भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 314, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 314

३१४ दशकुमारचरितम् । [ उत्तरपीठिकायां नृपात्मजा तु मामितस्ततोऽन्विष्यानासादयन्ती 'तया विना न भोक्ष्ये' इति रुदन्त्येवावरोधने स्थास्यति । (२४) तन्मूले च महति कोलाहले, क्रन्दत्सु परिजनेषु, रुदत्सु सखी- जनेषु, शोचत्सु पौरजनेषु, किंकर्तव्यतामूढे सामात्ये पार्थिवे, त्वमास्था- नीमेत्य मां स्थापयित्वा वक्ष्यसि - 'देव स एष मे जमाता तवार्हति श्री- भुजाराधनम् । अधितीश्चतुर्ष्वाम्नायेषु, गृहीती षट्स्वङ्गेषु, आन्वीक्षिकीवि- चक्षणः, चतुःषष्टिकलागमप्रयोगचतुरः, विशेषेण गजरथतुरङ्गतन्त्रवित् , परित्यक्तकन्यकावेषः । जामाता नाम-जामातेव । नृपात्मजा-राजकन्या । अन्विष्य- अनुसन्धाय । अनासादयन्ती-अप्राप्नुवती । तया कन्यकया । भोक्ष्ये-भक्षयिष्या- मि । अवरोधने-अन्तःपुरे । ( २४ ) तन्मूले-तदेव कन्यान्तर्धानमेव मूलं निदानं यस्य तस्मिन् । कोला- हले कलरवे । क्रन्दत्सु-विलपत्सु । परिजनेषु-सेवकवर्गेषु । सखीजनेषु-सहचरीषु । शोचत्सु-शोकं कुर्वत्सु । पौरजनेषु-नागरिकेषु । किंकर्त्तव्यतामूढे-अप्रतिपत्तिमूग्धे । सामात्ये-मन्त्रिसहिते । पार्थिवे-नृपे । त्वं वृद्धविट इत्यर्थः । आस्थानीं राजसभाम् । मां-जमातृवेषधारिणं प्रमत्तिम् । स्थापयित्वा-राज्ञः पुरतः संस्थाप्य । स एषः-यो विद्यामध्येतुमज्जयिन्यां गत आसीत् । श्रीभुजाराधनम्-श्रीमद्भ्यां भुजाभ्यामा- राधनं सत्कारम् । यतोऽयं सर्वशास्त्रनिष्post... सर्वशास्त्रनिष्post -> सर्वशास्त्रनिष्post... सर्वशास्त्रनिष्post... सर्वशास्त्रनिष्णातो मे जामाताऽतो भवत्सका- शात्पूजामर्हतीति भावः । अधिती-अधीतवान्-कृतश्रम इत्यर्थः । आम्नायेषु- वेदेषु- । गृहीती-कृतश्रमः । अङ्गेषु-शिक्षाकल्पादिषु । उभयत्र क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानमिति सप्तमी । आन्वीक्षिकीविचक्षणः-तर्कविद्यानिष्post... तर्कविद्यानिष्णात: । चतुःषष्टीति-चतुष्षष्टिकलाः नृत्यादयस्तद्रूप आगमः शास्त्रं तस्य प्रयोगेऽनुष्ठाने चतुरो दक्षः । गजरथेति-गजरथतुरङ्गशास्त्रज्ञः । इष्वसनास्त्रकर्मणि-इष्वसनं धनु- पाकर खूब रोदन करेगा-तथा कहेगा कि 'मैं ब्राह्मणीकी पुत्रीके बिना भोजन नहीं करूंगी एवं रोती हुई अन्तःपुरमें पड़ी रहेगी । ( २४ ) 'ब्राह्मणपुत्री डूब गयी' ऐसा शोरगुल मचनेपर उस राजपुत्रीके परिजन और सखियां सब रोती हुई क्रन्दन करेंगी । राजसचिवगण किंकर्तव्यविमूढ़ हो जायेंगे, पुरवासी शोक करने लगेंगे । उसी समय आप मुझे राजसभामें उपस्थित करके कहियेगा-'हे देव ! यह मेरा जामाता ( दामाद ) है । आपकी 'भुजाओं द्वारा इसका स्वागत-सत्कार होना उचित है क्योंकि इसने चारों वेदोंका अध्ययन किया है । वेदके छहों अङ्गोंको शिक्षा-कल्पादि यथाविधि पढ़ा है। तर्कविद्यामें निष्णात है । नृत्यादि

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · पृष्ठ 314, कुल 474 में से · BharatKosha