दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 307, कुल 474 में से
संदर्भ में पढ़ेंपञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३०७ किमिति चिरस्थितिक्लेशोऽनुभूयते । ननूपवेष्टव्यम्' इत्यभिहिता सा सस्मितम् 'अनुगृहीतास्मि' इति न्यषीदत् । संकथा च देशवार्त्तानुविद्धा काचनावयोरभूत् । कथासंश्रिता च सा 'देशातिथिरसि । दृश्यन्ते च ते- ऽध्वश्रान्तानीव गात्राणि । यदि न दोषो मद्गृहेऽद्य विश्रमितुमनुग्रहः क्रियताम्' इत्यशंसत् । (१७) अहं च 'अयि मुग्धे, नैष दोषः, गुण एव' इति तदनुमार्गगामी तद्गृहगतो राजार्हेण स्नानभोजनादिनोपचरितः, सुखं निषण्णो रहसि पर्यपृच्छ्ये -'महाभाग, दिगन्तराणि भ्रमतः कच्चिदस्ति किञ्चिदद्भुतं भवतोपलब्धम्' इति । ममाभवन्मनसि 'महदिदमाशास्पदम् । एषा खलु प्रदेशः । किमिति-किमर्थं चिरस्थितिक्लेशः-दीर्घकालावस्थानायासः । अनुभूयते त्वयेति शेषः । सा युवती । न्यषीदत्-उपाविशत् । संकथा-आलापः । देशवार्त्ता- नुविद्धा-देशवृत्तान्तसम्बन्धिनी । आवयोः तस्या मम च । कथासंश्रिता-आलाप- निविष्टा । सा युवती अशंसदित्यनेनान्वयः । देशातिथिः-अस्मद्देशे आगतोऽसि त्व- मतोऽस्माकमतिथिरसि । अध्वश्रान्तानि-मार्गलङ्घनक्लान्तानि विश्रमितुमवस्थातुम् । ( १७) अहं प्रमतिरित्यर्थः । एषः-त्वद्गृहे ममावस्थानम् । गुणः अनुकूलः तद- नुमार्गेति-तस्याः युवत्याः पश्चाद् गच्छन् । राजार्हेण राजोचितेन । उपचरितः-स- म्यक् संस्कृतः । पर्यपृच्छ्ये-परिपृष्टोऽहं तयेति शेषः । दिगन्तराणि-नानादेशान् । कच्चिदिति प्रश्नार्थकमव्ययम् । उपलब्धं-दृष्टं ज्ञातं वा । मम मनसि अभवत्- अहमित्थमचिन्तयम् । आशास्पदं-आशाजनकम् । एषा युवती । निखिलेति- नयनाभिराम तथा रमणीय है और सबोंके विश्रान्ति योग्य है अतः आप खड़े होनेके कष्टको क्यों सहती हैं- यहां बैठ जाइये ।' मेरे ऐसे कथनपर उसने हंसीके साथ उत्तर दिया- 'मैं आपकी अनुगृहीत हूँ' और वह बैठ गयी । हम दोनोंमें देश-देशान्तरोंकी तथा देवताओंकी कथा-वार्ताएं होने लगीं । फिर उस तरुणीने मुझसे कहा- 'आप इस देशके अतिथिरूपमें हैं। अतः यदि आपको कोई आपत्ति न होवे तो आप मेरे गृहपर चलकर विश्राम करनेकी कृपा करें क्योंकि आपका शरीर मार्गश्रमसे परिक्लान्त दीख रहा है । (१७) मैंने उत्तर दिया- 'अयि मुग्धे ! आपके यहाँ चलनेमें मुझे कोई आपत्ति नहीं दीखती अपितु, सुख ही मालूम होता है। पश्चात् मैं उसके मार्गका अनुसरण करता हुआ उस बालाके गृहपर आ पहुँचा। उस बालाने अपने घरपर मेरा राजोचित स्वागत किया और स्नान-भोजन आदिका सुन्दरतासे प्रबन्ध कराया । फिर आनन्दमें उसने मुझसे एकान्तमें पूछा- 'हे महाभाग ! देश-देशान्तरोंमें पर्यटन करते हुए आपने