भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 276, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 276

२७६ दशकुमारचरितम् । [ उत्तरपीठिकायां राजवधायोपजप्य तैः स्वामिभक्त्या विवृतगुह्यो 'राज्यकामुकस्यास्य ब्रा- ह्मणस्यान्धतमसप्रवेशो न्याय्य' इति प्राड्विवाकवाक्यादक्ष्युद्धरणाय नीयते । पुनरन्योऽपि यदि स्यादन्यायवृत्तिस्तमप्येवमेय यथार्हेण दण्डेन योजयिष्यति देवः' इति । (१८) श्रुतैतद्बद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिरसमाशीविषं व्यक्षिपम् । अहं च भीतो नामावप्लुत्य तत्रैव जनादनुलीनः क्रुद्धव्यालद- ष्टस्य तातस्य विहितजीवरक्षो विषं क्षणादस्तम्भयम् । अपतच्चैष भूमौ मृतकल्पः । प्रालपं च 'सत्यमिदं राजावमानिनं दैवो दण्ड एव स्पृशतीति । गुह्यः-प्रकाशितगुप्तरहस्यः । कामपालविशेषणमेतत् । राज्यकामुकस्य राज्याभि- लाषिणः। अन्धतमसप्रवेशः-अन्धतमसे घोरान्धकारे प्रवेशो मृत्युरित्यर्थः । न्याय्यः उचितः । प्राड्विवाकवाक्यात् । व्यवहारद्रष्टुरादेशात् । अक्ष्युद्धारणाय नयनो- त्पाटनाय । नीयते वध्यभूमिमिति शेषः । अन्योऽपि-अपरोऽपि । अन्यायवृत्तिः- दुष्टाचारः । यथार्हेण-यथायोग्येन । (१८) बद्धकलकले-आरब्धकोलाहले । प्रदीप्तशिरसं-उदीर्णफणम् । व्यक्षिपं विक्षिप्तवान् । भीतो नाम भीत इव । नामेत्यलीक सम्भावनायाम् । अवप्लुत्य- च्छिन्नवृक्षादवरुह्य । जनादनु-जनस्य पश्चात् लीनः गुप्तः । क्रुद्धव्यालदष्टस्य-कुपित- सर्पभक्षितस्य । विहितेति-विहिता कृता जीवस्य प्राणस्य रक्षा येन सः । एषः मत्पिता । मृतकषः-मृततुल्यः । प्रालपं-अकथयम् । सत्यमित्यादि-इदं वक्ष्य- माणं वाक्यं सत्यं यथार्थं यत्-दैवो दैवपातितो दण्ड एव राजावमानिनं राजा- एकान्तमें राजाके वधरूप गुप्त रहस्यको प्रकट कर दिया । परन्तु, उन दोनों स्वामि- भक्तोंने इस बातको अस्वीकार कर दिया और इस रहस्यका भण्डाफोड़ भी कर दिया । राज्याभिलाषी इस ब्राह्मणको घोरान्धकारमें प्रवेश कराकर मार डाला जाय । यही उचित है । अतः न्यायाधीशके आदेशानुसार इसकी आँखें निकालनेके लिये हम लोग ले आये हैं । यदि भविष्यमें कोई भी ऐसा अपराध करेगा तो, वह भी इसी प्रकार राजदण्ड पावेगा ।' (१८) इस वृत्तको श्रवण करनेके पश्चात् ज्यों ही कोलाहल शुरू हुआ त्यों ही मैंने अपने पिता कामपालके शरीरपर विशाल फनवाले नागको गिरा दिया । उतरकर मैंने उन्हीं दर्शकोंकी भीड़में क्रुद्ध नागके द्वारा दंशित पिताको अपने मन्त्रौषधिके प्रभावसे उसी क्षण स्तम्भित कर दिया—जिससे नागका विष चढ़ने न पावे । वे मेरे पिता पृथ्वीपर मृतकके तुल्य गिर पड़े वहाँ यह चर्चा (प्रलाप) भी मैंने प्रारम्भ कर दी कि, 'अवश्य इस कामपालने अपराध किया है और उसका प्रतिफल भी इसे ईश्वरने दे दिया ।' राजाने