दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 271, कुल 474 में से
संदर्भ में पढ़ेंपदिष्ट्रा प्रणयमप्युपेक्ष्य रहसि भर्त्रा प्रणम्यमानाप्यस्माभिरुपोढमत्सरा प्रावसत् । अवसीदति च नः पतिः । अतो मे दौर्मनस्यम्' इति । (१३) तत्प्रायेणैकान्ते सुलक्षणया कान्तया कथितम् । 'अथासौ निर्भयोऽद्य प्रियतमाविरहपाण्डुभिरवयवैर्धैर्यस्तम्भिताश्रुपर्याकुलेन चक्षु- षोष्मश्वासशोषिताभिरिवानतिपेशलाभिर्वाग्भिर्वियोगं दर्शयन्तम्, कथ- मपि राजकुले कार्याणि कारयन्तम्, पूर्वसंकेतितैः पुरुषैरभिग्राह्याबन्ध- यत् । तस्य किल स्थाने स्थाने दोषानुद्घोष्य तथोद्धरणीये चक्षुषी यथा
उपेक्ष्य-अगणयित्वा । प्रणम्यमाना-सप्रणाममावेद्यमाना । उपोढमत्सरा-सञ्जात- द्वेषा । प्रावसत्-देशान्तरं गतवती । अवसीदति-अवसादं गच्छति-क्लिश्यतीति यावत् । दौर्मनस्यं-दुःखितचित्तत्वम् । (१३) तत् क्षान्तिमत्या दौर्मनस्यकारणम् । प्रायेण बाहुल्येन । कथितं सिंहघोषायेति शेषः । असौ सिंहघोषः । निर्भयः-तारावलीप्रवासाद् भीतिरहितः । प्रियतमेति-प्रियतमायास्तारावल्या विरहेण विच्छेदेन पाण्डुभिर्विवर्णैः । अव- यवैरङ्गैः । धैर्येति-धैर्येण धीरतया स्तम्भितमवरुद्धं अश्रु नेत्रजलं तेनाकुलं व्याप्तं तेन । ऊष्मश्वासेति-ऊष्मश्वासेन दीर्घनिःश्वासवायुना शोषिताभिः क्षीणाभिः । अनतिपेशलाभिः-अनतिकोमवाभिः । वियोगं विरहम् । दर्श- यन्तं प्रकटयन्तम् । कथमपि अतिकृच्छ्रेण । कारयन्तं साधयन्तं कामपालमिति शेषः । पूर्वसंकेतितैः । प्राक्सूचितैः । अभिग्राह्य ग्राहयित्वा । अबन्धयत्-बन्धनम- नयत् । तस्य कामपालस्य । उद्घोष्य-प्रकटीकृत्य । तथा तेन प्रकारेण । उद्ध-
आपको स्मरण आता है कि मै आपसे कभी भी झूठ बोला हूं । मेरी सखी तारावली यक्षिणी जो मेरी सपत्नी भी है वह बड़ी मलिनाभिप्रायवाली है । कदाचित् एकान्तमें पतिद्वारा मेरे नामसे उसे सम्बोधित किया गया । बस, इसी बातपर वह रुष्ट हो गयी । इसपर पतिदेवने प्रणाम भी किया किन्तु उसका क्रोध शान्त न हुआ और मारे ईर्ष्याके वह कहीं दूर देश चली गयी । इस हेतु मेरे पति उदास रहते हैं और पतिकी उदासीसे मैं भी उदास रहती हूँ । (१३) इन बातोंको सुलक्षणने अपने पतिसे बहुलतासे एकान्तमें कह दिया । तत्पश्चात् निर्भय हो करके राजा सिंहघोषने उस कामपालको प्राक्सूचित (पूर्वसंकेतित) राजपुरुषोंके द्वारा पकड़वा कर कारागारमें डाल दिया जो कामपाल अपनी प्रियतमा तारावलीके वियोगसे पाण्डुवर्णी शरीरवाला हो रहा था, धीरतासे रोके हुए आँसुओंसे व्याकुल नेत्रवाला तथा उष्ण श्वासोंसे सूखी काठीवाला एवं कठोरवाणीके बोलनेसे अपने