भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 269, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 269

चतुर्थोच्छ्वासः ] बालप्रबोधिनीव्याख्यासहितम् । २६६ भूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि च श्याले चण्डघोषनाम्नि स्त्रीष्वतिप्रसङ्गात्प्रागेव क्षयक्षीणायुषि, पञ्चवर्षदेशीयं सिंहघोषनामानं कुमारमभ्यषेचयत् । अवर्धयच्च विधिनैनं स साधुः । तस्याद्य यौव- नोन्मादिनः पैशुन्यवादिनो दुर्मन्त्रिणः कतिचिदासन्नन्तरङ्गभूताः । तैः किलासावित्थमग्राह्यत—'प्रसह्यैव स्वसा तवामुना भुजङ्गेन संगृहीता पुनः प्रसुप्ते राजनि प्रहर्तुमुद्यतासिरासीत् । तेनास्मै तत्क्षणप्रबुद्धेन भीत्यानु- नीय दत्ता कन्या । तं च देवज्येष्ठं चण्डघोषं विषेण हत्वा बालोऽयमसमर्थ- मित्रभूतः । सर्वभूतानां सर्वप्राणिनाम् बन्धुरित्यनेनान्वयः । अलसकेन क्षयरोगेण । क्षयस्त्वलसको मत इति कोषः । स्वर्गते मृते । श्वशुरे चण्डसिंहे । ज्यायसि ज्येष्ठे । श्याले श्यालके पत्नीसहोदरे इति यावत् । अतिप्रसङ्गाद् अस्यासक्तेः प्रागेव पितृ- मरणात्पूर्वमेव । क्षयक्षीणायुषी-क्षयेण क्षयरोगेण क्षीणमल्पमायुर्जीवितकालो यस्य तस्मिन् । सतीति शेषः । अभ्यषेचयत् राज्येऽभिषेकमकारयत् । एनं सिंहघोषना- मानं कुमारम् । स साधुर्महात्मा कामपालः । तस्य सिंहघोषस्य । अद्य साम्प्रतम् । यौवनोन्मादिनः-तारुण्यमदगर्वितस्य । पैशुन्यवादिनः-पैशुन्यं खलत्वं वदन्ति प्रकटयन्ति ये तथाभूताः दुर्जना इत्यर्थः । दुर्मन्त्रिणो दुष्टामात्याः । कतिचित् कतिपये जनाः । आसन् अभवन् । अन्तरङ्गभूताः आप्तसराः । तैर्दुर्मन्त्रिभिः । असौ सिंहघोषः । इत्थं वक्ष्यमाणप्रकारेण । अग्राह्यत-अबोधयत । प्रसह्य-बलात् । स्वसा भगिनी-कान्तिमतीत्यर्थः । अमुना-कामपालेन । भुजङ्गेन विटेन धूर्ते- नेति यावत् । प्रसुप्ते-निद्रिते । राजनि चण्डसिंहे तव पितरीत्यर्थः । प्रहर्तुं हन्तुम् । उद्यतासिः-उत्थापितखड्गः । तेन तव पित्रा । अस्मै कामपालाय । तत्क्षणप्रबुद्धेन-तत्कालजागरितेन । देवज्येष्ठं भवदग्रजम् । बालः शिशुरयं सिंह- घोषः अतोऽसमर्थोयमिति कृत्वा । प्रकृतिविश्रम्भणाय-प्रजानां विश्वासोत्पादना- वासी हो जानेपर, मेरे सदृश पुरुषके वर्त्तमान होनेपर भी, अपने स्वामीकी सेवामें परायण तथा सभी प्राणियोंके मित्रभूत सुयोग्य कामपालने पाँच बरससे भी छोटी अवस्थावाले सिंहघोष नामक राजकुमारको गद्दीपर बैठा दिया—राज्याभिषेक कर दिया । क्योंकि मेरा बड़ा साला चण्डघोष अतिस्त्रीप्रसङ्ग करनेके कारण क्षयरोगी हो गया था और उसीसे वह पिता के समान ही अल्पायु होकर मर गया । उस विवेकी महात्मा कामपालने सिंहघोषका यथाविधि पालन-पोषण करके उसे बड़ा किया । उक्त कुमार सिंहघोषके इस समय कई अन्तरंगभूत दुष्ट मन्त्री हैं जो उसे तारुण्यमें मदोन्मत्त कर रहे हैं तथा खलत्व सिखा रहे हैं । उन मन्त्रियोंके द्वारा उसने निम्नांकित बातें ज्ञात की हैं—