भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 311, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 311

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३१६ तच्छल्योद्धरणाक्षमश्च धन्वन्तरिसदृशस्त्वदृते नेतरोऽस्ति वैद्य इति प्रत्या- गतोऽस्मि । तत्प्रसीद कञ्चिदुपायमाचरितुम् । ( २१ ) अयमहं परिवर्तितस्त्रीवेषस्ते कन्या नाम भवेयम् । अनुगतश्च मया त्वमुपगम्य धर्मासनगतं धर्मवर्धनं वक्ष्यसि—'ममेयमेकैव दुहिता । जातमात्रायां त्वस्यां जनन्यस्याः संस्थिता । माता च पिता च भूत्वाहमेव व्यवर्धयम् । एतदर्थमेव विद्यामयं शुल्कमर्जितुं गतोऽभूदवन्तिनगरीमुज्ज- यिनीमस्मद्वैवाह्यकुलजः कोऽपि विप्रदारकः। तस्मै चेयमनुमता दातुमित- रस्मै न योग्या । तरुणीभूता चेयम् । स च विलम्बितः । तेन तमानीय द्धरणे निष्कासनेऽक्षमोऽसमर्थः । धन्वन्तरिसदृशः-धन्वन्तरितुल्यः । त्वद् । भवतः । ऋते विना । इतरः अन्यः कोऽपि । वैद्यः-चिकित्सकः । प्रसीद-प्रसन्नो भव । आच- रितुं कर्तुम् । ( ३१ ) अयमहं-अहमेव । परीति-परिवर्त्तितो धृतः स्त्रियाः कामिन्या वेषः स्वरूपं येन सः, नामेत्यलीके । अनुगतः अनुसृतः । त्वं वृद्धविटः इत्यर्थः । धर्मा- सनगतं विचारासनोपविष्टम् । जातमात्रायां स्वस्यां-जन्मसमये एव । संस्थिता- मृता । व्यवर्धयमपालयमेनामिति शेषः । एतदर्थ-इमां कन्यां परिणेतुम् । विद्या- मयं-विद्यारूपम् । शुल्कं पणम् । विदुषे एव कन्या समर्पणीया भवतीति हेतोः तां विद्यामर्जितुं अध्येतुम् । गतोऽभूत् गतवान् । अस्मदिति-अस्माकं वैवाह्ये विवाहयोग्ये कुले वंशे जातः । कोऽपि-अनिर्दिष्टनामा । विप्रदारकः ब्राह्मणकुमारः । तस्मै विप्रदारकाय । दातुं-सम्प्रदानार्थम् । इयं-कन्या । अनुमता-अभिलषिता । इतरस्मै-अन्यजामात्रे न योग्या दातुमिति शेषः । तरुणीभूता-यौवनमधिगता । स जामाता । विलम्बितः-विद्याध्ययनार्थं बिलम्बं करोनात्यर्थः । तेन-तेन उन बाणोंको निकालनेमें केवल आपही एक धन्वन्तरिके तुल्य वैद्य हैं—अन्य कोई है ही नहीं। इसी हेतु मैं आपके पास आया हूँ । अतः प्रसन्न होकर उपाय कीजिये । ( २१ ) और मैंने कहा-मै अपने रूपको बदलकर आपकी पुत्रीरूपमें हो जाता हूँ । जब राजा धर्मासनपर आरूढ़ रहे तब आप मुझे लेकर उसके सम्मुख उपस्थित होइये और कहिये कि मेरी केवल यही एक पुत्री है । इसके जन्मकालमें ही इसकी जननी परलोक सिधार गयी । मैंने माता-पिता दोनों बनकर इसे पाला है । मैने अवन्तिका ( उज्जयिनी ) नगरीमें जाकर अपनी जाति और कुलके अनुरूप एक विद्वान् ब्राह्मण-कुमारको इसके विवाहके लिये राजी किया है, परन्तु वह कुमार नियतकाल हो जाने पर भी यहां नहीं आया है अतः मैं चिन्तित हो रहा हूँ । मैं चाहता हूँ कि Nepal Sanskrit University, Balmeeki Campus, Kathmandu