रहग्रस्तः—ग्रहाविष्टः । उत्क्रान्तसीमा अतिक्रान्तमर्यादः । आस्तां तिष्ठतु । प्रकृति- मण्डलं प्रजावर्गम् । संनिपात्य—एकत्रीकृत्य प्रजानां समक्षमित्यर्थः । विधिवद् विध्युक्तमार्गेण । आत्मजायाः कन्यायाः कान्तिमत्याः । पाणिमग्राहयत् । विवाहम्- कारयत् मयेति शेषः । तनयवार्त्ता पुत्रवृत्तान्तम् । पूर्वजातिवृत्तान्तं पूर्वजन्मपरि- चयादिकम् । इत्थमनेन प्रकारेण । मन्त्रिपदापदेशं मन्त्रिपदस्यापदेशश्छलं यत्र तदिति यौवराज्यविशेषणम् । मन्त्रिन्याजेन यौवराज्यमेव अनुभवामीत्यर्थः । विलासिनीभिः कामिनीभिरित्यन्तं कामपालवाक्यम् । ( ११ ) स एवमित्यादि पुनः कथयति पूर्णभद्रः । स कामपालः । एवम् अनेन प्रकारेण । जन्तौ—जन्तुसदृशे निकृष्टे मयि । परिचर्यानुबन्धी—सेवापरायणः । बन्धुः ( १० ) राजाने अत्यन्त भयभीत होकर मुझे प्रणाम किया और कहा—'मैं स्वयं ही मूर्ख हूँ । मैंने ही आपका अपराध किया है । क्योंकि कन्याके साथ सम्पर्क करनेवाले आपपर मैंने पागलकी तरह क्रोधाभिभूत हो कर अतिक्रान्तमर्यादावालेके सदृश व्यवहार किया—वधकी आज्ञा सुनायी । अब उस चर्चाको त्याग दीजिये और आजसे यह कान्तिमती कन्या. मेरा सम्पूर्ण राज्य तथा जीवन अपने ही अधीन समझिये । एवं ऐसा कहनेके पश्चात् उस राजा ने दूसरे दिन अपने प्रजावर्गको एकत्र करके अपनी कन्या कान्तिमतीका विवाह मेरे साथ शास्त्रानुसार सम्पन्न कर दिया । तारावलीने उस शिशु-वृत्तको कान्तिमती देवीसे कह सुनाया । सोमदेवी, सुलोचना और इन्द्रसेना प्रभृतिको भी पूर्वजन्मका परिचय वृत्त सुना दिया । इस रीतिसे मैं सचिवपदके व्याज ( छल ) से यौवराज्यसुखोंको भोगता हुआ विलासिनियोंके साथ नित्य रमण किया करता हूँ । ( ११ ) पुनः पूर्णभद्रने कहना प्रारम्भ किया । मेरे श्वशुर राजा चण्डसिंहके स्वर्ग-

चतुर्थोच्छ्वासः ] बालप्रबोधिनीव्याख्यासहितम् । २६६ भूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि च श्याले चण्डघोषनाम्नि स्त्रीष्वतिप्रसङ्गात्प्रागेव क्षयक्षीणायुषि, पञ्चवर्षदेशीयं सिंहघोषनामानं कुमारमभ्यषेचयत् । अवर्धयच्च विधिनैनं स साधुः । तस्याद्य यौव- नोन्मादिनः पैशुन्यवादिनो दुर्मन्त्रिणः कतिचिदासन्नन्तरङ्गभूताः । तैः किलासावित्थमग्राह्यत—'प्रसह्यैव स्वसा तवामुना भुजङ्गेन संगृहीता पुनः प्रसुप्ते राजनि प्रहर्तुमुद्यतासिरासीत् । तेनास्मै तत्क्षणप्रबुद्धेन भीत्यानु- नीय दत्ता कन्या । तं च देवज्येष्ठं चण्डघोषं विषेण हत्वा बालोऽयमसमर्थ- मित्रभूतः । सर्वभूतानां सर्वप्राणिनाम् बन्धुरित्यनेनान्वयः । अलसकेन क्षयरोगेण । क्षयस्त्वलसको मत इति कोषः । स्वर्गते मृते । श्वशुरे चण्डसिंहे । ज्यायसि ज्येष्ठे । श्याले श्यालके पत्नीसहोदरे इति यावत् । अतिप्रसङ्गाद् अस्यासक्तेः प्रागेव पितृ- मरणात्पूर्वमेव । क्षयक्षीणायुषी-क्षयेण क्षयरोगेण क्षीणमल्पमायुर्जीवितकालो यस्य तस्मिन् । सतीति शेषः । अभ्यषेचयत् राज्येऽभिषेकमकारयत् । एनं सिंहघोषना- मानं कुमारम् । स साधुर्महात्मा कामपालः । तस्य सिंहघोषस्य । अद्य साम्प्रतम् । यौवनोन्मादिनः-तारुण्यमदगर्वितस्य । पैशुन्यवादिनः-पैशुन्यं खलत्वं वदन्ति प्रकटयन्ति ये तथाभूताः दुर्जना इत्यर्थः । दुर्मन्त्रिणो दुष्टामात्याः । कतिचित् कतिपये जनाः । आसन् अभवन् । अन्तरङ्गभूताः आप्तसराः । तैर्दुर्मन्त्रिभिः । असौ सिंहघोषः । इत्थं वक्ष्यमाणप्रकारेण । अग्राह्यत-अबोधयत । प्रसह्य-बलात् । स्वसा भगिनी-कान्तिमतीत्यर्थः । अमुना-कामपालेन । भुजङ्गेन विटेन धूर्ते- नेति यावत् । प्रसुप्ते-निद्रिते । राजनि चण्डसिंहे तव पितरीत्यर्थः । प्रहर्तुं हन्तुम् । उद्यतासिः-उत्थापितखड्गः । तेन तव पित्रा । अस्मै कामपालाय । तत्क्षणप्रबुद्धेन-तत्कालजागरितेन । देवज्येष्ठं भवदग्रजम् । बालः शिशुरयं सिंह- घोषः अतोऽसमर्थोयमिति कृत्वा । प्रकृतिविश्रम्भणाय-प्रजानां विश्वासोत्पादना- वासी हो जानेपर, मेरे सदृश पुरुषके वर्त्तमान होनेपर भी, अपने स्वामीकी सेवामें परायण तथा सभी प्राणियोंके मित्रभूत सुयोग्य कामपालने पाँच बरससे भी छोटी अवस्थावाले सिंहघोष नामक राजकुमारको गद्दीपर बैठा दिया—राज्याभिषेक कर दिया । क्योंकि मेरा बड़ा साला चण्डघोष अतिस्त्रीप्रसङ्ग करनेके कारण क्षयरोगी हो गया था और उसीसे वह पिता के समान ही अल्पायु होकर मर गया । उस विवेकी महात्मा कामपालने सिंहघोषका यथाविधि पालन-पोषण करके उसे बड़ा किया । उक्त कुमार सिंहघोषके इस समय कई अन्तरंगभूत दुष्ट मन्त्री हैं जो उसे तारुण्यमें मदोन्मत्त कर रहे हैं तथा खलत्व सिखा रहे हैं । उन मन्त्रियोंके द्वारा उसने निम्नांकित बातें ज्ञात की हैं—

२७० दशकुमारचरितम्। [ उत्तरपीठिकायां इति त्वमद्यापि प्रकृतिविश्रम्भणायोपेक्षितः। क्षिणोति च पुरा स कृतघ्नो भवन्तम्। तमेवान्तकपुरमभिगमयितुं यतस्व' इति। (१२) स तथा दूषितोऽपि यक्षिणीभयान्नामुष्मिन्पापमाचरितुमश- कन्। एषु किल दिवसेष्वयथापूर्वमाकृतौ कान्तिमत्याः समुपलक्ष्य राज- महिषी सुलक्षणा नाम सप्रणयमपृच्छत्—'देवि, नाहमायथातथ्येन विप्र- लम्भनीया। कथय तथ्यं केनेदमयथापूर्वमाननारविन्दं तवैषु वासरेषु' इति। सा त्वादीत्—'भद्रे, स्मरसि किमप्यायथातथ्येन किंचिन्मयो- क्तपूर्वम्। सखी मे तारावली सपत्नी च किमपि कलुषिताशया मद्गोत्रा- र्थम्। उपेक्षितः त्यक्तः। क्षिणोति च पुरा-क्षयं नेष्यति। यावत्पुरा निपातयोरिति भविष्यत्सामीप्ये लट्। कृतघ्नः अकृतज्ञः। तं कामपालम्। अन्तकपुरं यमालयम्। अभिगमयितुं प्रापयितुम्। (१२) स सिंहघोपः। दूषितः भेदं गमितः। यक्षिणीभयात्-तारावलीभयेन। अमुष्मिन् कामपाले। पापमाचरितुम् अनिष्टं विधातुम्। एषु वर्त्तमानेषु। अयथा- पूर्वं प्रागलक्षितं विकारभावम्। आकृतौ-आकारे। राजमहिषी-सिंहघोषपत्नी। आयथातथ्येन-अवास्तवकथनेन। विप्रलम्भनीया प्रतारणीया। तथ्यं सत्यम्। केन-केन हेतुना। सा कान्तिमती। स्मरसि किमित्यादि-तव समीपे मया कदापि असत्यं नैवोक्तमिति भावः। उक्तपूर्वं-पूर्वमुक्तम्। किमपि-किञ्चित्। कलुषिताशया मलिनाभिप्राया-विरक्तभावेति यावत्। मद्गोत्रापदिष्टा-मदीयनाम्ना समाहूता। गोत्रस्खलनेन तु सपत्नीनामीर्ष्या संजायत इति प्रसिद्धम्। प्रणयम्-अस्मासु प्रीतिम्। इस विट कामपालने आपकी बहिनको जबर्दस्ती ग्रहण किया है। पुनः सुप्तावस्था में आपके पिता राजा चण्डसिंहको मारनेके लिये तैयार हुआ। तब उन्होंने उस समय जाग कर मारे भयके अपनी पुत्री का इसके साथ विवाह कर दिया। आपके बड़े भाई चण्डघोषको जहर दे करके मरवा डाला। आपको बालक जान कर तथा प्रजाकी प्रतीतिप्राप्त्यर्थ छोड़ दिया। यह कृतघ्न आपका भी नाश करेगा-मार डालेगा। अतः इसीको यमपुरी पहुँचानेका प्रयत्न करना आपका कार्य है। (१२) वह राजकुमार सिंहघोप गुप्त रहस्यको ज्ञात कर भी यक्षिणी तारावलीके भयसे कन्यादूषक उस कामपालको मारने में असमर्थ रहा। इन दिवसोंमें कान्तिमतीकी आकृतिमें विचित्र परिवर्त्तन देख कर राजा सिंहघोषकी रानी सुलक्षणाने विनम्र भावसे पूछा—'हे देवि! मुझे झूठ कहकर मत ठगो अपितु सत्य बताओ। किस कारणसे इन दिनों तुम्हारा मुखकमल मुरझा गया है?' वह कान्तिमती बोली—'हे सौम्ये! क्या Nepal Sanskrit University, Balmeeki Campus, Kathmandu

पदिष्ट्रा प्रणयमप्युपेक्ष्य रहसि भर्त्रा प्रणम्यमानाप्यस्माभिरुपोढमत्सरा प्रावसत् । अवसीदति च नः पतिः । अतो मे दौर्मनस्यम्' इति । (१३) तत्प्रायेणैकान्ते सुलक्षणया कान्तया कथितम् । 'अथासौ निर्भयोऽद्य प्रियतमाविरहपाण्डुभिरवयवैर्धैर्यस्तम्भिताश्रुपर्याकुलेन चक्षु- षोष्मश्वासशोषिताभिरिवानतिपेशलाभिर्वाग्भिर्वियोगं दर्शयन्तम्, कथ- मपि राजकुले कार्याणि कारयन्तम्, पूर्वसंकेतितैः पुरुषैरभिग्राह्याबन्ध- यत् । तस्य किल स्थाने स्थाने दोषानुद्घोष्य तथोद्धरणीये चक्षुषी यथा

उपेक्ष्य-अगणयित्वा । प्रणम्यमाना-सप्रणाममावेद्यमाना । उपोढमत्सरा-सञ्जात- द्वेषा । प्रावसत्-देशान्तरं गतवती । अवसीदति-अवसादं गच्छति-क्लिश्यतीति यावत् । दौर्मनस्यं-दुःखितचित्तत्वम् । (१३) तत् क्षान्तिमत्या दौर्मनस्यकारणम् । प्रायेण बाहुल्येन । कथितं सिंहघोषायेति शेषः । असौ सिंहघोषः । निर्भयः-तारावलीप्रवासाद् भीतिरहितः । प्रियतमेति-प्रियतमायास्तारावल्या विरहेण विच्छेदेन पाण्डुभिर्विवर्णैः । अव- यवैरङ्गैः । धैर्येति-धैर्येण धीरतया स्तम्भितमवरुद्धं अश्रु नेत्रजलं तेनाकुलं व्याप्तं तेन । ऊष्मश्वासेति-ऊष्मश्वासेन दीर्घनिःश्वासवायुना शोषिताभिः क्षीणाभिः । अनतिपेशलाभिः-अनतिकोमवाभिः । वियोगं विरहम् । दर्श- यन्तं प्रकटयन्तम् । कथमपि अतिकृच्छ्रेण । कारयन्तं साधयन्तं कामपालमिति शेषः । पूर्वसंकेतितैः । प्राक्सूचितैः । अभिग्राह्य ग्राहयित्वा । अबन्धयत्-बन्धनम- नयत् । तस्य कामपालस्य । उद्घोष्य-प्रकटीकृत्य । तथा तेन प्रकारेण । उद्ध-

आपको स्मरण आता है कि मै आपसे कभी भी झूठ बोला हूं । मेरी सखी तारावली यक्षिणी जो मेरी सपत्नी भी है वह बड़ी मलिनाभिप्रायवाली है । कदाचित् एकान्तमें पतिद्वारा मेरे नामसे उसे सम्बोधित किया गया । बस, इसी बातपर वह रुष्ट हो गयी । इसपर पतिदेवने प्रणाम भी किया किन्तु उसका क्रोध शान्त न हुआ और मारे ईर्ष्याके वह कहीं दूर देश चली गयी । इस हेतु मेरे पति उदास रहते हैं और पतिकी उदासीसे मैं भी उदास रहती हूँ । (१३) इन बातोंको सुलक्षणने अपने पतिसे बहुलतासे एकान्तमें कह दिया । तत्पश्चात् निर्भय हो करके राजा सिंहघोषने उस कामपालको प्राक्सूचित (पूर्वसंकेतित) राजपुरुषोंके द्वारा पकड़वा कर कारागारमें डाल दिया जो कामपाल अपनी प्रियतमा तारावलीके वियोगसे पाण्डुवर्णी शरीरवाला हो रहा था, धीरतासे रोके हुए आँसुओंसे व्याकुल नेत्रवाला तथा उष्ण श्वासोंसे सूखी काठीवाला एवं कठोरवाणीके बोलनेसे अपने

२७२ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF २७२ दशकुमारचरितम् । [ उत्तरपीठिकायां

तन्मूलमेवास्य मरणं भवेत्' इति । अतोऽत्रैकान्ते यथेष्टमश्रु मुक्त्वा तस्य साधोः पुरः प्राणान्मोक्तुकामो बध्नामि परिकरम्' इति । (१४) मयापि तत्पितृव्यसनमाकर्ण्य पर्यश्रुणा सोऽभिहितः- 'सौम्य, किं तव गोपयित्वा । यस्तस्य सुतो यक्षकन्यया देवस्य राजवाह- नस्य पादशुश्रूषार्थं देव्या वसुमत्या हस्तन्यासः कृतः सोऽहमस्मि । श- क्ष्यामि सहस्रमपि सुभटानामुदायुधानां हत्वा पितरं मोचयितुम् । अपि तु संकुले यदि कश्चित्पातयेत्तदङ्गे शस्त्रिकां सर्व एव मे यत्नो भस्मनि हुत- मिव भवेत्' इति ।

रणीये-उत्पाटनीये । यथा येन प्रकारेण । तन्मूलं-नेत्रोत्पाटनहेतुकम् । अस्य कामपालस्य । अतः अस्मात्कारणात् । एकान्ते निर्जने । यथेष्टं यथेच्छम् । तस्य साधोः-कामपालस्य । पुरोऽग्रे । परिकरं बध्नामि-उद्योगं करोमि । इत्यन्तं पूर्णभद्रवचनम् । इतः परमर्थपालवचनं बोद्धव्यम् । (१४) मया-अर्थपालेन । पितृव्यसनं पितुर्विपदम् । पर्यश्रुणा-रुदता । सः पूर्णभद्रः । गोपयित्वा अवगुह्य तव पुरो गोपनेनालमिति भावः । तस्य काम- पालस्य । यक्षकन्यया-तारावल्या । हस्तन्यासः हस्ते निःक्षेपः । सः सुतः । सुभटानां सुयोद्धृणाम् । उदायुधानां गृहीतशस्त्राणाम् । अपि तु किन्तु । संकुले- जनसंकटे । पातयेत्-निःक्षिपेत् । तदंगे-मत्पितुः शरीरे । भस्मनि हुतमिव- निरर्थकमित्यर्थः ।

हृदयकी पीड़ाको दर्शानेवाला और येन केन प्रकारेण राजकुलके राजकार्योंको करनेवाला दिखाई दे रहा था । उसके दोषोंको स्थान-स्थानपर उद्घोषित कराया गया । इन अपराधोंके बदले यह आज्ञा सुनाई गयी कि 'उसकी आँखें इस तरीकेसे निकाली जायें जिससे उसकी मृत्यु हो जाय ।' यह भी प्रयत्न किया गया ।' उस पूर्णभद्रने इस प्रकारसे वृत्तको सुना करके कहा- 'इसी क्लेशके कारण यहाँ निर्जनमें खूब आँसुओंको बहाकर उस विवेकी कामपालके आगे अपने प्राणोंको त्यागनेका उद्योग कर रहा हूँ । (१४) मैंने (अर्थपालने) अपने पिताजीके इन दुःखोंको श्रवण करके रोते हुए इस पूर्णभद्रसे कहा- 'हे भद्र ! अब आपसे गुप्त रखनेकी कोई आवश्यकता नहीं है । जिस बालकको यक्षकन्या तारावली देव राजवाहनकी पादशुश्रूषा करनेके लिए रानी वसुमतीके हाथमें धर आयी थी वह कामपालका पुत्र मैं ही हूँ । मुझमें इतनी शक्ति है कि सहस्रों

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

चतुर्थोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २७३ ( १५ ) अनवसितवचन एव मयि महानाशीविषः प्राकाररन्ध्रेणो- दैदयच्छिरः । तमहं मन्त्रौषधबलेनाभिगृह्य पूर्णभद्रमब्रवम्—'भद्र, सिद्धं नः समीहितम् । अनेन तातमलक्ष्यमाणः संकुले यदृच्छया पातितेन नाम दंशयित्वा तथा विषं स्तम्भयेयं यथा मृत इत्युदास्येत । त्वया तु मुक्त- साध्वसेन माता मे बोधयितव्या—'यो यक्ष्या वने देव्या वसुमत्या हस्ता- पितो युष्मत्सूनुः सोऽनुप्राप्तः पितुरवस्थां मदुपलभ्य बुद्धिबलादित्थमा- चरिष्यति । त्वया तु मुक्तत्रासया राज्ञे प्रेषणीयम्—'एष खलु क्षात्रधर्मो ( १५ ) अनवसितवचने-असमाप्तवाक्ये । आशीविषः सर्पः । प्राकाररन्ध्रेण- भित्तिच्छिद्रेणः । उदैरयत्-ऊर्ध्वंचकार । तं सर्पम् । मन्त्रौषधिवलेन-मन्त्रौ- षधिप्रभावेण । अभिगृह्य-धृत्वा । समीहितम्-अभिलषितम् । अनेनेति-संकुले जनसंबाधे अलक्ष्यमाणोऽन्यैरदृश्योहं यदृच्छया स्वेच्छया पातितेन निःक्षिप्तेनानेन सर्पेण तातं पितरं कामपालमित्यर्थः दंशयित्वा दष्टं कारयित्वा {विषं तथा तेन प्रकारेण स्तम्भयेयं निश्चलं कुर्यां यथा येन प्रकारेण मृतो विनष्ट इति जनैरूदा- स्येतोपेक्ष्येत । त्वया पूर्णभद्रेण । मुक्तसाध्वसेन त्यक्तभयेन । माता कान्तिमती । यो युष्मत्सूनुः भवत्याः पुत्रः । यक्ष्या तारावल्या । वसुमत्याः राजहंसमहिष्याः । अनुप्राप्तः समागतः । मत् मम सकाशात् । बुद्धिबलाद् बुद्धिप्रभावात् । इत्थं- वक्ष्यमाणप्रकारम् । त्वया कान्तिमत्या । मुक्तत्रासया—त्यक्तशंकया । राज्ञे शस्त्रसज्जित योद्धाओंको मारकर पिताको बचा सकता हूँ । किन्तु, जनसमूहमें यदि कोई मेरे पिताके शरीरपर प्रहार कर देगा तो मेरा यह प्रयास भस्ममें होमके सदृश विफल हो जायगा । (१५) मेरा वाक्य पूरा भी न हो पाया था कि प्राकार ( चहार दीवारी ) की दीवालके छेदमेंसे एक बड़े भारी साँपकी मूड़ी दिखाई दी । उस साँपको मैंने अपने मन्त्र और औषध बलसे पकड़ लिया और पूर्णभद्रसे कहा—'हे सौम्य ! अब मेरा अभिलषित मनोरथ सिद्ध हो गया । जिस समय जनसमूह एकत्र हो जायगा उसी समय मैं अदृश्य होकर स्वेच्छासे इस साँपको अपने पिता कामपालके ऊपर छोड़ करके उनको दंशित करा दूंगा । फिर उसके विषको स्तम्भित कराकर पिताको मृततुल्य प्रदर्शित करूंगा और इस कारणसे सभी उदास हो जायेंगे । आप निर्भय होकर मेरी माता कान्तिमतीसे कह दीजियेगा कि आपका वह पुत्र जिसे राजवाहनकी परिचर्याके लिये रानी वसु- मतीके हाथमें यक्षिणी साप आयी थी, इस जगहपर आ गया है तथा अपने पिताकी दशा, मेरे द्वारा, ज्ञात करके अपनी बुद्धिकी शक्तिसे उक्त रीतिसे व्यवहार करेगा।

२७४ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF २७४ दशकुमारचरितम् । [ उत्तरपीठिकायां यद्बन्धुरबन्धुर्वा दुष्टः स निरपेक्षं निग्राह्य इति । स्त्रीधर्मश्चैष यददुष्टस्य दुष्टस्य वा भर्तुर्गतिर्गन्तव्येति । तदहममुनैव सह चिताग्निमारोक्ष्यामि । युवतिजनानुकूलः पश्चिमो विधिरनुज्ञातव्यः' इति । ( १६ ) स एवं निवेदितो नियतमनुज्ञास्यति । ततः स्वमेवागारमानीय काण्डपटीपरिक्षिप्ते विविक्तोद्देशे दर्भसंस्तरणमधिशाय्य स्वयं कृतानुम- रणमण्डनया त्वया च तत्र संनिधेयम् । अहं च बाह्यकक्षागतस्त्वया प्रवे- शयिष्ये । ततः पितरमुज्जीव्य तदभिरुचितेनाभ्युपायेन चेष्टिष्यामहे' सिंहघोषाय । प्रेषणीयं वाचिकं सन्देष्टव्यम् । क्षात्रधर्मः क्षत्रियाणां नियमः । निर- पेक्षं निर्विचारम् । निग्राह्यः निग्रहीतव्यः दण्डनीय इति यावत् । गतिः पदवी । गन्तव्या अनुसत्र्त्तव्या । अमुना मद्भर्त्रा कामपालेन । युवतिजनानुकूलः स्त्री- जनोचितः । पश्चिमः अन्त्यश्चरम इति यावत् । विधिः दाहादिः । अनुज्ञातव्यः- आदेष्टव्यः । ( १६ ) सः सिंहघोषः निवेदितः ज्ञापितः । नियतमवश्यम् । अनुज्ञास्यति- अनुमोदिष्यते । काण्डपटीति-जवनिकापरिवृते । विविक्तोद्देशे—निर्जनप्रदेशे । दर्भसंस्तरणं-कुशरचितशय्याम् । अधिशाय्य-शाययित्वा । स्वयंकृतेति-स्वयमेव नखन्धेन कृतं रचितमनुमरणस्य सहमरणस्य मण्डनं भूषणं यया तथाभूतया। त्वया-कान्तिमत्या । संनिधेयं-संनिधौ स्थातव्यम् । अहं अर्थपालः । बाह्यकक्षा- गतः-बहिः प्रकोष्ठस्थितः । प्रवेशयिष्ये-प्रविष्टो भविष्यामि । प्रपूर्वकविशधातोर्र्णि जन्तात्कर्मणि लृट् । पितरं-कामपालम् । उज्जीव्य-जीवयित्वा । तदभिरुचितेन- आप (माताजी) राजाके समीप निर्भय हो करके यह कहला दीजिये कि 'यही क्षत्रियोंका धर्म है कि बन्धु हो अथवा अबन्धु हो, जो भी दुष्ट कार्य करे उसे दण्ड देना चाहिये । महिलाओंका भी यह धर्म है कि उनका पति योग्य हो अथवा अयोग्य, उसकी मृत्युके पश्चात् उसीकी गतिका अनुगमन करें । अत एव मैं अपने पतिके साथ चिताग्निमें प्रवेश करूंगी । युवतियोंके लिये श्रेयस्कर इस पिछली विधिको करनेकी आप मुझे आज्ञा दें ।' ( १६ ) वह राजा ऐसे निवेदनपर अवश्य आज्ञा दे देगा । इसके अनन्तर सर्पसे दंशित पिताजीको अपने गृहमें ला करके परदेके अन्दर एकान्त स्थलमें कुशोंके आसनों- पर सुला दूंगा । आप भी (माताजी) उस समय सती होनेवाले योग्य वेशको सजा करके उसो स्थलके समीपमें उपस्थित रहें । मैं भी उसी स्थलके बाहरी दरवाजेपर बैठा रहूँगा, आप मुझे भीतर करा लीजियेगा । तत्पश्चात् मैं पिताजीको जिला करके उनकी इच्छाके अनुसार जो उचित यत्न होगा सो करूंगा । वह पूर्णभद्र 'तथा' स्वीकार है ऐसा कह कर के Nepal Sanskrit University, Balmeeki Campus, Kathmandu

[Header] चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २७५

इति । स 'तथा' इति हृष्टतरस्तूर्णमगमत् । अहं तु घोषणस्थाने चिञ्चावृक्षं घनतरविपुलशाखमारुह्य गूढतनुरतिष्ठम् । आरूढश्च लोको यथायथमुच्चैः- स्थानानि । उच्चावचप्रलापाः प्रस्तुताः । (१७) तावन्मे पितरं तस्करमिव पश्चाद्बद्धभुजमुद्धुरध्वनिमहाजना- नुयातमानीय मदभ्याश एव स्थापयित्वा मातङ्गास्त्रिरघोषयत् — 'एष मन्त्री कामपालो राज्यलोभाद्भर्तारं चण्डसिंहम्, युवराजं चण्डघोषं च विषा- न्नेनोपांशु हत्वा पुनर्देवोऽपि सिंहघोषः पूर्णयौवन इत्यमुष्मिन्पापमाच- रिष्यन्विश्वासाद्रहस्यभूमौ पुनरमात्यं शिवनागमाहूय स्थूणमङ्गारवर्षं च

पितुरभिमतेन । इत्यन्तं मातरमुद्दिश्य पूर्णभद्रं प्रति अर्थपालवचनम् । स पूर्ण- भद्रः । अहं-अर्थपालः । घोषणस्थाने-यत्र डिण्डिमेन घोषणा क्रियते तत्र । चिञ्चा- वृक्षं-तिन्तिडीवृक्षम् । घनतरविपुलशाखम्-सान्द्रतरविशालविटपम् । चिञ्चावृक्ष- विशेषणमेतत् । गूढतनुः-गुप्तशरीरः । लोकः-दर्शकजनः । उच्चावचप्रलापाः-नाना- विधालापाः । प्रस्तुता आरब्धाः । (१७) तावत् एतदभ्यन्तरे । उद्धुरेति-उद्धुरः संकुलो ध्वनिः शब्दो यस्य तादृशो यो महाजनो जनसमूहस्तेनानुयातमनुसृतम् । मदभ्याशे-मत्समीपे । मातङ्गः-चण्डालः । त्रिः-त्रिवारम् । उपांशु-निर्जने । अमुष्मिन्-सिंहघोषे । विश्वा- सात्-विश्वासमास्थायेति ल्यब्लोपे पंचमी । रहस्यभूमौ-निर्जनप्रदेशे । स्थूणोऽ- ङ्गारवर्षश्चेति द्वौ राजानुचरौ उपजप्य-भेदयित्वा । तैः शिवनागादिभिः । विवृत-

तत्क्षण ही प्रसन्न वदन होकर उस जगहसे चला गया। मैं गुप्त रीतिसे साँपको लेकर एक विशाल तथा घनी शाखावाले तिन्तिडीवृक्षके ऊपर जा बैठा। इसी स्थानपर मेरे पिताके नेत्र निकालनेकी घोषणा की गयी थी। अनेक स्त्री-पुरुष यथायोग्य ऊँचे-ऊँचे स्थानोंपर बैठकर तमाशा देखनेके लिये एकत्र हो गये थे। नाना रूपोंमें नाना वार्त्ताएँ सुनाई देती थीं। (१७) इतनेमें ही भीड़के साथ आगे-आगे मेरे पिता कामपालको चोरके समान पीछे हाथ करके बाँधे हुए बड़े कोलाहलके साथ (चाण्डाल) वहाँपर मेरे समीपमें ही ले आये और वहाँपर पिताको खड़ाकर चाण्डालोंने तीन बार जोरसे चिल्लाकर कहा— 'इस सचिव कामपालने राज्यके लोभसे राजा चण्डसिंह और उनके बड़े लड़के चण्डघोषको विषसे मिश्रित अन्न खिला करके मार डाला। अब इसने पूर्ण तरुणावस्थासे परिव्याप्त महाराज सिंहघोषको मारनेका पापाचरण किया और विश्वास दिलाकर महाराजके मन्त्री शिवनाग तथा अनुचरण स्थूण अङ्गारवर्षका राजासे भेदभाव करा दिया और उन लोगोंसे

२७६ दशकुमारचरितम् । [ उत्तरपीठिकायां

२७६ दशकुमारचरितम् । [ उत्तरपीठिकायां राजवधायोपजप्य तैः स्वामिभक्त्या विवृतगुह्यो 'राज्यकामुकस्यास्य ब्रा- ह्मणस्यान्धतमसप्रवेशो न्याय्य' इति प्राड्विवाकवाक्यादक्ष्युद्धरणाय नीयते । पुनरन्योऽपि यदि स्यादन्यायवृत्तिस्तमप्येवमेय यथार्हेण दण्डेन योजयिष्यति देवः' इति । (१८) श्रुतैतद्बद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिरसमाशीविषं व्यक्षिपम् । अहं च भीतो नामावप्लुत्य तत्रैव जनादनुलीनः क्रुद्धव्यालद- ष्टस्य तातस्य विहितजीवरक्षो विषं क्षणादस्तम्भयम् । अपतच्चैष भूमौ मृतकल्पः । प्रालपं च 'सत्यमिदं राजावमानिनं दैवो दण्ड एव स्पृशतीति । गुह्यः-प्रकाशितगुप्तरहस्यः । कामपालविशेषणमेतत् । राज्यकामुकस्य राज्याभि- लाषिणः। अन्धतमसप्रवेशः-अन्धतमसे घोरान्धकारे प्रवेशो मृत्युरित्यर्थः । न्याय्यः उचितः । प्राड्विवाकवाक्यात् । व्यवहारद्रष्टुरादेशात् । अक्ष्युद्धारणाय नयनो- त्पाटनाय । नीयते वध्यभूमिमिति शेषः । अन्योऽपि-अपरोऽपि । अन्यायवृत्तिः- दुष्टाचारः । यथार्हेण-यथायोग्येन । (१८) बद्धकलकले-आरब्धकोलाहले । प्रदीप्तशिरसं-उदीर्णफणम् । व्यक्षिपं विक्षिप्तवान् । भीतो नाम भीत इव । नामेत्यलीक सम्भावनायाम् । अवप्लुत्य- च्छिन्नवृक्षादवरुह्य । जनादनु-जनस्य पश्चात् लीनः गुप्तः । क्रुद्धव्यालदष्टस्य-कुपित- सर्पभक्षितस्य । विहितेति-विहिता कृता जीवस्य प्राणस्य रक्षा येन सः । एषः मत्पिता । मृतकषः-मृततुल्यः । प्रालपं-अकथयम् । सत्यमित्यादि-इदं वक्ष्य- माणं वाक्यं सत्यं यथार्थं यत्-दैवो दैवपातितो दण्ड एव राजावमानिनं राजा- एकान्तमें राजाके वधरूप गुप्त रहस्यको प्रकट कर दिया । परन्तु, उन दोनों स्वामि- भक्तोंने इस बातको अस्वीकार कर दिया और इस रहस्यका भण्डाफोड़ भी कर दिया । राज्याभिलाषी इस ब्राह्मणको घोरान्धकारमें प्रवेश कराकर मार डाला जाय । यही उचित है । अतः न्यायाधीशके आदेशानुसार इसकी आँखें निकालनेके लिये हम लोग ले आये हैं । यदि भविष्यमें कोई भी ऐसा अपराध करेगा तो, वह भी इसी प्रकार राजदण्ड पावेगा ।' (१८) इस वृत्तको श्रवण करनेके पश्चात् ज्यों ही कोलाहल शुरू हुआ त्यों ही मैंने अपने पिता कामपालके शरीरपर विशाल फनवाले नागको गिरा दिया । उतरकर मैंने उन्हीं दर्शकोंकी भीड़में क्रुद्ध नागके द्वारा दंशित पिताको अपने मन्त्रौषधिके प्रभावसे उसी क्षण स्तम्भित कर दिया—जिससे नागका विष चढ़ने न पावे । वे मेरे पिता पृथ्वीपर मृतकके तुल्य गिर पड़े वहाँ यह चर्चा (प्रलाप) भी मैंने प्रारम्भ कर दी कि, 'अवश्य इस कामपालने अपराध किया है और उसका प्रतिफल भी इसे ईश्वरने दे दिया ।' राजाने

Here is the text transcribed from the image in Devanagari script, preserving the structure line by line with line markers.

चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २९७ यदयमक्षिभ्यां विनावनिपेन चिकीर्षितः, प्राणैरेव वियोजितो विधिना' इति । मद्युक्तं च केचिदन्वमन्यन्त, अपरे पुनर्नानिन्दुः । दर्वीकरस्तु तम- पि चण्डालं दष्ट्वा रूढत्रासद्रुतलोकदत्तमार्गः प्राद्रवत् । ( १६ ) अथ मदम्बा पूर्णभद्रबोधिताथां तादृशेऽपि व्यसने नातिवि- ह्वला कुलपरिजनानुयाता पद्भ्यामेव धीरमागत्य मत्पितुरुत्तमाङ्गमुत्स- ङ्गेन धारयन्त्यासित्वा राज्ञे समादिशत् - एष मे पतिस्तवापकर्ता न वेति दैवमेव जानाति । न मेऽनयास्ति चिन्तया फलम् । अस्य तु पाणिग्राहकस्य गतिमननुप्रपद्यमाना भवत्कुलं कलङ्कयेयम्' । अतोऽनुमन्तुमर्हसि भर्त्रा पथ्यकारिणं जनं स्पृशतीति । अयं मन्त्री कामपालः अवनिपेन राज्ञा अक्षिभ्यां विना नेत्ररहितश्चिकीर्षितः कर्तुमिष्टः । विधिना दैवेन पुनः प्राणैरेव वियोजितः पृथक् कृतः। मदुक्तं एतन्मम वचनम् केचित्-कतिपये अन्वमन्यन्त-अनुमोदित- वन्तः । अपरे-केचन । दर्वीकरः सर्पः । दष्ट्वा दंशनं कृत्वा । रूढत्रासेति-रूढ उत्पन्नो यन्नासो भयं तेन द्रुतः पलायितो यो लोकस्तेन दत्तो मार्गों निर्गमनाय पन्था यस्य सः । प्राद्रवत् पलायिष्ट । ( १९) पूर्णभद्रेति-पूर्णभद्रेण बोधितो ज्ञापितोऽर्थो विषयो यस्याः सा । तादृशे-तथाविधे दारुणे । व्यसने-विपदि । नातिविह्वला-नातिव्याकुला । कुल- परिजनानुयाता-स्ववंशीयसखीजनपरिवृता । धीरं-मन्दम् । उत्तमाङ्गं मस्तकम् । उत्संगेन-क्रोडदेशेन । आसित्वा-उपविश्य । अपकर्ता-अपकारी फलं-प्रयोजनम् । पाणिग्राहकस्य-पत्युः । अननुप्रपद्यमाना-अनभिसरन्ती । भवत्कुलं-भवद्गोत्रम् । कलङ्कयेयं-मालिन्याङ्कितं कुर्याम् । एतत्कुलोत्पन्ना सती यदि मृतस्य पत्युरनुगमनं तो, इसे नेत्रहीन बनाने की आज्ञा दी थी, किन्तु, दैवने इसके प्राणों को ही हर लिया।' उपर्युक्त मेरे कथनका कोई अनुमोदन करते थे और कोई-कोई इस कथनकी निन्दा करते थे । उस भयङ्कर नागने चाण्डालको भी डस लिया और जब नागके डरसे भीड़ भागी तो, रास्ता पाकर वह नाग भी भाग गया । ( १९) तदनन्तर मेरी माता कान्तिमती जिन्हें पूर्णभद्रद्वारा सारा वृत्त ज्ञात हो चुका था, ऐसे कष्टके समयमें भी नहीं घबड़ायी ( व्याकुल न हुई) तथा अपने वंशके परिजनोंके साथ मन्द-मन्द पावोंसे आकर मेरे पिताके शिरको अपनी गोदमें धरकर बैठ गयीं। और राजाके समीप प्रार्थना भेजी कि, 'ये मेरे पति आपके अपकारी है अथवा नहीं, यह तो केवल परमेश्वर ही जानते हैं। इस बातकी चिन्ता करनेसे मुझे कोई फल नहीं । यदि मैं अपने इस पाणिग्रहण करनेवाले पतिकी गतिका अनुसरण न करूंगी तो, मैं आपके

२७८ दशकुमारचरितम् । [ उत्तरपीठिकायां

२७८ दशकुमारचरितम् । [ उत्तरपीठिकायां सह चिताधिरोहणाय माम्' इति । श्रुत्वा चैतत्प्रीतियुक्तः समादिक्षत्क्षि- तीश्वरः—'क्रियतां कुलोचितः संस्कारः । उत्सवोत्तरं च पश्चिमं विधिसं- स्कारमनुभवतु मे भगिनीपतिः' इति । (२०) चण्डाले तु मत्प्रतिषिद्धसकलमन्त्रवादिप्रयासे संस्थिते 'काम- पालोऽपि कालदष्ट एव' इति स्वभवनोपनयनममुष्य स्वमाहात्म्यप्रकाश- नाय महीपतिरन्वमंस्त । आनीतश्च पिता मे विविक्तायां भूमौ दर्भशय्या- मधिशाय्य स्थितोऽभूत् । ( २१ ) अथ मदम्बा मरणमण्डनमनुष्ठाय सकरुणं सखीरामन्त्र्य, मुहुश्चिप्रणम्य भवनदेवता यत्ननिवारितपरिजनाक्रन्दिता पितुर्मे शयन- न करिष्यामि तर्हि ऐहिकसुखासक्ता पातिव्रत्योचितं नानुष्ठितवतीति जना मां निन्दिष्यन्तीति भावः । अनुमन्तुं अनुज्ञातुम् । उत्सवोत्तरं उत्सवप्रधानम् । पश्चि- मम्-अन्त्यम् । विधिसंस्कारम्-अन्त्येष्टिपद्धत्युक्तदाहक्रियाम् । ( २९ ) चण्डाले-पूर्वमेव सर्पदष्टे घोषणाकारिणि । मत्प्रतिषिद्धेति-मयाऽ- र्थपालेन प्रतिषिद्धो रुद्धः सकलानां मन्त्रवादिनां गारुडिकानां प्रयासो विषापहर- णप्रयत्नो यस्मिन्-तथाभूते । संस्थिते-मृते सति । अमुष्य-कामपालस्य । स्वमा- हात्म्यप्रकाशनाय-स्वीकीयोदारताप्रकटनार्थम् । अन्वमंस्त-अनुमोदितवान् । ( २१ ) मरणमण्डनं-मृत्युकालोचितभूषणम् । सखीः-सहचरीः । भवनदेवताः- गृहदेवताः । अभिप्रणम्येत्यस्य कर्म । यत्ननिवारितेति यत्नेन निवारितं परिजनस्य स्वजनवर्गस्याक्रन्दितं विलापो यया सा । वैनतेयतां गरुडताम् । गतेन-प्राप्तेन- कुलको कलङ्कित करनेवाली कहलाऊँगी । अतएव आप पतिके साथ चितामें अधिरोहण करनेकी मुझे अनुमति देने योग्य हैं।' इन बातोंको सुनकर राजाने प्रेमपूर्वक आदेश दिया कि, 'वंशके अनुकूल संस्कार करिये और उत्सव मनानेके अनन्तर कहा कि, मेरी बहिनके पतिका अन्तिम संस्कार विधिसे हो।' ( २० ) मुझे छोड़कर और सभी मन्त्रशास्त्रियोंने उस दंशित चाण्डालकी झाड़ फूँक की, किन्तु, वह सब व्यर्थ सिद्ध हुई । 'कामपालको भी कालने ही डस लिया है' ऐसा जानकर राजाने अपनी उदारता दिखानेके लिये कामपालको घर ले जानेकी अनुमति दे दी। लोगोंने मेरे पिताको लाकर एकान्त पृथ्वीतलपर कुशाकी शय्यापर लिटा दिया। ( २१ ) तदनन्तर मेरी माता कान्तिमतीने मृत्युकालका वेष रचकर करुणायुक्त होकर सहचरीवर्गोंको बुलाया । भवनदेवताको बार-बार प्रणाम किया । यत्नके साथ अपनी

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २७६ स्थानमेकाकिनी प्राविक्षत् । तत्र च पूर्वमेव पूर्णभद्रोपस्थापितेन च मया वैनतेयतां गतेन निर्विषीकृतं भर्तारमैक्षत । हृष्टतमा पत्युः पादयोः पर्यश्रुमुखी प्रणिपत्य मां च मुहुर्मुहुः प्रस्नुतस्तनी परिष्वज्य सहर्षबाष्प- गद्गदमगदत्—'पुत्र, योऽसि जातमात्रः पापया मया परित्यक्तः, स किमर्थमेवं मामतिनिर्घृणामनुगृह्णासि । अथवैष निरपराध एव ते जन- यिता । युक्तमस्य प्रत्यानयनमन्तकाननात् । क्रूरा खलु तारावली या त्वामुपलब्ध्यापि तत्त्वतः कुबेरादसमर्प्य मह्यमर्पितवती देव्यै वसुमत्यै सैव वा सदृशकारिणी । नहि तादृशाद्भाग्यराशेर्विना मादृशो जनोऽल्पपु- ण्यस्त्वार्हति कलप्रलापामृतानि कर्णाभ्यां पातुम् । एहि, परिष्वजस्व' इति

गारुडविद्यायां कुशलेनेत्यर्थः । निर्विषीकृतं विषशून्यम् । पर्यश्रुमुखी परिगतमश्रु नयनजलं यत्र तादृशं मुखं यस्याः सा । प्रणिपत्येत्यस्य पत्युः पादयोरित्यनेन सम्बन्धः । प्रस्नुतस्तनी क्षरतपयोधरा । सहर्षेति-हर्षेणानन्देन सह यद्बाष्पमश्रु तेन गद्गदम् । जातमात्रः उत्पन्न एव । किमर्थं कथम् । एवं एतेन प्रकारेण पत्युः प्राणदानेनेति भावः । अतिनिर्घृणाम् अतिनिष्क करुणाम् । जनयिता पिता काम- पालः । युक्तमुचितम् । अस्य पितुः । अन्तकाननात् मृत्युमुखात् । क्रूरा निर्दया । उपलभ्य-ज्ञात्वा । तत्त्वतः-याथार्थ्येन । कुबेरादिति-कुबेरेणैवार्थपालस्य जन्म- वृत्तान्तः प्रकाशित आसीदिति भावः । असमर्प्य-अदत्त्वा । सैव-तारावल्येव । सदृशकारिणी-उचितविधात्री । तादृशात्-वसुमतीश्रूपात् । भाग्यराशेः-प्रचुर- सौभाग्यशालिजनात् । विनायोगे पञ्चमी । अल्पपुण्यः-अल्पं पुण्यं यस्यासौ । कलप्रलापेति-कलोऽव्यक्तमधुरो यः प्रलापो भाषणं तदेवामृतं सुधा तानि । पातुं-

सहचारियोंके विलापको रोका । मेरे पिताके शयनगृहमें प्रवेश किया । वहाँपर मैने पहलेसे ही पूर्णभद्रके प्रबन्धसे गारुडविद्याद्वारा पिताको विषरहित बना दिया । उन पिताजी के उन्होंने दर्शन किये । हर्षित होकर उन्होंने आँखोंमें आंसू भरकर अपने पतिके पैर पड़े । स्तनोंसे दूध टपकती हुई ( मेरी माता ) मेरा बार-बार आलिङ्गन करके तथा हर्षाश्रुओंसे गद्गद होकर बोलीं—'हे पुत्र ! तुम क्यों अति निष्करुणा करनेवाली मुझपर दया करते हो ? क्योंकि मुझ पापिनीने तो, तुम्हें उत्पन्न होते ही परित्याग दिया था । अथवा तुम्हारा पिता कामपाल निरपराधी है । इनको कालके मुखसे बचा लेना योग्य ही है । तारावली यक्षिणी भी बड़ी निष्ठुर है । जिसने भगवान् कुबेरके द्वारा तुम्हारा पूर्ण परिचय पाकर भी मुझे समर्पित न किया । अपितु, देवी वसुमतीको समर्पण किया जो उसीके समान योग्य धात्री हैं । विना ऐसी भाग्य-

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

२८० दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

२८० दशकुमारचरितम् । [ उत्तरपीठिकायां

भूयोभूयः शिरसि जिघ्रन्त्यङ्कमारोपयन्ती, तारावलीं गर्हयन्त्यालिङ्गन्त्य- श्रुभिरभिषिञ्चती चोत्कम्पिताङ्गयष्टिरन्यादृशीव क्षणमजनिष्ट । (२२) जनयिताऽपिमे नरकादिव स्वर्गम्, तादृशाद् व्यसनात्तथाभूत- मभ्युदयमारूढः पूर्णभद्रेण विस्तरेण यथावृत्तान्तमावेदितो भगवतो मघ- वतोऽपि भाग्यवन्तमात्मानमजीगणत् । मनागिव च मत्संबन्धमाख्याय हर्षविस्मितात्मनोः पित्रोरकथयम्—'आज्ञापयतं काद्य नः प्रतिपत्तिः' इति । पिता मे प्राब्रवीत्—'वत्स, गृहमेवेदमस्मदीयमतिविशालप्राकार-

श्रोतुमित्यर्थः । जिघ्रन्ती-घ्राणं कुर्वती । अङ्कमारोपयन्ती-अर्थपालं उत्सङ्गे समुप- वेशयन्ती । गर्हयन्ती-निन्दन्ती । अभिषिञ्चती-आर्द्रीकुर्वती मामिति-शेषः । उत्कम्पितेति-उत्कम्पिता जातोत्कम्पा अङ्गयष्टिः शरीरलता यस्याः सा । अन्या- दृशी-अन्याकारा । क्षणं-मुहूर्त्तं व्याप्य । अजनिष्ट-जाता । (२२) नरकादिव स्वर्गमिति-यथा कश्चिन्नरकात्स्वर्गमारोहति तथा मे पिता कामपालोऽपि । तादृशात्-नरकसदृशात् । व्यसनात्-नेत्रोत्पाटनरूपाद् दुःखात् । तथाभूतं-तादृशं पुनर्जीवनपुत्रप्राप्तिरूपम् । अभ्युदयमभ्युन्नतिम् । आरूढः-प्राप्तः सन् । यथावृत्तान्तं-वृत्तान्तमनातिक्रम्य-यथायथरूपेणेत्यर्थः । आवेदितः-कथितः । मघवतः-इन्द्रात् । मनाक्-स्वल्पम् । मत्संबन्धं-स्वविषयम् । हर्षेति-हर्षेणानन्देन विस्मित आश्चर्य्यान्वित आत्मा ययोस्तादृशयोः । पित्रोः-मातापित्रोः समीपे इति शेषः । आज्ञापयतं युवामिति योज्यम् । का-कीदृशी । नोऽस्माकम् । प्रतिपत्तिः- इतिकर्त्तव्यता । अतिविशालेति-अतिविशालोऽतिविस्तीर्णः प्राकारवलयः प्राचीर-

शालिनीके मेरे समान अल्प पुण्यवाले व्यक्ति तुम्हारे अव्यक्त मधुर भाषणरूपी सुधाको कणोंद्वारा पान नहीं कर सकते हैं। यहाँ आओ आलिङ्गन दो। इस प्रकारसे उन्होंने पुनः पुनः मेरे शिरको सूँघते हुए मुझे गोदमें बिठाया । तारावलीकी निन्दा करते हुए मेरा आलिङ्गन किया। आसुओंसे मुझे भिंगाया । शरीर को कंपाते हुए क्षणभर अपूर्व आकृति दर्शायी । (२२) पूर्णभद्रके द्वारा मेरे पिताने, सम्पूर्ण विस्तृत वृत्तको ज्ञातकर अपनेको उस कष्टसे रहित पाकर अपूर्व अभ्युदयकी प्राप्तिका अनुभव किया। जैसे नरकसे छूटकर उन्होंने स्वर्गका आनन्द प्राप्त किया हो ] वे अपनेको भगवान् इन्द्रसे अधिक भाग्यशाली मानने लगे। थोड़ासा अपना समाचार सुनाकर मैंने हर्ष और आश्चर्यके साथ अपने जननी-जनकसे कहा—'आज्ञा दीजिये कि, अब मेरा क्या कर्त्तव्य है।' मेरे पिताने कहा- हे वत्स ! यहाँपर मेरा अत्यन्त विशाल भित्तिवलयवाला (चहारदीवारीसे घिरा) गृह है

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २८१

वलयमक्षय्यायुधस्थानम् । अलङ्घ्यतमा च गुप्तिः । उपकृताश्च मयाति- बहवः सन्ति सामन्ताः । प्रकृतयश्च भूयस्यो न मे व्यसनमनुरुध्यन्ते । सुभटानां चानेकसहस्रमस्त्येव ससुहृत्पुत्रदारम् । अतोऽत्रैव कतिपयान्य- हानि स्थित्वा बाह्याभ्यन्तरज्ञांन्कोपानुत्पादयिष्यामः । कुपितांश्च संगृह्य प्रोत्साह्यास्य प्रकृत्यमित्रानुत्थाप्य सहजांश्च द्विषः, दुर्दान्तमेनमुच्छेत्स्यामः' इति । 'को दोषः, तथास्तु' इति तातस्य मतमन्वमंसि । (२३) तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो

मण्डलं यस्य तत् । अक्षय्येति-अक्षय्याणामपरिमितानामायुधानाम्स्त्राणां स्थानं पात्रम् । विशेषणद्वयं गृहस्य । अलंघ्यतमा-अतिशयेनानतिक्रमणीया परैरिति शेषः । गुप्तिः रक्षा भूगृहं वा । उपकृताः कृतोपकाराः । सामन्ताः अधीननृपतयः । प्रकृ- तयः-प्रजाः । भूयस्योऽसंख्याः । व्यसनमनिष्टम् । अनुरुध्यन्ते-अनुमन्यन्ते । ममा- निष्टं नेच्छन्तीत्यर्थः । सुभटानां सुयोधूणाम् । ससुहृत्पुत्रदारं स्वस्वमित्रपुत्रकुटुम्बा- दिसहितम् । अत्रैव-अस्मद्गृह एव । बाह्याभ्यन्तेति-बाह्यान् बहिरङ्गान् प्रकृति- सम्बन्धिनः तथा अभ्यन्तरङ्गान् अमात्यादिसम्बन्धिनः कोपान् क्रोधान् । संगृह्य- वशमानीय । प्रोत्साह्य धनमानादिना प्रोत्साहितान् कृत्वा । अस्य सिंहघोषस्य । प्रकृत्यमित्रान्-प्राकृतशत्रून् । सहजान् द्विषः-सहजशत्रून् । उत्थाप्य-तद्विरोधाय प्रोत्साह्य । दुर्दान्तं-दुर्धर्षम् दुर्विनीतं वा । एनं सिंहघोषम् । उच्छेत्स्यामः-समूल- मुन्मूलयिष्यामः । मतमभिप्रेतम् । अन्वमंसि-अनुमोदितवान् । (२३) तथा तेन पूर्वोक्तेन प्रकारेण । प्रतिविधाय-प्रतिविधानं कृत्वा । राजा- सिंहघोषः । विज्ञापितोदन्तः-विदितवार्त्तः । जातानुतापः-कृतानुशोचनः । पार-

और नाश न होनेवाले शस्त्रोंके रखनेका भी स्थान है । अलंघनीय रक्षागृह (तहखाने) हैं। मेरेद्वारा उपकृत अनेकों सामन्तगण हैं। असंख्य प्रजावर्ग हैं जो मेरे दुःखको नहीं सहन कर सकते हैं। कई हजार योद्धा हैं जो अपने मित्र-स्त्री-पुत्रादिकों सहित (मेरी ओर)। हैं अतः इसी जगह कुछ दिनों रहकर बहिरङ्ग तथा अन्तरङ्ग व्यक्तियोंमें वैर कराऊँगा। और वैरीयोंको (क्रोधी व्यक्तियोंको) एकत्र कर उन सबको प्रोत्साहन दूंगा । फिर इस राजा सिंहघोषके प्रकृत शत्रु तथा सहज बैरियोंको उभार करके इस दुर्विनीत राजाको नष्ट करा दूंगा', 'क्या दोष है स्वीकार है'। ऐसा कहकर मैंने पिताकी बातोंको अनुमोदन किया । (२३) जब हम लोगोंने ऐसा प्रतिविधान रचा और स्थिर हुए । तब राजा सिंहघोषने इन सब वृत्तान्तोंको ज्ञात करके अत्यन्त शोच प्रकट किया । और उसने पारिश्रामिक

Nepal Sanskrit University, Balmeeki Campus, Kathmandu