भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 288, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 288

२८८ | दशकुमारचरितम् । | [ उत्तरपीठिकायां भक्तिमान्कृतकर्मा चेत्यमित्राभियुक्तमेन मभ्यसराम । अभूवं च भवत्पाद- पङ्कजरजोनुग्राह्यः। स चेदानीं भवच्चरणप्रणामप्रायश्चित्तमनुतिष्ठतु सर्वदु- श्चरितक्षालनमनार्यः सिंहघोषः' इत्यर्थपालः प्राञ्जलिः प्रणनाम । देवोऽपि राजवाहनः 'बहुपराक्रान्तम् , बहूपयुक्ता च बुद्धिः, मुक्तबन्धस्ते श्वशुरः पश्यतु माम्' इत्यभिधाय भूयः प्रमतिमेव पश्यन्प्रीतिस्मेरः 'प्रस्तूयतां तावदात्मीयं चरितम्' इत्याज्ञापयत् । इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽर्थपालचरितं नाम चतुर्थ उच्छ्वासः। मागतवन्तः । भवत्पादेति-भवतस्तव पादपङ्कजस्य चरणकमलस्य रजसां परागाणामनुग्राह्यो दयनीयः । अभूवमित्येनेनान्वयः । स चेदानीमित्यादि- स चानार्यः दुष्टः सिंहघोषः इदानीं सर्वदुश्चरितानामखिलपापानां क्षालनं शोधकं भवच्चरणयोः प्रणाम एव प्रायश्चित्तं अनुतिष्ठतु-करोतु । अधुना भवच्चरणयोः शरणग्रहणमन्तरेण तस्य निष्कृतिर्नास्तीति भावः । बहुपराक्रान्तं त्वया महान् पराक्रमः कृतः । बहूपयुक्ता बुद्धिः-बुद्धेर्बहूपयोगः कृतः, मुक्तबन्धः-बन्धनान्मु- क्तस्ते श्वशुरः सिंहघोषः मां पश्यतु मम समीपमागच्छत्वित्यर्थः । भूयः पुनरपि । प्रमतिं-तदाख्यकुमारम् । प्रीतिस्मेरः-प्रीत्या स्नेहेन स्मेर ईषद्धसिताननः । प्रस्तू- यतामारभ्यताम् । इति श्रीताराचरणभट्टाचार्यकृतायां वालबोधिनीसमाख्यायां दशकुमार- चरितव्याख्यायाम्-अर्थपालचरितं नाम चतुर्थ उच्छ्वासः। आपका भक्त कृतकार्य यहाँ आया । और शत्रुओंसे आक्रान्त होकर निज साहाय्यके लिये हमें ले आया । यहाँ पर आपके चरणकमलोंके परागोंकी दया हुई । वह दुष्ट सिंहघोष इस समय आपके चरणोंका प्रणामरूप प्रायश्चित्त विधानके अनुष्ठानसे अपने सभी दुराचरणोंको प्रक्षालित करना चाहता है । ऐसा कह करके अर्थपालने बद्धाञ्जलि होकर प्रणाम किया । देव राजवाहनने भी कहा - 'आपने बड़ा पराक्रम दर्शाया । बुद्धिका बहुत उपयोग किया । आपका श्वशुर बन्धन रहित होकर मुझसे मिले । इतना कहकर पुनः प्रमति नामक कुमार की ओर स्नेहसे स्मित होकर देखते हुए आज्ञा दी कि आप भी अपने चरितको प्रारम्भ करें । इस प्रकारसे बालक्रीडा नामक हिन्दी टीका दशकुमारचरितके * चतुर्थ उच्छ्वासकी समाप्त हुई ।