भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 268, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 268

२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां ( १० ) सोऽतिभीतो मामभिप्रणम्याह — 'अहमेव मूढोऽपराद्धः यस्तव दुहितृसंसर्गानुग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा समादिष्टवान् व- धम् । तदास्तां कान्तिमती राज्यमिदं मम च जीवितमप्यद्यप्रभृति भवदधी- नम्' इत्यवादीत् । अथापरेद्युः प्रकृतिमण्डलं संनिपात्य विधिवदात्मजायाः पाणिमग्राहयत् । अश्रावयच्च तनयवार्ता तारावली कान्तिमत्यै, सोमदे- वीसुलोचनेन्द्रसेनाभ्यश्च पूर्वजातिवृत्तान्तम् । इत्थमहं मन्त्रिपदापदेशं यौवराज्यमनुभवन्वहरामि विलासिनीभिः' इति । ( ११ ) स एवं मादृशेऽपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्व- ( १० ) स चण्डसिंहः । मां कामपालम् । यः अहम् । दुहितृसंसर्गेति—दुहितुः कन्यायाः संसर्गेण संपर्केणानुगृह्णातीत्येवंशीलस्य कन्या सम्बन्धेन कृपापरस्येत्यर्थः । ग्रहग्रस्तः—ग्रहाविष्टः । उत्क्रान्तसीमा अतिक्रान्तमर्यादः । आस्तां तिष्ठतु । प्रकृति- मण्डलं प्रजावर्गम् । संनिपात्य—एकत्रीकृत्य प्रजानां समक्षमित्यर्थः । विधिवद् विध्युक्तमार्गेण । आत्मजायाः कन्यायाः कान्तिमत्याः । पाणिमग्राहयत् । विवाहम्- कारयत् मयेति शेषः । तनयवार्त्ता पुत्रवृत्तान्तम् । पूर्वजातिवृत्तान्तं पूर्वजन्मपरि- चयादिकम् । इत्थमनेन प्रकारेण । मन्त्रिपदापदेशं मन्त्रिपदस्यापदेशश्छलं यत्र तदिति यौवराज्यविशेषणम् । मन्त्रिन्याजेन यौवराज्यमेव अनुभवामीत्यर्थः । विलासिनीभिः कामिनीभिरित्यन्तं कामपालवाक्यम् । ( ११ ) स एवमित्यादि पुनः कथयति पूर्णभद्रः । स कामपालः । एवम् अनेन प्रकारेण । जन्तौ—जन्तुसदृशे निकृष्टे मयि । परिचर्यानुबन्धी—सेवापरायणः । बन्धुः ( १० ) राजाने अत्यन्त भयभीत होकर मुझे प्रणाम किया और कहा—'मैं स्वयं ही मूर्ख हूँ । मैंने ही आपका अपराध किया है । क्योंकि कन्याके साथ सम्पर्क करनेवाले आपपर मैंने पागलकी तरह क्रोधाभिभूत हो कर अतिक्रान्तमर्यादावालेके सदृश व्यवहार किया—वधकी आज्ञा सुनायी । अब उस चर्चाको त्याग दीजिये और आजसे यह कान्तिमती कन्या. मेरा सम्पूर्ण राज्य तथा जीवन अपने ही अधीन समझिये । एवं ऐसा कहनेके पश्चात् उस राजा ने दूसरे दिन अपने प्रजावर्गको एकत्र करके अपनी कन्या कान्तिमतीका विवाह मेरे साथ शास्त्रानुसार सम्पन्न कर दिया । तारावलीने उस शिशु-वृत्तको कान्तिमती देवीसे कह सुनाया । सोमदेवी, सुलोचना और इन्द्रसेना प्रभृतिको भी पूर्वजन्मका परिचय वृत्त सुना दिया । इस रीतिसे मैं सचिवपदके व्याज ( छल ) से यौवराज्यसुखोंको भोगता हुआ विलासिनियोंके साथ नित्य रमण किया करता हूँ । ( ११ ) पुनः पूर्णभद्रने कहना प्रारम्भ किया । मेरे श्वशुर राजा चण्डसिंहके स्वर्ग-