दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 319, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF षष्ठाच्छ्वासः ( १ ) सोऽप्याचचक्षे—देव, सोऽहमपि सुहृत्साधारणभ्रमणकारणः सुह्मेषु दामलिप्ताह्वयस्य नगरस्य बाह्योद्याने महान्तमुत्सवसमाजमालोक- यम् । तत्र कचिदतिमुक्तकलतामण्डपे कमपि वीणावादेनात्मानं विनोदय- न्तमुत्कण्ठितं युवानमद्राक्षम् । अप्राक्षं च—'भद्र, को नामायमुत्सवः, कि- मर्थं वा समारब्धः, केन वा निमित्तेनोत्सवमनादृत्यैकान्ते भवानुत्कण्ठित इव परिवादिनीद्वितीयस्तिष्ठति' इति । ( २ ) सोऽभ्यधत्त—सौम्य, सुह्मपतिस्तुङ्गधन्वनामानपत्यः प्रार्थित- ( १ ) साम्प्रतं मित्रगुप्तः स्ववृत्तान्तं वर्णयति । स मित्रगुप्तः । यथाऽन्ये कु- माराः स्वस्वचरितान्यश्रावयंस्तथेति अपिशब्दार्थः । आचचक्षे आख्यातवान् । चक्षिङ् कथने इत्यस्य धातोर्लिटि रूपम् । सुहृदिति सुहृदां मित्राणां कुमारान्तरा- णामिति यावत् साधारणं समानं भ्रमणस्य भूपर्यटनस्य कारणं निदानं यस्यासौ । सुह्मेषु देशविशेषेषु । दामलिप्ताह्वयस्य दामलिप्तनामकस्य । उत्सवसमाजं उत्सव- गोष्ठीम् । तत्रोत्सवसमाजे । क्वचिद् एकदेशे । अतिमुक्तकेति-माधवीलतामण्डपे । वीणावादेन विपञ्चीवादनेन । विनोदयन्तमानन्दयन्तम् । उत्कण्ठितं उत्कण्ठायुक्तं व्याकुलितमिति यावत् । अप्राक्षं पृष्टवान् । प्रच्छ्धातोर्लुङि रूपम् । किमर्थं-कस्मै प्रयोजनाय । निमित्तेन-कारणेन । अनादृत्य उपेक्ष्य विहायेति यावत् । परिवादि- नीद्वितीयः-वीणासहायः । ( २ ) स युवा । अभ्यधत्त अकथयत् । सुह्मपतिः सुह्मदेशस्य राजा । तुङ्गेति- [ अब मित्रगुप्त अपना वृत्तान्त सुनाना आरम्भ कर रहे हैं । ] ( १ ) उस मित्रगुप्तने कहा—'हे देव ! सभी सुहृदोंके समान मैं भी पृथिवीकी परिक्रमा करता हुआ सुह्मप्रान्तके अन्तर्गत दामलिप्त नामक नगरके बाहरी बगीचेमें जा पहुँचा । उस समय वहाँपर, एक वृहत् उत्सवके निमित्त, बहुतसे लोग एकत्र हुए थे । उस उत्सवगोष्ठीको मैंने देखा । उस उत्सवगोष्ठीसे विरक्त एकान्त स्थलमें माधवीलता- मण्डपके नीचे बैठे हुए एक उत्कंठित युवकको मैंने देखा जो आत्मविनोदार्थ वीणाको बजा रहा था । मैंने उससे पूछा—'हे सौम्य ! इस उत्सवका क्या नाम है, किस प्रयोजनके हेतु यह प्रारम्भ हुआ है, और किस कारणसे आप उत्सवगोष्ठी त्याग करके यहां (एकान्तमें ) वीणा द्वारा अपने चित्तको अतिरञ्जित करते हुए बैठे हैं ?' ( २ ) उस वीणाधारी युवकने उत्तर दिया—'हे भद्र ! सुह्मप्रान्तके अधिपति सन्तान Nepal Sanskrit University, Balmeeki Campus, Kathmandu