भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 315, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 315

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३१५ इष्वसनास्त्रकर्मणि गदायुद्धे च निरुपमः, पुराणेतिहासकुशलः, कर्ता काव्यनाटकाख्यायिकानाम्, वेत्ता सोपनिषदोऽर्थशास्त्रस्य, निर्मत्सरो गुणेषु, विश्रम्भी सुहृत्सु, शक्लः, संविभागशीलः, श्रुतधरः, गतस्मयश्च । नास्य दोषमणीयांसमप्युपलभे । न च गुणेष्वविद्यमानम् । तन्मादृशस्य ब्राह्मणमात्रस्य न लभ्य एष सम्बन्धी । दुहितरमस्मै समर्प्य वार्धकोचित- मन्त्यमाश्रमं सङ्क्रमेयम् , यदि देवः साधु मन्यते' इति । (२५) स इदमाकर्ण्य वैवर्ण्याक्रान्तवक्त्रः परमुपेतो वैलक्ष्यमारप्स्य- तेऽनुनेतुमनित्यतादिसङ्कीर्तनेनात्रभवन्तं मन्त्रिभिः सह । त्वं तु तेषामद- स्तस्य तथा अस्त्राणां वाणादीनां कर्मणि प्रयोगे निरुपमः अद्वितीयः । कर्त्ता-रच- यिता । वेत्ता-ज्ञाता । सोपनिषदः-सरहस्यस्य । अर्थशास्त्रस्य कामन्दकीया- दिनीतिशास्त्रस्य । निर्मत्सरः-द्वेषरहितः । विश्रम्भी-विश्वासवान् । शक्लः प्रियं- वदः । शक्लः प्रियंवदः प्रोक्त इति हलायुधः । संविभागशीलः-धनानां यथोचित- विनियोगपटुः-सुविवेचको वा । श्रुतधरः-श्रवणमात्रेण शास्त्रार्थधारणसमर्थः । गतस्मयो निरहङ्कारः । अस्य जामातुः । अणीयांसं-लेशमात्रम् । उपलभे-पश्या- मि । गुणेषु अविद्यमानं-गुणानां मध्ये अवर्त्तमानं कमपि गुणं नोपलभे इति योजना । तत्-तस्मात् । ब्राह्मणमात्रस्य-धनादिरहितस्य अवशिष्टब्राह्मणस्य । एष-एतादृशः । सम्बन्धी-जामातः । वार्धकोचितं-वृद्धकालोचितम् । अन्त्यम्- आश्रमम्-संन्यासम् । संक्रमेयम्-आश्रयेयम् । देवः भवान् । साधु-समीचीनम् । (२५) स राजा । इदं-वृद्धोक्तं वचनम् । वैवर्ण्येति तस्याः कन्याया अद- र्शननिमित्तकेनानुतापेन यद्वैवर्ण्यं मालिन्यं तेनाक्रान्तं वक्त्रं मुखं यस्यासौ । पर- चौसठ कलाओंमें दक्ष हैं । गजरथअश्वशास्त्रज्ञ हैं । धनुर्बाणविद्या तथा गदायुद्धमें प्रवीण हैं । पुराण और इतिहासमें विचक्षण हैं । काव्य, नाटक और आख्यायिकाओंके रचयिता हैं । उपनिषत्सहित अर्थशास्त्रके ज्ञाता हैं । द्वेषरहित गुणज्ञ हैं । मित्रोंमें विश्वास रखनेवाले हैं । प्रियभाषी हैं । धन के व्ययमें यथोचित स्वभाववाले हैं । श्रवणमात्रसे शास्त्रोंके अर्थको धारण करनेवाले हैं । निरहंकारी हैं । इस जामातामें लेशमात्र भी दुर्गुण नहीं है । ऐसा कोई भी गुण नहीं है जो इनमें वर्त्तमान न हो । सर्वगुण-सम्पन्न हैं । मेरे ऐसे ब्राह्मणमात्रके लिये ऐसा योग्य जामाता मिलना कठिन है । अतः ऐसे योग्य वरको मैं अपनी कन्या समर्पण करके अपने वृद्धत्वकालमें संन्यास ग्रहण करना चाहता हूँ । देव ! यदि आपकी अनुमति हो । (२५) वह राजा ऐसा सुनकर मलिनमुख होकर विलक्षणता प्रकट करेगा । फिर २१ द० कु० उ० Nepal Sanskrit University, Balmeeki Campus, Kathmandu

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · पृष्ठ 315, कुल 474 में से · BharatKosha