दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 272, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF २७२ दशकुमारचरितम् । [ उत्तरपीठिकायां
तन्मूलमेवास्य मरणं भवेत्' इति । अतोऽत्रैकान्ते यथेष्टमश्रु मुक्त्वा तस्य साधोः पुरः प्राणान्मोक्तुकामो बध्नामि परिकरम्' इति । (१४) मयापि तत्पितृव्यसनमाकर्ण्य पर्यश्रुणा सोऽभिहितः- 'सौम्य, किं तव गोपयित्वा । यस्तस्य सुतो यक्षकन्यया देवस्य राजवाह- नस्य पादशुश्रूषार्थं देव्या वसुमत्या हस्तन्यासः कृतः सोऽहमस्मि । श- क्ष्यामि सहस्रमपि सुभटानामुदायुधानां हत्वा पितरं मोचयितुम् । अपि तु संकुले यदि कश्चित्पातयेत्तदङ्गे शस्त्रिकां सर्व एव मे यत्नो भस्मनि हुत- मिव भवेत्' इति ।
रणीये-उत्पाटनीये । यथा येन प्रकारेण । तन्मूलं-नेत्रोत्पाटनहेतुकम् । अस्य कामपालस्य । अतः अस्मात्कारणात् । एकान्ते निर्जने । यथेष्टं यथेच्छम् । तस्य साधोः-कामपालस्य । पुरोऽग्रे । परिकरं बध्नामि-उद्योगं करोमि । इत्यन्तं पूर्णभद्रवचनम् । इतः परमर्थपालवचनं बोद्धव्यम् । (१४) मया-अर्थपालेन । पितृव्यसनं पितुर्विपदम् । पर्यश्रुणा-रुदता । सः पूर्णभद्रः । गोपयित्वा अवगुह्य तव पुरो गोपनेनालमिति भावः । तस्य काम- पालस्य । यक्षकन्यया-तारावल्या । हस्तन्यासः हस्ते निःक्षेपः । सः सुतः । सुभटानां सुयोद्धृणाम् । उदायुधानां गृहीतशस्त्राणाम् । अपि तु किन्तु । संकुले- जनसंकटे । पातयेत्-निःक्षिपेत् । तदंगे-मत्पितुः शरीरे । भस्मनि हुतमिव- निरर्थकमित्यर्थः ।
हृदयकी पीड़ाको दर्शानेवाला और येन केन प्रकारेण राजकुलके राजकार्योंको करनेवाला दिखाई दे रहा था । उसके दोषोंको स्थान-स्थानपर उद्घोषित कराया गया । इन अपराधोंके बदले यह आज्ञा सुनाई गयी कि 'उसकी आँखें इस तरीकेसे निकाली जायें जिससे उसकी मृत्यु हो जाय ।' यह भी प्रयत्न किया गया ।' उस पूर्णभद्रने इस प्रकारसे वृत्तको सुना करके कहा- 'इसी क्लेशके कारण यहाँ निर्जनमें खूब आँसुओंको बहाकर उस विवेकी कामपालके आगे अपने प्राणोंको त्यागनेका उद्योग कर रहा हूँ । (१४) मैंने (अर्थपालने) अपने पिताजीके इन दुःखोंको श्रवण करके रोते हुए इस पूर्णभद्रसे कहा- 'हे भद्र ! अब आपसे गुप्त रखनेकी कोई आवश्यकता नहीं है । जिस बालकको यक्षकन्या तारावली देव राजवाहनकी पादशुश्रूषा करनेके लिए रानी वसुमतीके हाथमें धर आयी थी वह कामपालका पुत्र मैं ही हूँ । मुझमें इतनी शक्ति है कि सहस्रों
Nepal Sanskrit University, Balmeeki Campus, Kathmandu