दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 293, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २६३
मास्तीर्णं पल्लवशयनम् , कुतस्त्यं चेदमिन्दुगभस्तिसम्भारभासुरं हंसतू- लदुकूलशयनम् , एष च को नु शीतरश्मिकिरणरज्जुदोलापरिभ्रष्टमूर्च्छित इवाप्सरोगणः स्वैरसुप्तः सुन्दरीजनः, का चेयं देवीवारविन्दहस्ता शारद- शशाङ्कमण्डलामलदुकूलोत्तरच्छदमधिशेते शयनतलम् । ( ५ ) न तावदेषा देवयोषा, यतो मन्दमन्दमिन्दुकिरणैः संवाह्यमाना कमलिनीव सङ्कुचति । भग्नवृन्तच्युतरसविन्दुशवलितं पाकपाण्डु चूतफल- मिवोद्भिन्नस्वेदरेखं गण्डस्थलमालक्ष्यते, अभिनवयौवनविदाहनिर्भरो-
गभस्तीनां किरणानां सम्भारः समूहस्तद्वद्भासुरं देदीप्यमानम् । हंसतूलदुकूल- शयनं-हंसतूलवच्छुभ्रं यद्दुकूलं वस्त्रं तेन रचितं शयनं शय्या । एष इति सुन्दरी- जन इत्यनेन सम्बध्यते । शीतरश्मीति-शीतरश्मेः चन्द्रस्य किरणा एव रज्जव- स्तासां या दोला हिन्दोलिका तस्याः परिभ्रष्टः पतितः अतएव मूर्च्छितः सञ्जात- मोहस्तादृशः अप्सरोगणो दिव्यवाराङ्गनासमूह इव । स्वैरसुप्तः-स्वच्छन्दनिद्रितः । सुन्दरीजनः स्त्रीसमुदायः । अरविन्दहस्ता देवी-लक्ष्मीः सेव । शारदेति-शारदं शरदि भवं यत् शशाङ्कमण्डलं चन्द्रबिम्बं तद्वदमलं स्वच्छं दुकूलं वस्त्रं तदेवोत्तर- च्छदः आस्तरणं यस्य तत् । शयनतलस्य विशेषणम् । ( ५ ) एषा-शयाना स्त्री । देवयोषा-देवाङ्गना । न तावत्-नैव । यतो यस्मात् । संवाह्यमाना-मर्द्यमाना। सेव्यमानेति यावत् । सङ्कुचति-यथा इन्दु- किरणैः स्पृश्यमाना कमलिनी सङ्कोचं प्राप्नोति तथा इयमपि निद्रया नेत्रसङ्कोचम- धिगच्छतीति निद्रातीति भावः । अतो न देवी देवीनां स्वप्नाभावात् । भग्नवृन्ते- ति-भग्नवृन्तात् त्रुटितप्रसवबन्धनात् च्युतः क्षरितो यो रसस्तस्य विन्दुभिः कणैः शवलितं कर्बुरितम् । तथा पाकपाण्डु-पाकेन परिणामेन पाण्डुवर्णं तादृशं चूत- फलमाम्रमिव । उद्भिन्नेति-उद्भिन्ना निर्गता स्वेदरेखा घर्मधारा यत्र तादृशं गण्ड-
शय्या आ गयी ? चन्द्रमाकी किरणरूपी रस्सियों द्वारा निर्मित हिंडोले ( पालने ) के ऊपर से गिरकर अचेतनावस्थाको प्राप्त ( मूर्छित ) अप्सराओंके समान सुखपूर्वक शयन करनेवाली ये सुन्दरियाँ कौन हैं ? क्या यह कमलको हाथमें रखनेवाली लक्ष्मीके समान लक्ष्मी है ? अथवा कौन इस रीतिसे शरत्कालिक चन्द्रमण्डलके समान सफेद वस्त्रकी ओढ़नी ( चादर ) ओढ़े हुए इस पलङ्गपर सोया है ? ( ५ ) यह सोयी हुई अंगना देवस्त्री नहीं है क्योंकि शनैः शनैः चन्द्रकिरणोंसे संसेव्यमान कमलिनीके सदृश संकुचित होकर सोती हुई दीख रही है, परन्तु देवगण सोते नहीं हैं । इसके कपोलोंपर पसीनेकी बूँदें इस तरह मालूम होती हैं जिस तरह
Nepal Sanskrit University, Balmeeki Campus, Kathmandu